संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय २६६

नागरखण्डः - अध्याय २६६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


ऋषय ऊचुः ॥
श्रुतानि मुख्यतीर्थानि तत्क्षेत्रप्रोद्भवानि च ॥
येषु स्नातो नरः स्म्यक्सर्व तीर्थफलं लभेत् ॥१॥
लिंगानि च महाभाग तत्र मुख्यानि यानि च ॥
यैर्दृष्टैर्लभ्यते श्रेयः सर्वेषां तानि नो वद ॥२॥
सूत उवाच ॥
तत्र च मंकणाख्यं तु लिंगमस्ति सुशोभनम् ॥
तथा सिद्धेश्वरं नाम गौतमेश्वरसंयुतम् ॥३॥
कपालेश्वमन्यच्च चतुर्थं परिकीर्तितम् ॥
एकैकं सर्वलिंगानां फलं यच्छत्यसंशयम् ॥
यथोक्तविधिना सम्यग्यथोक्तं द्विजसत्तमाः ॥४॥
तत्र तावत्प्रवक्ष्यामि मंकणेश्वरजं फलम् ॥
मकाराक्षरयुक्तस्य लिंगस्यात्र द्विजोत्तमाः ॥५॥
शिवरात्रिं समासाद्य यस्तस्य पुरुषो द्विजाः ॥
कुर्याज्जागरणं रात्रौ निराहारः स्थितः शुचिः ॥६॥
सर्वलिंगोद्भवं चैव फलं दर्शनसंभवम् ॥
जायते नात्र संदेह इत्युवाच हरः स्वयम् ॥७॥
ऋषय ऊचुः ॥
शिवरात्रिर्महाभाग कस्मिन्काले तु सा भवेत् ॥
विध्यानं चैव माहात्म्यं सर्वं नो विस्तराद्वद ॥८॥
सूत उवाच ॥ माघस्य कृष्णपक्षे या तिथिश्चैव चतुर्दशी ॥
तस्या रात्रिः समाख्याता शिवरात्रिसमुद्भवा ॥९॥
तस्यां सर्वेषु लिंगेषु सदा संक्रमते हरः ॥
विशेषात्सर्वपुण्येषु ख्यातेयं मंकणेश्वरे ॥१०॥
ऋषय ऊचुः ॥
शिवरात्रिः कथं जाता केनैषा च विनिर्मिता ॥
कस्माद्बहुफला जाता सर्वं नो विस्तराद्वद ॥११॥
सूत उवाच ॥
अत्र वः कीर्तयिष्यामि पूर्ववृत्तं कथानकम् ॥
भर्तृयज्ञस्य संवादमश्वसेनस्य भूपतेः ॥१२॥
आनर्ताधिपतिः पूर्वमश्वसेन इति स्मृतः ॥
आसीद्धर्मपरो नित्यं वेदवेदागंपारगः ॥१३॥
भर्तृयज्ञः पुरा तेन इदं पृष्टः कुतूहलात् ॥
कलिकालं समुद्वीक्ष्य वर्धमानं दिनेदिने ॥१४॥
अश्वसेन उवाच ॥
कलिकालकृते किंचिद्व्रतं मे वद सन्मुने ॥
स्वल्पायासं महत्पुण्यं सर्वपापप्रणाशनम् ॥१५॥
स्वल्पायुषः सदा मर्त्या ब्रह्मन्कृतयुगे पुरा ॥
त्रेतायां द्वापरे चैव किमु प्राप्ते कलौ युगे ॥१६ ॥
तस्माद्वर्षव्रतं त्यक्त्वा किंचिदेकाह्निकं वद ॥१७॥
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ॥
न हि प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम् ॥१८ ॥
तस्य तद्वचं श्रुत्वा भर्तृयज्ञ उदारधीः ॥
अब्रवीत्सुचिरं ध्यात्वा ज्ञात्वा दिव्येन चक्षुषा ॥१९॥
अस्ति राजन्व्रतं पुण्यं शिवरात्रीतिसंज्ञितम् ॥
एकाह्निकं महाराज सर्वपातकनाशनम् ॥२०॥
तत्र यद्दीयते दानं हुतं जप्तं तथैव च ॥
सर्वमक्षयतां याति रात्रि जागरणे कृते ॥२१॥
