नागरखण्डः - अध्याय १६१
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सूत उवाच ॥
अथ तेन द्विजाः सर्वे ब्रह्मस्थाने निवेशिताः ॥
चातुश्चरणसंज्ञाश्च ततस्तस्य निवेशिताः ॥१॥
सोऽपि केशान्परित्यज्य सर्वगात्रसमुद्भवान् ॥
निजपत्न्या समोपेतः प्रणम्य च द्विजोत्तमान् ॥२॥
कृतांजलिपुटो भूत्वा वाक्यमेतदुवाच ह ॥
भास्करस्यास्य विहितः प्रासादोयं मया द्विजाः ॥३॥
पुष्पादित्य इति ख्यातिं प्रयातु भुवनत्रये ॥
॥ ब्राह्मणा ऊचुः ॥
न वयं याज्ञवल्क्यस्य कीर्तिं नेष्यामहे क्षयम् ॥४॥
प्रायश्चित्तं प्रदास्यामश्चित्तस्य हृदयंगमम् ॥
अन्ये च ब्राह्मणाः प्रोचुः केचिन्मध्यस्थवृत्तयः ॥५॥
वृत्त्यर्थमस्य देवस्य लक्षं होमेऽत्र कल्प्यताम् ॥
लक्षं तु सर्वविप्राणां प्रायश्चित्तविशुद्धये ॥६॥
॥ पुष्प उवाच ॥
तस्मात्सर्वे द्विजश्रेष्ठा मन्नाम्ना कीर्तयंत्विमम् ॥
पुष्पादित्यमिति ख्यातिं कीर्तयंतु तथानिशम् ॥७॥
अनया भार्यया मह्यं मान्या या स्थापिता पुरा ॥
दुर्गाऽस्याश्चात्र नाम्ना वै भूयात्ख्याताऽत्र सत्पुरे ॥८॥
॥ ब्राह्मणा ऊचुः ॥
दुःशीलेन पुराऽकारि प्रासादो हरसंभवः ॥
दुर्वासःस्थापितस्यापि भवद्भिस्तुष्ट मानसैः ॥९॥
तथाप्यस्य तु दीनस्य प्रासादः क्रियतां द्विजाः ॥१०॥
नाममात्रेण देवस्य दुःशीलेन यया पुरा ॥
अनेनाराधितः पूर्वं स्वमांसैरेष भास्करः ॥११॥
तस्मान्न क्षतिरस्याथ दत्ते नाम्नि यथा पुरा ॥
नाम्ना माहिकया नाम माहीत्येव च सा भवेत् ॥१२॥
॥ सूत उवाच ॥
पुष्पेण दाने दत्तेऽथ संमतेनाग्रजन्मनाम् ॥
मध्यमेन कृतं नाम पुष्पादित्य इति श्रुतम् ॥१३॥
तत्पत्न्या चापि या तत्र दुर्गा देवी द्विजोत्तमाः ॥
नाम्ना माहिकया नाम माहीत्येव च साऽभवत् ॥१४॥
॥ सूत उवाच ॥
एतद्वः सर्वमाख्यातं यत्पृष्टोस्मि द्विजोत्तमाः ॥
पुष्पा दित्यो यथा जातो याज्ञवल्क्यप्रतिष्ठितः ॥१५॥
अद्यापि कलिकाले स दृष्टो भक्त्या सुरेश्वरः ॥
नाशयेद्दिनजं पापं नराणां नात्र संशयः ॥१६॥
तथा च सप्तमीयुक्ते रवेर्वारे द्विजोत्तमाः ॥
अष्टोत्तरशतंयावत्फलहस्तः करोति यः ॥
प्रदक्षिणां च सद्भक्त्या स लभेद्वांछितं फलम् ॥१७॥
माहीकामपि यो दुर्गां नित्यमेव प्रपश्यति ॥
न स पश्यति कष्टानि तस्मिन्नहनि कर्हिचित् ॥१८॥
चैत्रशुक्लचतुर्दश्यां यस्तां पूजयते नरः ॥
तस्य संवत्सरंयावन्नापत्संजायते क्वचित् ॥१९॥
इति श्रीस्कांदेमहापुराणएकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पुष्पादित्यमाहात्म्यवर्णनंनामैकषष्ट्युत्तरशततमोऽध्यायः ॥१६१॥
N/A
References : N/A
Last Updated : December 31, 2024
TOP