संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय २४५

नागरखण्डः - अध्याय २४५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ पैजवन उवाच ॥
शालिग्रामशिलायां च जगदादिः सनातनः ॥
कथं पाषाणतां प्राप्तो गण्डक्यां तच्च मे वद ॥१॥
त्वत्प्रसादेन विप्रर्षे हरौ भक्तिर्दृढा भवेत् ॥
भवंतस्तीर्थरूपा हि दर्शनात्पापहारिणः ॥२॥
तीर्थामृतावगाहेन यथा पवित्रता नृणाम् ॥
भवद्वाक्यामृताज्जाता तथा मम न संशयः ॥३॥
 ॥ गालव उवाच ॥
इतिहासस्त्वयं पुण्यः पुराणेषु च पठ्यते ॥
यथा स एव भगवाञ्छालिग्रामत्वमागतः ॥४॥
महेश्वरश्च लिंगत्वं कथयेऽहं तवाऽनघ ॥
पूर्वं प्रजापतिर्दक्षो ब्रह्मणोंऽगुष्ठ संभवः ॥५॥'
 तस्यासीद्दुहिता साध्वी सतीनाम्नी सुलक्षणा ॥
हरेणोढा विधिज्ञेन वेदोक्तविधिना ततः ॥६॥
स चकार महायज्ञे हरद्वेषं विमूढधीः ॥
तेन द्वेषेण महता सती प्रकुपिता भृशम् ॥७॥
यज्ञवेद्यां समागम्य वह्निधारणया तदा ॥
प्राणायामपरा भूत्वा देहोत्सर्गं चकार सा ॥८॥
पितृभागं परित्यज्य स्वभागेन युता सती ॥
मनसा ध्यानमगमच्छीतलं च हिमालयम् ॥९॥
यत्रयत्र मनो याति स्वकर्मवशगं मृतौ ॥
अवतारस्तत्रतत्र जायते नात्र संशयः ॥१०॥
दह्यमाना हि सा देवी हिमालयसुताऽभवत् ॥
तत्र सा पार्वती भूत्वा तप उग्रं समाश्रिता ॥११॥
शिवभक्तिरता नित्यं हरव्रतपरायणा ॥
शृंगे हिमवतः पुत्री मनो न्यस्य महेश्वरे ॥१२॥
ततो वर्षसहस्रांते भगवान्भूतभावनः ॥
अथाजगाम तं देशं विप्ररूपो महेश्वरः ॥१३॥
तां ज्ञात्वा तपसा शुद्धां कर्मभावैः परीक्षितैः ॥
ततो दिव्यवपुर्भूत्वा करे जग्राह पार्वतीम् ॥१४॥
तपसा निर्जितश्चास्मि करवाणि च किं प्रियम् ॥
ततः प्राह महेशानं प्रमाणं मे पिता गुरुः ॥१५॥
सप्तर्षीन्स तथोक्तस्तु प्रेषयामास शंकरः ॥
ते तत्र गत्वा समयं वक्तुं हिमवता सह ॥१६॥
निवेद्य च महेशानं प्रेषिता मुनयो ययुः  ॥
ततो लग्नदिने देवा महेन्द्रादय ईश्वरम् ॥१७॥
ब्रह्मविष्णुपुरोगाश्च पुरोधायाग्निमाययुः ॥
योगसिद्धा समायांतं वरवेषं वृषध्वजम्  ॥१८॥
हिमवान्पूजयामास मधुपर्कादिकैः शुभैः ॥
उपचारैर्मुदा युक्तो मानयन्कृतकृत्यताम् ॥१९॥
वेदोक्तेन विधानेन तां कन्यां समयोजयत् ॥
पाणिग्रहेण विधिना द्विजातिगणसंवृतः ॥२०॥
वह्निं प्रदक्षिणीकृत्य गिरीशस्तदनन्तरम् ॥
दानकाले च गोत्रादि पृष्टो लज्जापरो हर ॥२१॥
ब्रह्मणो वचनात्तेन विधिशेषोऽवशेषितः ॥
चरुप्राशनकाले तु पंचवक्त्रप्रकाशकृत् ॥२२॥
सहितः सकलैर्देवैः कुतूहलपरायणः ॥
गिरिजार्थं समायुक्तो वरः सोऽपि महेश्वरः ॥२३॥
नवकोटिमुखां दृष्ट्वा साट्टहासो जनोऽभवत् ॥
वैदिकी श्रुतिरित्युक्ता शिव त्वं स्थिरतां व्रज ॥२४॥
लज्जिता सा परित्यागं नाकरोत्पंचजन्मसु ॥
भर्त्तारमसितापांगी हरमेवाभ्यगच्छत ॥२५॥
देवानां पर्वतानां च प्रहृष्टं सकलं कुलम् ॥
ततो विवाहे संपूर्णे हरोऽगात्कौतुकौकसि ॥२६॥
गणानां चापि सान्निध्ये सा नामर्षयदंबिका ॥
पारिबर्हं ततो दत्त्वा शैलेन स विसर्जितः ॥२७॥