अपुत्रो लभते पुत्रानधनो धनमाप्नुयात् ॥
स्वल्पायुर्दीर्घमायु्ष्यं शत्रूणां चैव संक्षयम् ॥२२॥
यंयं काममभिध्यायन्व्रतमेतत्समाचरेत् ॥
तंतं समाप्नुयान्मर्त्यो निष्कामो मोक्षमाप्नुयात् ॥२३॥
कार्पण्येनाथ वित्तेन यदि कुर्यात्प्रजागरम् ॥
तथा वर्षकृतात्पापान्मुच्यते नात्र संशयः ॥२४॥
यानि कान्यत्र लिंगानि स्थावराणि चराणि च ॥
तेषु संक्रमते देवस्तस्यां रात्रौ यतो हरः ॥२५॥
शिवरात्रिस्ततः प्रोक्ता तेन सा हरवल्लभा ॥
प्रार्थितः स सुरैः सर्वैर्लोकानुग्रहकाम्यया ॥२६॥
भगवन्कलिकालेऽस्मिन्सर्वपापसमन्विते ॥
वर्षपापविशुद्ध्यर्थं दिनमेकं क्षितौ व्रज ॥
येन त्वत्पूजया पूता मर्त्याः शुद्धिमवाप्नुयुः ॥
ततो दत्तं हुतं तेषामस्माकमुपतिष्ठति ॥
यदुच्छिष्टं नरैर्दत्तं तद्वृथा जायतेऽखिलम् ॥२८॥
कलिकाले न चास्माकं किंचिदेवोपतिष्ठति ॥
अशुद्धैर्मानवैर्दत्तं प्रभूतमपि शंकर ॥२९॥
श्रीभगवानुवाच ॥
माघमासस्य कृष्णायां चतुर्दश्यां सुरेश्वर ॥
अहं यास्यामि भूपृष्ठे रात्रौ नैव दिवा कलौ ॥३०॥
लिंगेषु च समस्तेषु चलेषु स्थावरेषु च ॥
संक्रमिष्याम्यसंदिग्धं वर्षपापविशुद्धये ॥३१॥
तस्यां रात्रौ हि मे पूजां यः करिष्यति मानवः ॥
मंत्रैरेतैः सुरश्रेष्ठ विपाप्मा स भविष्यति ॥३२॥
ॐ सद्योजाताय नमः ॥
ॐ वामदेवाय नमः ॥
ॐ घोराय नमः ॥
ॐ तत्पुरुषाय नमः ॥
ॐ ईशानाय नमः ॥
एवं वक्त्राणि संपूज्य गन्धपुष्पानुलेपनैः ॥
वस्त्रैर्दीपैश्च नैवेद्यैस्ततोऽर्घं संप्रदापयेत् ॥
मंत्रेणानेन संपूज्य मां ध्यात्वा मनसि स्थितम् ॥३३॥
गौरीवल्लभ देवेश सर्वाद्य शशिशेखर ॥
वर्षपापविशुद्ध्यर्थमर्घो मे प्रतिगृह्यताम् ॥३४ ॥
ततः संपूजयेद्विप्रं भोजनाच्छादनादिभिः ॥
दत्त्वाथ दक्षिणां तस्मै वित्तशाठ्यं विवर्जयेत् ॥३५॥
धर्माख्यानकथाभिश्च सलास्यैस्तांडवैस्तथा ॥३६॥
एवं करिष्यते योऽत्र व्रतमेतत्सुरेश्वर ॥
वर्षपापविशुद्ध्यर्थं प्रायश्चित्तं भविष्यति ॥३७॥
तच्छ्रुत्वा त्रिदशाः सर्वे प्रणम्य शशिशेखरम् ॥
संप्रहृष्टा नरश्रेष्ठ स्वानि स्थानानि भेजिरे ॥३८॥
प्रेषयामासुरुर्व्यां च नारदं मुनिसत्तमम् ॥
प्रबोधनाय लोकानां शिवरात्रिकृते सदा ॥३९॥
सोऽपि गत्वा धरापृष्ठं श्रावयामास सर्वतः ॥
शिवरात्रेस्तु माहात्म्यं यदुक्तं शूलपाणिना ॥४०॥
ततः प्रभृति संजाता शिवरात्रिर्धरातले ॥
सर्वकामप्रदा पुण्या सर्वपातकनाशिनी ॥४१॥
अत्र वः कीर्तयिष्यामि पुरावृत्तं कथानकम् ॥
यद्वृत्तं नैमिषारण्ये लुब्धकस्यात्र कस्यचित् ॥४२॥
तत्रासील्लुब्धकः कश्चिज्जातिमात्रान्न कर्मतः ॥
व्यसेनानाभिभूतात्मा परवित्तापहारकः ॥४३ ॥
