संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय २५०

नागरखण्डः - अध्याय २५०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ वाण्युवाच ॥
बिल्वपत्रस्य माहात्म्यं कथितुं नैव शक्यते ॥
तवोद्देशेन वक्ष्यामि महेन्द्र शृणु तत्त्वतः ॥१॥
विहारश्रममापन्ना देवी गिरिसुता शुभा ॥
ललाटफलके तस्याः स्वेदबिन्दुरजायत ॥२॥
स भवान्या विनिक्षिप्तो भूतले निपपात च ॥
महातरुरयं जातो मन्दरे पर्वतोत्तमे ॥३॥
ततः शैलसुता तत्र रममाणा ययौ पुनः ॥
दृष्ट्वा वनगतं वृक्षं विस्मयोत्फुल्ललोचना ॥४॥
जयां च विजयां चैव पप्रच्छ च सखीद्वयम् ॥
कोऽयं महातरुर्दिव्यो विभाति वनमध्यगः ॥
दृश्यते रुचिराकारो महाहर्षकरो ह्ययम् ॥५॥
 ॥ जयोवाच ॥
देवि त्वद्देहसंभूतो वृक्षोऽयं स्वेदबिन्दुजः ॥
नामाऽस्य कुरु वै क्षिप्रं पूजितः पापनाशनः ॥६॥
 ॥ पार्वत्युवाच ॥
यस्मात्क्षोणीतलं भित्त्वा विशिष्टोऽयं महातरुः ॥७॥
उदतिष्ठत्समीपे मे तस्माद्बिल्वो भवत्वयम् ॥
इमं वृक्षं समासाद्य भक्तितः पत्रसंचयम् ॥८॥
आहरिष्यत्यसौ राजा भविष्यत्येव भूतले ॥
यः करिष्यति मे पूजां पत्रैः श्रद्धासमन्वितः ॥९॥
यंयं काममभिध्यायेत्तस्य सिद्धिः प्रजायते ॥
यो दृष्ट्वा बिल्वपत्राणि श्रद्धामपि करिष्यति ॥१०॥
पूजनार्थाय विधये धनदाऽहं न संशयः ॥
पत्राग्रप्राशने यस्तु करिष्यति मनो यदि ॥
तस्य पापसहस्राणि यास्यंति विलयं स्वयम ॥११॥
शिरः पत्राग्रसंयुक्तं करोति यदि मानवः ॥
न याम्या यातना ह्यस्य दुःखदात्री भविष्यति ॥१२॥
इत्युक्त्वा पार्वती हृष्टा जगाम भवनं स्वकम् ॥
सखीभिः सहिता देवी गणैरपि समन्विता ॥१३॥
 ॥ वाण्युवाच ॥
अयं बिल्वतरुः श्रेष्ठः पवित्रः पापनाशनः ॥
तस्य मूले स्थिता देवी गिरिजा नात्र संशयः ॥१४॥
स्कन्धे दाक्षायणी देवी शाखासु च महेश्वरी ॥
पत्रेषु पार्वती देवी फले कात्या यनी स्मृता ॥१५॥
त्वचि गौरी समाख्याता अपर्णा मध्यवल्कले ॥
पुष्पे दुर्गा समाख्याता उमा शाखांगकेषु च ॥१६॥
कण्टकेषु च सर्वेषु कोटयो नवसंख्यया  ॥
शक्तयः प्राणिरक्षार्थं संस्थिता गिरिजाऽऽज्ञया ॥१७॥
तां भजंति सुपत्रैश्च पूजयंति सनातनीम् ॥
यंयं कामयते कामं तस्य सिद्धिर्भवेद्ध्रुवम् ॥१८॥
महेश्वरी सा गिरिजा महेश्वरी विशुद्धरूपा जनमोक्षदात्री ॥
हरं च दृष्ट्वाथ पलाशमाश्रितं स्वलीलया बिल्ववपुश्चकार सा ॥१९॥
इति श्रीस्कांदेमहापुराण एकाशीतिसाहस्र्यां सहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातु र्मास्यमाहात्म्ये पैजवनोपाख्याने बिल्वोत्पत्तिवर्णनंनाम पञ्चाशदुत्तरद्विशततमोऽध्यायः ॥२५०॥

N/A

References : N/A
Last Updated : January 06, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP