संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय ४१

नागरखण्डः - अध्याय ४१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ सूत उवाच ॥
तस्यैवोत्तरदिग्भागे देवस्य जलशायिनः ॥
स्थानमस्ति सुविख्यातं सर्वपातकनाशनम् ॥१॥
यस्तत्पूजयते भक्त्या शयने बोधने हरेः ॥
उपवासपरो भूत्वा स गच्छेद्वैष्णवं पदम् ॥२॥
अशून्यशयनानाम द्वितीया दयिता तिथिः ॥
सदैव देवदेवस्य कृष्णा सुप्तस्य या भवेत् ॥३॥
तस्यां यः पूजयेत्तत्र तं देवं जलशायिनम् ॥
शास्त्रोक्तेन विधानेन स गच्छति हरेः पदम् ॥४॥
 ॥ ऋषय ऊचुः ॥
जलशायी कथं तत्र संप्राप्तः सूतनन्दन ॥
पूज्यते विधिना केन तत्सर्वं विस्तराद्वद ॥५॥
 ॥ सूत उवाच ॥
पुरासीद्बाष्कलिर्नाम दानवेन्द्रो महाबलः ॥
अजेयः सर्वदेवानां गन्धर्वोरगरक्षसाम् ॥६॥
अथासौ भूतलं सर्वं वशीकृत्वा महाबलः ॥
ततो दैत्यगणैः सार्द्धं जगाम त्रिदशालयम् ॥७॥
तत्राभवन्महायुद्धं देवासुरविनाशकम् ॥
देवानां दानवानां च क्रुद्धानामितरेतरम् ॥८॥
वर्षाणामयुतं तावदहन्यहनि दारुणम् ॥
तत्रासृक्कर्दमो जातः पर्वतश्चास्थि संभवः ॥९॥
ततो वर्षसहस्रांते दशमे समुपस्थिते ॥
जितस्तेन सहस्राक्षः ससैन्यः सपरिग्रहः ॥१०॥
ततः स्वर्गं परित्यज्य सर्वदेवगणैः सह ॥
जगाम शरणं विष्णोः श्वेतद्वीपं प्रतिश्रयम् ॥११॥
यत्रास्ते भगवान्विष्णुर्योगनिद्रावशंगतः ॥
शयानः शेषपर्यंके लक्ष्म्या संवाहितांघ्रियुक् ॥१२॥
ततो वेदोद्भवैः सूक्तैः स्तुतिं चक्रुः समंततः ॥
तस्य देवस्य सद्भक्ताः सर्वे देवाः सवासवाः ॥१३॥
अथोत्थाय जगन्नाथः प्रोवाच बलसूदनम् ॥
कच्चित्क्षेमं सहस्राक्ष सांप्रतं भुवनत्रये ॥
यत्त्वं देवगणैः सार्द्धं स्वयमेव इहागतः ॥१४॥
 ॥ शक्र उवाच ॥
बाष्कलिर्नाम देत्येन्द्रो हरलब्धवरो बली ॥
अजेयः संगरे देवैस्तेनाहं विजितो रणे ॥१५॥
संस्थितिश्च कृता स्वर्गे सांप्रतं मधु सूदन ॥
तेनैष शरणं प्राप्तो देवैः सार्द्धं सुरोत्तम ॥१६॥
हिरण्याक्षभयाद्देवा हिरण्यकशिपोः पुरा ॥
त्वया त्राता वयं सर्वे तथान्येषां दुरात्मनाम् ॥१७॥
तस्मादस्मादपि त्राहि दानवाद्बलवत्तरात् ॥
बाष्कलेर्नास्ति देवेश त्वां मुक्त्वान्या परा गतिः ॥१८॥
 ॥ श्रीभगवानुवाच ॥
अहं तं निग्रहीष्यामि संप्राप्ते समये स्वयम् ॥