न कदाचिद्व्रतं तेन न दत्तं न जपः कृतः ॥
केवलं च हृतं वित्तं लोकानां छलसंश्रयात् ॥४४॥
कस्यचित्त्वथ कालस्य शिवरात्रिः समागता ॥
माघमासेऽसितेपक्षे सर्वपातकनाशिनी ॥४५॥
तत्रास्त्यायतनं पुण्यं देवदेवस्य शूलिनः ॥
तत्र जागरणं रात्रौ प्रारब्धं बहुभिर्ज्जनैः ॥४६॥
नारीभिर्नरशार्दूल भूषिताभिः सुभूषणैः ॥
अथासौ चिंतयामास चोरो दृष्ट्वाथ जागरम् ॥४७॥
गच्छामि यदि कांचित्स्त्रीं भूषणैः परिभूषिताम् ॥
निष्क्रांतां बाह्यतश्चास्य प्रासादस्याप्नुयामहम् ॥४८॥
ततो हत्वा समादाय भूषणानि व्रजाम्यहम् ॥४९ ॥
एवं निश्चित्य मनसा गतस्तस्य समीपतः ॥
कर्णिकारं समारुह्य स्थितो गुप्तस्ततो हि सः ॥५०॥
वीक्षमाणो दिशः सर्वा नारीनिष्क्रामणोद्भवाः ॥
चौरकर्मप्रवृत्तस्य शीतार्तस्य विशेषतः ॥५१॥
अल्पापि निद्रा नायाता न च नारी विनिर्गता ॥
तस्याधस्तात्ततो लिंगमभवत्तु धरोद्भवम् ॥
गत्वा च पत्राण्यादाय प्रचिक्षेपास्य चोपरि ॥५२॥
एतस्मिन्नेव काले तु प्रोद्गतस्तीक्ष्णदीधितिः ॥
असतीनां च चौराणां कामिनामसुखावहः ॥५३॥
ततो नराश्च नार्यश्च जग्मुः स्वंस्वं निकेतनम् ॥
उपचारपराः शांताः प्रणिपत्य महेश्वरम् ॥५४॥
सोऽपि चौरो निराशश्च क्षुत्क्षामः शीतविह्वलः ॥
अवतीर्य द्रुमात्तस्मादुपायं कंचिदाश्रितः ॥५५॥
ततः कालेन महता पंचत्वं समपद्यत ॥
जातो जातिस्मरः सोऽथ दशार्णाधिपतेर्गृहे ॥५६॥
उपवासप्रभावेन बलादपि प्रजागरात् ॥
शिवरात्रेस्तथा तस्य लिङ्गस्यापि प्रपूजया ॥५७॥
ततो राज्यं समासाद्य पितृपैतामहं महत् ॥
कारयामास लिंगस्य प्रासादं तस्य शोभनम् ॥५८॥
वर्षेवर्षे समाश्रित्य शिवरात्रौ प्रजागरात् ॥
उपवासपरोभूत्वा गीतवादित्रनिःस्वनैः ॥५९॥
धर्माख्यानकथाभिश्च गीतध्वनिभिरेव च ॥
पूर्वोक्तमंत्रैः संपूज्य अर्घं दत्त्वा विधानतः ॥
संतर्प्य ब्राह्मणान्कामैर्जगाम निलयं निजम् ॥६०॥
कस्यचित्त्वथ कालस्य शिवरात्रौ समागताः ॥
प्रासादे तत्र मुनयः प्राप्ता शाण्डिल्यपूर्वकाः ॥६१॥
शांडिल्योऽथ भरद्वाजो यवक्रीतोऽथ गालवः ॥
पुलस्त्यः पुलहो गार्ग्यस्तथान्ये बहवो नृप ॥६२॥
सोऽपि राजा बृहत्सेनो दशार्णाधिपतेः सुतः ॥
संप्राप्तो जागरं कर्तुं तस्य लिंगस्य चाग्रतः ॥६३॥
पूजयित्वा ततो देवं प्रणिपत्य मुनीश्वरान् ॥
उपविष्टस्तस्य चाग्रे ह्यनुज्ञातो द्विजोत्तमैः ॥६४॥
ततस्तस्याग्रतश्चक्रुः कथास्ते बहुधा नृप ॥
राजर्षीणामतीतानां ब्रह्मर्षीणां विशेषतः ॥६५॥
अथ कस्मिन्कथांते स तैः पृष्टो ब्रह्मवादिभिः ॥
कौतुकाविष्टचित्तैश्च विस्मयोत्फुल्ललोचनैः ॥६६॥
राजन्पृच्छामहे सर्वे वयं कौतूहलान्विताः ॥
यदि ब्रवीषि नः सत्यं देवतायतने स्थितः ॥६७॥
राजोवाच ॥
यदि ज्ञास्यामि विप्रेंद्राः कथयिष्याम्यसंशयम् ॥
देवस्याग्रे च संपृष्टः सत्येनात्मानमालभे ॥६८॥
ऋषय ऊचुः ॥
पुष्कलानि परित्यज्य कस्माद्दानान्यनेकशः ॥
जागरं कर्तुकामोऽत्र स्वदेशादुपतिष्ठसि ॥६९॥
वर्षेवर्षे सदा प्राप्ते नूनं त्वं वेत्सि कारणम् ॥
रहस्यं यदि ते न स्यात्तद्ब्रवीहि नराधिप ॥७०॥
सूत उवाच ॥
सवैलक्ष्यं स्मितं कृत्वा ततः प्राह स दुर्मनाः ॥
रहस्यं परमं ह्येतदवाच्यं हि द्विजोत्तमाः ॥७१॥
तथापि च वदिष्यामि पृष्टो देवाग्रतो यतः ॥७२॥
ततः स कथयामास पूर्वदेहसमुद्भवम् ॥
मलिम्लुचस्ततो नूनं शिवरात्रिसमुद्भवम् ॥७३॥
चौर्यभावेन देवस्य पूजनं जागरस्तथा ॥
उपवासं विना तेन शिवरात्रौ पुरा कृतम् ॥७४॥
जातिस्मरणसंयुक्तं जन्मजातं यथातथम् ॥
ततस्ते मुनयः सर्वे साधुवादान्पृथग्विधान् ॥७५॥
नृपोत्तमस्य राजर्षेर्दत्त्वाशीर्भिः समन्वितान् ॥
रात्रौ जागरणं कृत्वा प्रजग्मुस्ते निजाश्रमान् ॥७६॥
सोऽपि राजासमभ्यर्च्य तं देवं तान्द्विजोत्तमान् ॥
जगाम स्वपुरं पश्चात्कृत्वा रात्रौ प्रजागरम् ॥७७॥
भर्तृयज्ञ उवाच ॥
शिवरात्रिः समुत्पन्ना एवं भूमितले नृप ॥
एवंविधं च माहात्म्यं तस्यास्ते परिकीर्तितम् ॥७८॥
तस्मात्सर्वप्रयत्नेन कार्या स नृपसत्तम ॥
कलिकाले विशेषेण य इच्छेद्भूतिमात्मनः ॥७९॥
एषा कृता दिलीपेन नलेन नहुषेण च ॥
मान्धात्रा धुंधुमारेण सगरेण युयुत्सुना ॥८०॥
तथान्यैश्च विशेषेण सम्यक्छ्रद्धासमन्वितैः ॥
प्राप्ताश्च हृद्गताः कामा ये दिव्या ये च मानुषाः ॥८१॥
तथा चैव तु सावित्र्या श्रिया देव्या तु सीतया ॥
अरुंधत्या सरस्वत्या मेनया रंभया तथा ॥८२॥
इंद्राण्याथ दृषद्वत्या स्वधया स्वाहया तथा ॥
रत्या प्रीत्या प्रभावत्या गायत्र्या च नृपोत्तम ॥
सर्वाः प्राप्ताः प्रियान्कामानतिसौभाग्यसंयुतान् ॥८३॥
यश्चैतां पठते व्युष्टिं भावेन शिवसंनिधौ ॥
दिनजात्पातकात्सोऽपि मुच्यते नात्र संशयः ॥८४॥
नास्ति गंगासमं तीर्थं नास्ति देवो हरोपमः ॥
शिवरात्रेः परं नास्ति तपः सत्यं मयोदितम् ॥८५॥
सर्वरत्नमयो मेरुः सर्वाश्चर्यमयं तपः ॥
सर्वधर्ममयी राजञ्छिवरात्रिः प्रकीर्तिताः ॥८६॥
गरुडः पक्षिणां यद्वन्नदीनां सागरो यथा ॥
प्रधानः सर्वधर्माणां शिवरात्रिस्तथोत्तमा ॥८७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शिवारात्रिमाहात्म्यवर्णनं नाम षट्षष्ट्युत्तरद्विशततमोऽध्यायः ॥२६६॥

N/A

References : N/A
Last Updated : January 06, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP