नागरखण्डः - अध्याय २७७
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ ऋषय ऊचुः ॥
कि नामानो द्विजास्ते च वाराणस्याः समागताः ॥
एकादशप्रकारोऽसौ येषां रुद्रः प्रभक्तितः ॥
तत्संज्ञाश्च समाचक्ष्व विस्तरेण महामुने ॥१॥
॥ सूत उवाच ॥
एकस्तेषां मृगव्याधो विख्यातो भुवनत्रये ॥
द्वितीयः सर्वसंज्ञश्च निंदितश्च तृतीयकः ॥२॥
महायशाश्चतुर्थस्तु कथ्यते मुनिसत्तमाः ॥
अजैकपाद इत्युक्तः पंचमो मुनि सत्तमाः ॥३॥
अहिर्बुध्न्यस्तथा षष्ठः पिनाकी सप्तमस्तथा ॥
परं तपस्तथान्यस्तु दहनो नवमस्तथा ॥४॥
ईश्वरो दशमः प्रोक्तः कपाली चांति मस्तथा ॥
तेषामेतानि नामानि स्थितान्येव हि यानि च ॥
रुद्राणामपि तान्येव विहितानि हरेण तु ॥५॥
॥ ऋषय ऊचुः ॥
कानि दानानि शस्यानि तदर्थं वद नो द्रुतम् ॥
जपश्चैव पुरा प्रोक्तस्त्वया कार्यो यथैव च ॥६॥
॥ सूत उवाच ॥
तदुद्दिश्य प्रदातव्यमेकैकस्य पृथक्पृथक् ॥
प्रत्यक्षाश्च महाभाग दातव्या धेनवः क्रमात् ॥७॥
मृगव्याधाय प्रत्यक्षा गौर्देया च गुडोद्भवा ॥
कपालिने प्रदातव्या नवनीतसमुद्भवा ॥८॥
अजपादाय चाज्योत्था अहिर्बुध्न्याय हेमजा ॥
पिनाकिने प्रदातव्या धेनुर्लवणसम्भवा ॥९॥
परंतपाय विप्रेन्द्रास्तथैव रसस म्भवा ॥
अन्नजा दहनायोक्ता ईश्वराय जलोद्भवा ॥७.१०॥
एता ददाति यो विप्रा एतेषां च महात्मनाम् ॥
चक्रवर्ती भवेन्नूनमेतदाह पितामहः ॥११॥
अन्यत्रापि प्रदत्ताश्च किं पुनर्भवसंनिधौ ॥
तस्मात्सर्वप्रयत्नेन एता देयाः प्रयत्नतः ॥१२॥
धेनवो यो न शक्तः स्यादेका देया प्रयत्नतः ॥
सर्वेषामेव रुद्राणां भर्तृयज्ञवचो यथा ॥१३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये एकादशरुद्रसमीपे दानमाहात्म्यवर्णनं नाम सप्तसप्तत्युत्तरद्विशततमोऽध्यायः ॥२७७॥
N/A
References : N/A
Last Updated : January 06, 2025
TOP