तस्मात्त्वं समयंयावत्कुरु शक्र तपो महत् ॥१९॥
येन ते जायते शक्तिस्तपोवीर्येण वासव ॥
वधाय तस्य दैत्यस्य बलयुक्तस्य बाष्कलेः ॥२०॥
 ॥ शक्र उवाच ॥
कस्मिन्क्षेत्रे जगन्नाथ करोमि सुमहत्तपः ॥
तस्य दैत्यस्य नाशार्थं तद स्माकं प्रकीर्तय ॥२१॥
 ॥ सूत उवाच ॥
तच्छ्रुत्वा भगवान्विष्णुः प्रोवाचाथ पुरंदरम् ॥
चिरं मनसि निश्चित्य क्षेत्राण्यायतनानि च ॥२२॥
चमत्कारपुरं क्षेत्रं शक्र सिद्धिप्रदायकम् ॥
तस्मात्तत्र द्रुतं गत्वा तद्वधार्थं तपः कुरु ॥२३॥     
 ॥ शक्र उवाच ॥
न वयं भवता हीना यास्यामोऽन्यत्र केशव ॥
बाष्कलेर्दानवेन्द्रस्य भयाद्भीताः कथंचन ॥२४॥
तस्मादागच्छ तत्र त्वं स्वयमेव सुरेश्वर ॥
त्वया संरक्षितो येन करोमि सुमहत्तपः ॥२५॥
 ॥ सूत उवाच ॥
ततः स भगवान्विष्णुस्तथेत्युक्त्वा सुरैः सह ॥
चमत्कारपुरं क्षेत्रमाजगाम सह श्रिया ॥२६॥
अथ देवगणाः सर्वे तत्र गत्वा तदाऽऽश्रमान् ॥
चक्रुः पृथक्पृथग्घृष्टास्तपोऽर्थं कृतनिश्चयाः ॥२७॥
वासुदेवोऽपि संस्मृत्य क्षीरोदं तत्र सागरम् ॥
आनिनायाशु विस्तीर्णं ह्रदे तस्मिन्पुरातने ॥२८॥
चकार शयनं तत्र श्वेतद्वीपे यथा पुरा ॥
स्तूयमानः सुरैः सर्वैः समंताद्विनयान्वितैः ॥२९॥
अथाषाढस्य संप्राप्ते द्वितीयादिवसे शुभे ॥
कृष्णपक्षे सहस्राक्षं स्वयमेव बृहस्पतिः ॥
प्रोवाच वचनं श्लक्ष्णं बाष्पव्याकुल लोचनम् ॥३०॥
 ॥ बृहस्पतिरुवाच ॥
अशून्यशयनानाम द्वितीयाद्य पुरंदर ॥
अतीव दयिता विष्णोः प्रसुप्तस्य जलाशये ॥३१॥
अस्यां संपूजितो विष्णुर्यावन्मासचतुष्टयम् ॥
ददाति सकलान्कामान्ध्यातश्चेतसि सर्वदा ॥
शास्त्रोक्तविधिना सम्यग्व्रतस्थो जलशायिनम् ॥३२॥      
एवं स चतुरो मासान्द्वितीयादिवसे हरिम् ॥
पूजयित्वा सहस्राक्षस्तेजसा सहितोऽभवत् ॥३३॥
तं दृष्ट्वा तेजसा युक्तं परितुष्टो जनार्दनः ॥
प्रोवाच शक्र गच्छाद्य वधार्थं तस्य बाष्कलेः ॥
सर्वैर्देवगणैः सार्धं विजयस्ते भविष्यति ॥३४॥
 ॥ शक्र उवाच ॥
बिभेमि तस्य देवाहं दानवेन्द्रस्य दुर्मतेः ॥
त्वया विना न गच्छामि सार्धं सर्वैः सुरैरपि ॥३५॥
 ॥ श्रीभगवानुवाच ॥
त्वया सह सहस्राक्ष चक्रमेतत्सुदर्शनम् ॥
गमिष्यति वधार्थाय मदीयं सुरविद्विषाम् ॥३६॥
एवमुक्त्वा हरिश्चक्रं प्रमुमोच सुदर्शनम् ॥
वधार्थं दानवेन्द्राणां शक्रेण सहितं तदा ॥३७॥
शक्रोऽपि सहितस्तेन गत्वा चक्रेण कृत्स्नशः ॥
सर्वानुत्सादयामास दानवान्रणमूर्धनि ॥३८॥
स चापि बाष्कलिस्तेन च्छिन्नश्चक्रेण कृत्स्नशः ॥
पपात धरणीपृष्ठे वज्राहत इवाचलः ॥३९॥
तथान्ये बहवः शूरा दानवा बलदर्पिताः ॥
हत्वा सुदर्शनं चक्रं भूयः प्राप्तं हरेः करम् ॥४०॥
तेऽपि शक्रादयो देवाः प्रहृष्टा गतसंशयाः ॥
भूयो विष्णुं समेत्याथ प्रोचुर्नत्वा ततः परम् ॥४१
प्रभावात्तव देवेश हताः सर्वेऽमरारयः ॥
प्राप्तं त्रैलोक्यराज्यं च भूयो निहतकंटकम् ॥४२॥
तस्मात्कीर्तय यत्कृत्यं तच्च श्रेयस्करं मम ॥
सदा स्यात्पुंडरीकाक्ष तथा शत्रुभयावहम् ॥४३॥
 ॥ श्रीभगवानुवाच ॥
मयात्रैव सदा स्थेयं रूपेणानेन वासव ॥
सर्वलोकहितार्थाय ह्रदे पुण्य जलाश्रये ॥४४॥
त्वया तस्मात्समागम्य चातुर्मास्यं शचीपते ॥
प्रयत्नेन प्रकर्तव्यमशून्यशयनं व्रतम् ॥४५॥
न भवंति सहस्राक्ष येन ते परि पंथिनः ॥
तथाभीष्टफलावाप्तिर्मत्प्रसादादसंशयम् ॥४६॥
अन्योऽपि यो नरो भक्त्या पूजयिष्यति मामिह ॥
संप्राप्स्यति स ताँल्लोकान्दुर्लभांस्त्रि दशैरपि ॥४७॥
तस्माद्गच्छ सहस्राक्ष कुरु राज्यं त्रिविष्टपे ॥
भूयोऽप्यत्रैव देवेश द्रष्टव्योऽस्मि न संशयः ॥
कार्यकाले समायाते श्वेतद्वीपे यथा तथा ॥४८॥
 ॥ सूत उवाच ॥
ततः प्रणम्य तं दृष्ट्वा प्रजगाम शतक्रतुः ॥
वासुदेवोऽपि तत्रैव स्थितो लोकहिताय च ॥४९॥
एवं तत्र द्विजश्रेष्ठा जलशायी जनार्दनः ॥
सर्वलोकहितार्थाय संस्थितः परमेश्वरः ॥५०॥
यस्तं पूजयते भक्त्या श्रद्धया परया युतः ॥
चातुर्मास्ये विशेषेण स याति परमां गतिम् ॥५१॥
तथा देवगणैः सर्वैर्द्वारका तत्र सा कृता ॥
संपूज्य तु नरा यांति चातुर्मास्ये त्रिविष्टपम् ॥५२॥
शेषकालेऽपि चित्तस्थान्कामान्मर्त्यः समाप्नुयात् ॥
तस्मात्सर्वप्रयत्नेन पूज्या सा द्वारका नरैः ॥
सर्वेष्वपि हि कालेषु चातुमास्ये विशेषतः ॥५३॥
एतद्वः सर्वमाख्यातं सर्वपातकनाशनम् ॥
आख्यानं देवदेवस्य सुपुण्यं जलशायिनः ॥५४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये जलशाय्युत्पत्तिवर्णनंनामैकचत्वारिंशत्तमोऽध्यायः ॥४१॥

N/A

References : N/A
Last Updated : December 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP