नागरखण्डः - अध्याय १७४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सूत उवाच ॥
तथान्यदपि वो वच्मि लिंगं यत्तत्र संस्थितम् ॥
स्थापितं पिप्पलादेन कंसारेश्वरमित्यहो ॥१॥
यस्मिन्दृष्टे तु लोकानां पापं याति दिनोद्भवम् ॥
नते षाण्मासिकं चैव पूजिते वर्षसंभवम् ॥
॥ ऋषय ऊचुः ॥
पिप्पलादेन यल्लिंगं स्थापितं सूतनन्दन ॥
कंसारेश्वरमित्युक्तं कस्मात्तच्च ब्रवीहि नः ॥३॥
क एष पिप्पलादस्तु कस्य पुत्रो वदस्व नः ॥
किमर्थं स्थापितं लिंगं क्षेत्रे तत्र महात्मना ॥४॥
॥ सूत उवाच ॥
प्रश्नभारो महानेष भवद्भिः समुदाहृतः ॥
तथापि कथयिष्यामि नमस्कृत्वा स्वयंभुवम् ॥५॥
याज्ञवल्क्यस्यभगिनी कंसारीति च विश्रुता ॥
कुमारब्रह्मचर्येण तप स्तेपे सुदारुणम् ॥६॥
याज्ञवल्क्याश्रमे पुण्ये बांधवेन समन्विता ॥
कस्यचित्त्वथ कालस्य याज्ञवल्क्यस्य भो द्विजाः ॥७॥
चस्कन्द रेतः स्वप्नांते दृष्ट्वा कांचिद्वराप्सराम् ॥
तारुण्यभावसंस्थस्य तपोयुक्तस्य सद्द्विजाः ॥८॥
रेतसा तस्य महता परिधानं परिप्लुतम् ॥
तच्च तेन परित्यक्तं प्रभाते समुपस्थिते ॥९॥
कंसारिकाऽथ जग्राह स्नानार्थं वसनं च तत् ॥
अमोघरेतसा क्लिन्नमजानन्ती द्विजोत्तमाः ॥१०॥
कुर्वन्त्या यजनं तस्या जलं वीर्यसमन्वितम् ॥
प्रविष्टं भगमध्ये तु ऋतुकाल उपस्थिते ॥११॥
ततो गर्भः समभवत्तस्यास्तूदरमध्यगः ॥
वृद्धिं चाप्यगमन्नित्यं शुक्लपक्षे यथोडुराट् ॥१२॥
साऽपि तं गर्भमादाय स्वोदरस्थं तपस्विनी ॥
दुःखेन महता युक्ता लज्जयाऽथ तदाऽऽवृता ॥१३॥
चिन्तयामास सुचिरं विस्मयेन समन्विता ॥
गोपायन्ती तदाऽऽत्मानं दर्शनं याति नो नृणाम् ॥१४॥
व्रतचर्यामिषं कृत्वा सदा रहसि संस्थिता ॥
संप्राप्ते दशमे मासि निशीथे समुपस्थिते ॥
तस्याः कुमारको जातो वालार्कसदृशद्युतिः ॥१५॥
अथ सा तं समा दाय सूक्ष्मवस्त्रेण वेष्टितम् ॥
कृत्वा जगाम चारण्यं मनुष्यपरिवर्जितम् ॥
अश्रुपूर्णेक्षणा दीना रुदन्ती गुप्तमेव च ॥१६॥
ततो गत्वा च साऽश्वत्थं विजने सुमहत्तरम् ॥
तस्याधस्ताद्विमुच्याथ वाक्यमेतदुवाच ह ॥१७॥
अश्वत्थ विष्णुरूपोऽसि त्वं देवेषु प्रतिष्ठितः ॥
तस्माद्रक्षस्व मे पुत्रं सर्वतस्त्वं वनस्पते ॥१८॥
एष ते शरणं प्राप्तो मम पुत्रस्तु बालकः ॥
पापाया निर्दयायाश्च तस्माद्रक्षां समाचर ॥१९॥
एवमुक्त्वा रुदित्वा च सुचिरं सा तपस्विनी ॥
जगाम स्वाश्रमं पश्चाद्वाष्पव्याकुललोचना ॥२०॥
यावद्रोदिति सा माता तस्याधस्ताद्वनस्पतेः ॥
तावदाकाशजा वाणी संजाता मेघनिःस्वना ॥२१॥
मा त्वं शोकं कुरुष्वास्य बालकस्य कृते शुभे ॥
एष शापादुतथ्यस्य ज्येष्ठभ्रातुर्बृहस्पतिः ॥
अवतीर्णो धरापृष्ठे योग्यतां समवाप्स्यति ॥२२॥
एष चाथर्वणं वेदं शतकल्पं सुविस्तरम् ॥
शतभेदं च नवधा पंचकल्पं करिष्यति ॥२३॥
पिप्पलस्य तरोरेष रसं संभक्षयिष्यति ॥
पिप्पलाद इति ख्यातस्ततो लोके भविष्यति ॥२४॥
या त्वं विस्मयमापन्ना पुरुषेण विना शिशुः ॥
संजातोऽयं मम प्रांशुस्ततस्तत्कारणं शृणु ॥२५॥
स्नानवस्त्रं च ते भ्रातू रेतसा यत्परिप्लुतम् ॥
तत्त्वया ऋतुकाले तु परिधानं कृतं शुभे ॥२६॥
स्नानकाले तु तोयानि रेतोदकमथास्पृशन् ॥
अमोघरेतसा तेन पुत्रोऽयं तव संस्थितः ॥२७॥
एवं ज्ञात्वा महाभागे यद्युक्तं तत्समाचर ॥२८॥
॥ सूत उवाच ॥
तच्छ्रुत्वा देवलोकस्यवज्रपातोपमं वचः ॥
हाहाकारपरा भूत्वा निपपात धरातले ॥२९॥
छिन्नवृक्षलता यद्वत्पतिता सा तपस्विनी ॥३०॥
चिरायन्त्यां तु तस्यां स याज्ञवल्क्यो महामुनिः ॥
शून्यं तमाश्रमं दृष्ट्वा पप्रच्छान्यान्मुनीश्वरान् ॥३१॥
क्व च मे भगिनी याता कंसारी सुतपस्विनी ॥
तया विनाऽद्य मे सर्वं शून्यमाश्रममंडलम् ॥३२॥
आचख्यौ तापसः कश्चिद्भगिनी ते यवीयसी ॥
निश्चेष्टा पतिता भूमावश्वत्थस्य समीपतः ॥३३॥
मया दृष्टा मुनिश्रेष्ठ तां त्वं भावय मा चिरम् ॥
अथासौ त्वरया युक्तः संभ्रांतस्तु प्रधावितः ॥३४॥
यत्र सा कथिता तेन तापसेन तपस्विनी ॥
वीक्षते यावत्तत्रस्था श्वसमाना व्यवस्थिता ॥३५॥
अथ तोयेन शीतेन सेचयित्वा मुहुर्मुहुः ॥
दत्त्वा भूयोऽपि वातं च यावच्चक्रे सचेतनाम् ॥
तावत्कात्यायनी प्राप्ता मैत्रेयी च ससंभ्रमम् ॥३६॥
किमिदं किमिदं जातं ननांदर्वद मा चिरम् ॥३७॥
किं वा सर्पेण दष्टासि सन्निपातेन दूषिता ॥१
किं वा भूतगृहीताऽसि माहेंद्रेण ज्वरेण वा ॥३८॥
अथ सा चेतनां लब्ध्वा याज्ञ वल्क्यं पुरः स्थितम् ॥
भार्यया सहितं दृष्ट्वा व्रीडयाऽसून्मुमोच ह ॥३९॥
अथ तां च मृतां दृष्ट्वा रुदित्वा च चिरं द्विजाः ॥
याज्ञवल्क्यः सभार्यस्तु दत्त्वा वह्निं च शोकधृक् [ ॥
जगाम स्वाश्रमं पश्चाद्दत्त्वा च सलिलाञ्जलिम् ॥४०॥
सोऽपि बालोऽथ ववृधे पिप्पलास्वादपुष्टिधृक् ॥
अश्वत्थस्य तले तस्य वृद्धिं याति शनैःशनैः ॥४१॥
कस्यचित्त्वथ कालस्य नारदो मुनिसत्तमः ॥
तीर्थयात्राप्रसंगेन तेन मार्गेण चागतः ॥४२॥
स दृष्ट्वा बालकं तत्र द्वादशार्कसमप्रभम् ॥
एकाकिनं वने शून्ये पिप्पलास्वादतत्परम् ॥
पप्रच्छ विस्मयाविष्ट एकाकी को भवानिह ॥४३॥
वने शून्ये महारौद्रे सिंहव्याघ्रसमाकुले ॥
क्व ते माता पिता चैव किमर्थं चेह तिष्ठसि ॥४४॥
निवससि कथं चैव सर्वं मे विस्तराद्वद ॥४५॥
॥ पिप्पलाद उवाच ॥
नाहं जानामि पितरं मातरं न च बांधवम् ॥
नापि त्वां कोऽत्र चा यातो मम पार्श्वे तु सांप्रतम् ॥४६॥
॥ सूत उवाच ॥ [ ॥
तस्य तद्वचनं श्रुत्वा चिरं ध्यात्वा मुनीश्वरः ॥
ततस्तं प्रहसन्प्राह ज्ञात्वा दिव्येन चक्षुषा ॥४७॥
॥ नारद उवाच ॥
मया ज्ञातोऽसि वत्स त्वं याज्ञवल्क्यस्य रेतसा ॥
दैवयोगात्समुत्पन्नो भगिन्या उदरे ह्यृतौ ॥४८॥
उतथ्यशापदोषेण देवाचार्यो बृहस्पतिः ॥
देवकार्यस्य सिद्ध्यर्थं तस्मात्तच्छृणु कारणम् ॥४९॥
अथर्ववेदो यश्चैष शतशाखो विनिर्मितः ॥
शत कल्पश्च गूढार्थो भूपानां कार्यसिद्धये ॥५॥
नवशाखः पंचकल्पस्त्वया कार्यः सुखावहः ॥५१॥
तव मात्रा महाभाग रेतसा च परिप्लुतम् ॥
यद्वस्त्रं याज्ञवल्क्यस्य परिधानं कृतं च यत् ॥५२॥
भगिन्या सुतपस्विन्या स्नानार्थं न च काम्यया ॥
तद्रेतो जलमिश्रं तु भगमध्ये विनिर्गतम् ॥५३॥
अमोघं तेन संभूतस्त्वमत्र जगतीतले ॥
माता वै मृत्युमापन्ना ज्ञात्वैवं लज्जया तया ॥५४॥
चमत्कारपुरे तुभ्यं मातुलो जनकस्तथा ॥
संतिष्ठते महाभाग तत्पार्श्वे त्वमितो वज ॥५५॥
सांप्रतं व्रतकालस्ते वर्षं चैवाष्टमं स्थितम् ॥
तच्छ्रुत्वा वचनं तस्य लज्जयाऽधोमुखः स्थितः ॥५६॥
ततश्चिरेण दीनं स वाक्यमेतदुवाच तम् ॥
किं मया पापमाख्याहि पूर्वदेहांतरे कृतम् ॥५७
येनेदं गर्हितं जन्म वियोगो मातृसंभवः ॥
परित्यक्ष्यामि जीवं स्वं दुःखेनानेन सन्मुने ॥५८॥
॥ नारद उवाच ॥
न त्वया दुष्कृतं किंचित्पूर्वदेहांतरे कृतम् ॥
परं येन सुसंजातं तवेदं व्यसनं शृणु ॥५९॥
जन्मस्थेन भवाञ्जातः शनिना नाऽत्र संशयः ॥
तेनावस्थामिमां प्राप्तो नान्यदस्ति हि कारणम् ॥६०॥
तच्छ्रुत्वा वचनं तस्य कोपसंरक्तलोचनः ॥
ऊर्ध्वमालोकयामास समुद्दिश्य शनैश्चरम् ॥६१॥
तस्य दृष्टिनिपातेन न्यपतत्स तु तत्क्षणात् ॥
विमानात्स्वाद्रवेः पुत्रो ययातिरिव नाहुषः ॥६२ ॥१
अधोवक्त्रो द्विजश्रेष्ठाः पितुरादेशमाश्रितः ॥
बालभावेऽपि तेनैव दग्धौ पादौ तदा रवेः ॥६३॥
अथ तं नारदः प्राह पतमानमधोमुखम् ॥
बाल्यभावादनेन त्वं पातितोऽसि शनैश्चर ॥६४॥
तस्मान्मा वीक्षयस्वैनं भविष्यति प्रकोपभाक् ॥
मा पतस्व तथा भूमौ बलान्मद्वाक्यसंभवात् ॥६५॥
स्तंभयित्वा तथाप्येवं गगनस्थं शनैश्चरम् ॥
ततः प्रोवाच तं बालं पिप्पलादं मुनीश्वरः ॥६६॥
मा कोपं कुरु बाल त्वमेष सूर्यसुतो ग्रहः ॥
देवानामपि पीडां च कुरुतेऽष्टमराशिगः ॥६७॥
जन्मस्थस्तु विशेषेण द्वितीयस्तु तथापरः ॥
यद्येष कुपितस्त्वां तु वीक्षयिष्यति कर्हिचित् ॥६८॥
करिष्यति न संदेहो भस्मराशिं ममाग्रतः ॥
अनेन वीक्षितौ पादौ जातमात्रेण सूर्यकौ ॥६९॥
आयातस्य तु तुष्टस्य पुत्रदर्शनवाञ्छया ॥
अन्तर्धानीकृते वस्त्रे ज्ञात्वा तं रौद्रचक्षुषम् ॥७०॥
ततो दग्धावुभौ चापि तिष्ठतश्चर्म वेष्टितौ ॥
दृश्येतेऽद्यापि मूर्त्तौ तौ घटितायां धरातले ॥७१॥
॥ सूत उवाच ॥
तच्छ्रुत्वा वचनं तस्य नारदस्य स बालकः ॥
भयेन महता युक्तस्ततः पप्रच्छ तं मुनिम् ॥७२॥
कथं यास्यति मे तुष्टिं वदैष मम सन्मुने ॥
अज्ञानात्पातितो व्योम्नः शक्तिं चास्याविजानता ॥७३॥
॥ नारद उवाच ॥
ग्रहा गावो नरेंद्राश्च ब्राह्मणाश्च विशेषतः ॥
पूजिताः प्रतिपूज्यंते निर्दहंत्यपमानिताः ॥७४॥
तस्मात्कुरु स्तुतिं चास्य स्वशक्त्या भास्करेः प्रभो ॥
प्रसादं गच्छते येन कोपं त्यजति पातजम् ॥७५॥
ततः कृतांजलिर्भूत्वा स्तुतिं चक्रे स बालकः ॥
भयेन महता युक्तस्ततः संपृच्छ्य तं मुनिम् ॥७६॥
पिप्पलादो द्विजश्रेष्ठाः प्रणिपत्य मुहुर्मुहुः ॥
नमस्ते क्रोधसंस्थाय पिंगलाय नमोऽस्तु ते ॥७७॥
नमस्ते वसुरूपाय कृष्णाय च नमोऽस्तु ते ॥
नमस्ते रौद्रदेहाय नमस्ते चांतकाय च ॥७८॥
नमस्ते यमसंज्ञाय नमस्ते सौरये विभो ॥
नमस्ते मन्दसंज्ञाय शनैश्चर नमोऽsस्तु ते ॥७९॥
प्रसादं कुरु देवेश दीनस्य प्रणतस्य च ॥८॥
॥ शनैश्चर उवाच ॥
परितुष्टोऽस्मि ते वत्स स्तोत्रेणानेन सांप्रतम् ॥
वरं वरय भद्रं ते येन यच्छामि सांप्रतम् ॥८१॥
पिप्पलाद उवाच ॥
अद्यप्रभृति नो पीडा बालानां सूर्यनन्दन ॥
त्वया कार्या महाभाग स्वकीया च कथंचन ॥८२॥
यावद्वर्षाष्टमं जातं मम वाक्येन सूर्यज ॥
स्तोत्रेणानेन योऽत्र त्वां स्तूयात्प्रातः समुत्थितः ॥८३॥
तस्य पीडा न कर्तव्या त्वया भास्करनन्दन ॥
तव वारे च संजाते तैलाभ्यंगं करोति यः ॥८४॥
दिनाष्टकं न कर्तव्या तस्य पीडा कथंचन ॥
यस्त्वां लोहमयं कृत्वा तैलमध्ये ह्यधोमुखम् ॥८५॥
धारयेत्तेन तैलेन ततः स्नानं समाचरेत् ॥
तस्य पीडा न कर्तव्या देयो लाभो महीभुजः ॥९६॥
अध्यर्द्धाष्टमिकायोगे तावके संस्थिते नरः ॥
तववारे तु संप्राप्ते यस्तिलाँल्लोहसंयुतान् ॥९७॥
स्वशक्त्या राति नो तस्य पीडा कार्या त्वया विभो ॥
कृष्णां गां यस्तु विप्राय तवोद्देशेन यच्छति ॥८८॥
अध्यर्द्धाष्टमजा पीडा नाऽस्य कार्या त्वया विभो ॥
शमी समिद्भिर्यो होमं तवोद्देशेन यच्छति ॥९९॥
तथा कृष्णतिलैश्चैव कृष्णपुष्पानुलेपनैः ॥
पूजां करोति यस्तुभ्यं धूपं वै गुग्गुलं दहेत् ॥
कृष्णवस्त्रेण संवेष्ट्य त्याज्या तस्य व्यथा त्वया ॥९०॥
॥ सूत उवाच ॥
एवमुक्तः शनिस्तेन बाढमित्येव जल्प्य च ॥
नारदं समनुज्ञाप्य जगाम निजसं श्रयम् ॥९१॥
नारदोऽपि तमादाय वालकं कृपयान्वितः ॥
चमत्कारपुरं गत्वा याज्ञवल्क्याय चार्पयत् ॥९२॥
कथयामास वृत्तांतं तस्य संभूति संभवम् ॥
यद्दृष्टं ज्ञानदीपेन तस्मै सर्वं न्यवेदयत् ॥९३॥
एष ते वीर्यसंभूतो बालको भगिनीसुतः ॥
मयाऽश्वत्थतले लब्धः काननेऽश्वत्थसंनिधौ ॥९४॥
व्रतबंध कुरुष्वास्य सांप्रतं चाष्टवार्षिकः ॥
नात्र दोषोस्ति विप्रेंद्र न भगिन्यास्तथा तव ॥
तस्माद्गृहाण पुत्रं स्वं भागिनेयं विशेषतः ॥९५॥
॥ सूत उवाच ॥
एवमुक्त्वा स देवर्षिस्ततश्चादर्शनं गतः ॥
याज्ञवल्क्योऽपि तच्छ्रुत्वा विषादं परमं गतः ॥९६॥
पापं तच्चिंतयन्नेव न शांतिमधिगच्छति ॥
आत्मानं गर्हयन्नित्यं दिवानक्तं च शोचति ॥९७॥
तं च पुत्रं परिज्ञाय तैस्तैश्चिह्नैर्निजैः स्थितैः ॥
ततस्तु पोषयित्वा तं व्रतेन समयोजयत् ॥९९॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्या संहितायां षष्ठे नागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये पिप्पलादोत्पत्तिव र्णनंनाम चतुःसप्तत्युत्तरशततमोऽध्यायः ॥१७४॥
N/A
References : N/A
Last Updated : December 31, 2024
TOP