मानितः सत्कृतश्चापि मन्दराचलमभ्यगात् ॥
विश्वकर्मा ततस्तस्य क्षणेन मणिमद्गृहम् ॥२८॥
निर्ममे देवदेवस्य स्वेच्छावर्द्धिष्णुमंदिरम् ॥
सर्वर्द्धिमत्प्रशस्ताभं मणिविद्रुमभूषितम् ॥२९॥
स्थूणासहस्रसंयुक्तं मणिवेदिमनोहरम् ॥
गणा नंदिप्रभृतयो यस्य द्वारि समाश्रिताः ॥३०॥
त्रिनेत्राः शूलहस्ताश्च बभुः शंकररूपिणः ॥
वाटिका अस्य परितः पारिजाताः सहस्रशः ॥३१॥
कामधेनुर्मणिर्दिव्यो यस्य द्वारि समाश्रितौ ॥
तस्मिन्मनोहरतरे कामवृद्धिकरे गृहे ॥३२॥
पार्वत्या वसतः सार्द्धं कामो दृष्टिपथं ययौ ॥
वायुरूपः शिवं दृष्ट्वा कामः प्रोवाच शंकरम् ॥३३॥
नमस्ते सर्वरूपाय नमस्ते वृषभध्वज ॥
नमस्ते गणनाथाय पाहि नाथ नमोऽस्तु ते ॥३४॥
त्वया विरहितं लोकं शववत्स्पृशते मही ॥
न त्वया रहितं किञ्चि द्दृश्यते सचराचरे ॥३५॥
त्वं गोप्ता त्वं विधाता च लोकसंहारकारकः ॥
कृपां कुरु महादेव देहदानं प्रयच्छ मे ॥३६॥
 ॥ ईश्वर उवाच ॥
यन्मया त्वं पुरा दग्धः पर्वते पुरतोऽनघ ॥
तस्या एव समीपे त्वं पुनर्भव स्वदेहवान् ॥३७॥
एवमुक्तस्ततः कामः स्वशरीरमुपागतः ॥
ववंदे चरणौ शूद्र विनयावनतोऽभवत् ॥३८॥
ततो ननाम चरणौ पार्वत्याः संप्रहृष्टवान् ॥
लब्धप्रसादस्तु तयोः समीपाद्भुवनत्रये ॥३९॥
चचार सुमहातेजा महामोहबलान्वितः ॥
पुष्पधन्वा पुष्पबाणस्त्वाकुञ्चितशिरोरुहः ॥४०॥
सदा घूर्णितनेत्रश्च तयोर्देहमुपाविशत् ॥
दिव्यासवैर्दिव्यगंधैर्वस्त्रमाल्यादिभिस्तथा ॥४१॥
सख्यः संभोगसमये परिचक्रुः समंततः ॥
एवं प्रक्रीडतस्तस्य वत्सराणां शतं ययौ ॥४२॥
साग्रमेका निशा यद्वन्मैथुने सक्तचेतसः ॥
एतस्मिन्नंतरे देवास्तारकप्रद्रुता भयात् ॥
ब्रह्माणं शरणं जग्मुः स्तुत्वा तं शरणं गताः ॥४३॥
 ॥ देवा उचुः ॥
तारकोऽसौ महारौद्रस्त्वया दत्तवरः पुरा ॥४४॥
विजित्य तरसा शक्रं भुंक्ते त्रैलोक्यपूजितः ॥
वधोपायो यथा तस्य जायते त्वं कुरु स्वयम् ॥४५॥
 ॥ ब्रह्मोवाच ॥
मया दत्तवरश्चासौ मयैवोच्छिद्यते नहि ॥
स्वयं संवर्ध्य कटुकं छेत्तुं कोऽपि न चार्हति ॥४६॥
तस्मात्तस्य वधोपायं कथयामि महात्मनः ॥
पार्वत्यां यो महेशानात्सूनुरुत्पत्स्यते हि सः ॥४७॥
दिनसप्तकवान्भूत्वा तारकं स हनिष्यति ॥
इति वाक्यं तु ते श्रुत्वा मंदरं लोकसुंदरम् ॥४८॥
ब्रह्मलोकात्समाजग्मुः पीडिता दैत्यदानवैः ॥४९॥
 तत्र नंदिप्रभृतयो गणाः शूलभृतः पुरः ॥
गृहद्वारे ह्युपा वृत्य तस्थुः संयतचेतसः ॥५०॥
 ॥ देवा ऊचुः ॥
देवाश्च दुःखातुरचेतसो भृशं हतप्रभास्त्यक्तगृहाश्रयाखिलाः ॥
संप्राप्य मासांश्चतुरः स्तपः स्थिता देवे प्रसुप्ते हरतोषणं परम् ॥५१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये पैजवनोपाख्याने तारकोपद्रुतानां देवानां शिवदर्शनार्थं मंदराचलंप्रतिगमनवर्णनंनाम पञ्चचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥२४५॥

N/A

References : N/A
Last Updated : January 06, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP