नागरखण्डः - अध्याय ११

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


ऋषय ऊचुः ॥
चमत्कारः कथं राजा मुक्तः कुष्ठेन सूतज ॥
कथं तेन तपस्तप्तं कियत्कालं च भूभुजा ॥१॥
कतमे ब्राह्मणास्ते वै शंखतीर्थं प्रदर्शितम् ॥
यैस्तस्य रोगमुक्त्यर्थं दुःखितस्य महात्मनः ॥२॥
कतमं शंखतीर्थं तत्कस्मिन्स्थाने व्यवस्थितम् ॥
किंप्रभावं च निःशेषं सर्वं विस्तरतो वद ॥३॥
 ॥सूत उवाच ॥
अहं वः कीर्तयिष्यामि कथामेतां मनोहराम् ॥
सर्वपापहरां विप्राश्चमत्कारनृपोद्भवाम् ॥४॥
स भ्रांतः सर्वतीर्थानि प्रभासाद्यानि कृत्स्नशः ॥
तपस्वी नियताहारो भिक्षान्नकृतभोजनः ॥५॥
पृच्छमानो भिषग्मुख्यानौषधानि मुहुर्मुहुः ॥
मंत्रान्मंत्रविदश्चैव रोगनाशाय नित्यतः ॥६॥
न लेभे किंचिदिष्टं वा स मंत्रं भेषजं च वा ॥
तीर्थं वा नृपशार्दूलो येन स्याद्व्याधिसंक्षयः ॥७॥
ततश्च पार्थिवश्रेष्ठो वैराग्यं परमं गतः ॥
एकाकी यतचित्तात्मा सर्वसत्त्वविराजिते ॥८॥
निवासमकरोत्तस्मिन्क्षेत्रे पुण्यतमे चिरम् ॥
शीर्णपर्णफलाहारो भूमौ शेते सदा निशि ॥
अन्य स्याऽन्यस्य वृक्षस्य मदाहंकारवर्जितः ॥९॥
ततः कतिपयाहस्य भ्रममाणो महीपतिः ॥
सोऽपश्यद्ब्राह्मणश्रेष्ठांस्तीर्थयात्राश्रयान्बहून् ॥१०॥
ततः प्रणम्य तान्विप्रानुपविष्टान्धरातले ॥
विश्वामित्राश्रमस्यांते प्रोवाच विनयान्वितः ॥११॥
 ॥राजोवाच ॥
अहं नाम्ना चमत्कारः पार्थिवः सूर्यवंशजः ॥
आनर्त्ताधिपतिर्व्याप्तः कुष्ठेन द्विजसत्तमाः ॥१२॥
अस्ति कश्चिदुपायोऽत्र दैवो वा मानुषोऽपि वा ॥
भेषजं वाऽथ मंत्रो वा येन कुष्ठं प्रशाम्यति ॥१३॥
ममोपरि दयां कृत्वा वदध्वं द्विजसत्तमाः ॥
कुष्ठग्रस्तशरीरं च परं कृच्छ्रमुपागतम् ॥४॥
अथवा वित्थ नो यूयं त्यक्ष्यामीह कलेवरम् ॥
प्रविश्याग्निं जलं वाऽपि भक्षयित्वाऽथ वा विषम् ॥१५॥
तस्य तद्वचनं श्रुत्वा सर्वे ते द्विजसत्तमाः ॥
प्रोचुः कृपासमाविष्टास्ततस्तं पृथिवीश्वरम् ॥१६॥
अस्ति पार्थिवशार्दूल स्थानादस्माददूरतः ॥
शंखतीर्थमिति ख्यातं सर्वरोगक्षयावहम् ॥१७॥
ये नरा व्याधिना ग्रस्ताः काणाश्चांधास्तथा जडाः ॥
हीनांगाश्चाऽधिकांगाश्च कुरूपा विकृताननाः ॥१८॥
तेऽपि चैत्रस्य कृष्णादौ स्नातास्तत्राकृताशनाः ॥
भवंति नीरुजः सद्यश्चित्रासंस्थे निशाकरे ॥१९॥
अस्माभिः शतशो दृष्टा द्वादशार्कसमप्रभाः ॥
कामदेवसमाकारास्तेजोवीर्यसमायुताः ॥२०॥
 ॥राजोवाच ॥
शंखतीर्थं कथं ज्ञेयं मया ब्राह्मणसत्तमाः ॥
कथं चैव समुत्पन्नं वदध्वं मम विस्तरात् ॥२१॥
 ॥ब्राह्मणा ऊत्रुः ॥
आसीत्पूर्वं मुनिश्रेष्ठो लिखिताख्यो महीतले ॥
शांडिल्यस्य मुनेः पुत्रस्तपोवीर्यसमन्वितः ॥२२॥
अथ तस्यानुजो जज्ञे शंखाख्यो धर्मशास्त्रवित् ॥
कन्दमूलफलाहारः सदैव तपसि स्थितः ॥२३॥
कस्यचित्त्वथ कालस्य लिखितस्याऽऽश्रमं ययौ ॥
शंखः स्वादुफलार्थाय पीडितोतिबुभुक्षया ॥२४॥
स शून्यमाश्रमं प्राप्य लिखितस्य महात्मनः ॥
आत्मीयानीति मन्वानः फलानि जगृहे ततः ॥२५॥
भक्षयामास भूरीणि पक्वानि मधुराणि च ॥
एतस्मिन्नन्तरे प्राप्तो लिखितः शिष्यसंयुतः ॥२६॥
स गृहीतफलं दृष्ट्वा शंखं प्रोवाच कोपतः ॥२७॥
अदत्तानि मया पाप फलानि हृतवानसि ॥
कस्मात्त्वं चौर्यरूपेण नानुबन्धमवेक्षसे ॥२८॥
 ॥शंख उवाच ॥
सत्यमेतद्द्विजश्रेष्ठ यत्त्वया परिकीर्तितम् ॥
फलानि प्रगृहीतानि विजनेऽत्र तवाश्रमे ॥२९॥
तस्मात्कुरु यथार्हं मे निग्रहं चौर्यसंभवम् ॥
इह लोकः परश्चैव येन मे स्यात्सुखावहः ॥३०॥
ततः स हस्तमादाय हस्ते शंखस्य तत्क्षणात् ॥
चकर्त कोपमाविष्टो वार्यमाणोऽपि तापसैः ॥३१॥
छिन्नहस्तोऽपि शंखस्तु तपश्चक्रे सुदारुणम् ॥
विशेषेण समासाद्य स्वाश्रमे भूय एव तु ॥३२॥
ततस्तुष्टो महादेवस्तस्य कालेन केन चित् ॥
प्रोवाच दर्शनं गत्वा तं च शंखमुनीश्वरम् ॥३३॥
 ॥महेश्वर उवाच ॥
भोभो मुने महासत्त्व दुष्करं कृतवानसि ॥
वरं गृहाण मत्तस्त्वं मनसा समभीप्सितम् ॥३४॥
 ॥शंख उवाच ॥
यदि तुष्टोसि मे देव वरं चेद्यच्छसि प्रभो ॥
स्यातां मे तादृशौ हस्तौ भूयोऽपि सुरसत्तम ॥३५॥
तथेदं मम नामांकं तीर्थं स्यात्सुरसत्तम ॥
विख्यातं सर्वलोकेषु सर्वपापहरं नृणाम् ॥३६॥
हीनांगो वाधिकांगो वा व्याधिना ग्रस्त एव च ॥
अत्र स्नानं करोत्याशु स भूयः स्यात्पुनर्नवः ॥३७॥
 ॥भगवानुवाच ॥
एतत्तीर्थं तु विख्यातं तव नाम्ना भविष्यति ॥
अद्यप्रभृति विप्रेन्द्र देहिनां पापनाशनम् ॥३८॥
हीनांगो वाधिकांगो वा योऽत्र स्नानं करिष्यति ॥
चैत्रे शुक्ले निराहारश्चित्रासंस्थे निशाकरे ॥
सुवर्णांगः स तेजस्वी भविष्यति न संशयः ॥३९॥
सकामो यदि विप्रेंद्र ध्यायमानः सुरूपताम् ॥
निष्कामो वा परं स्थानं गमि ष्यति शिवात्मकम् ॥४०॥
अत्र श्राद्धे कृते ब्रह्मंश्चतुर्दश्यां निशाकरे ॥
चित्रास्थिते प्रयास्यंति पितरस्तृप्तिमुत्तमाम् ॥४१॥
अद्यैव विप्रशार्दूल चैत्रशुक्लांत उत्तमः ॥
अपराह्णे निशानाथश्चित्रायोगं प्रयास्यति ॥४२॥
तत्रोपवासयुक्तस्य सम्यक्स्नातस्य तत्क्षणात् ॥
स्यातां हस्तौ सुरूपाढ्यौ यथा पूर्वं तथा हि तौ ॥४३॥
एवमुक्त्वा स भगवांस्ततश्चादर्शनं गतः ॥
शंखोऽपि कुतपे काले तत्र स्नानमथाकरोत् ॥४४॥
ततश्च तत्क्षणाज्जातौ हस्तौ तस्य यथा पुरा ॥
रक्तोत्पलनिभौ कांतौ मत्स्यचिह्नेन चिह्नितौ ॥४५॥
 ॥ब्राह्मणा ऊचुः ॥
एवं तद्धरणीपृष्ठे तीर्थं जातं नृपोत्तम ॥
प्रभावाद्देवदेवस्य चंद्रांकस्य शुभावहम् ॥४६॥
तस्मात्त्वमपि राजेंद्र तत्र स्नानं समाचर ॥
चैत्रे शुक्लचतुर्दश्यां चित्रासंस्थे निशाकरे ॥४७॥
भविष्यसि न संदेहः सर्वरोगविवर्जितः ॥
वयं ते दर्शयिष्यामः प्राप्ते काले यथोदिते ॥४८॥
 ॥सूत उवाच ॥
ततः कतिपयाहेन चैत्रकृष्णादिरागतः ॥
चित्रासंस्थे निशानाथे संप्राप्ता च चतुर्दशी ॥४९॥
ततस्ते ब्राह्मणा भूपं समादाय च तत्क्षणात् ॥
शंखतीर्थं समुद्दिश्य गतास्तस्य हितैषिणः ॥५०॥
ततः स मनसि ध्यात्वा कुष्ठव्याधिपरिक्षयम् ॥
स्नानं चक्रे यथान्यायं श्रद्धया परया युतः ॥५१॥
ततः कुष्ठविनिर्मुक्तो द्वादशार्कसमप्रभः  ॥
निष्क्रांतः सलिलात्तस्माद्धर्षेण महतान्वितः ॥५२॥
ततः प्रणम्य तान्सर्वान्ब्राह्मणान्वेदपारगान् ॥
कृतांजलिपुटो भूत्वा वाक्यमेतदुवाच ह ॥५३॥
प्रसादेन हि युष्माकं मुक्तोऽहं ब्राह्मणोत्तमाः ॥
कुष्ठव्याधेर्महाकालं गर्हितोस्म्येव देहिनाम् ॥५४॥
तस्मान्नाहं करिष्यामि राज्यं ब्राह्मणसत्तमाः ॥
तीर्थेऽत्रैवाधुना नित्यं चरिष्यामि महत्तपः ॥५५॥
एतद्राज्यं च देशं च हस्त्यश्वादि तथापरम् ॥
यत्किंचिद्विद्यते मह्यं तद्गृह्णंतु द्विजोत्तमाः ॥५६॥
ममैवानुग्रहार्थाय दयां कृत्वा बृहत्तराम् ॥
दीनस्य भक्तियुक्तस्य विरक्तस्य विशेषतः ॥५७॥
 ॥ब्राह्मणा ऊचुः ॥
न वयं रक्षितुं शक्ता राज्यं पार्थिवसत्तम ॥
तत्किं तेन गृहीतेन येन स्याद्राज्यविप्लवः ॥५८॥
जामदग्न्येन रामेण पुरा दत्ता वसुन्धरा ॥
त्रिःसप्त क्षत्रियैर्हीनां कृत्वास्माकं नृपोत्तम ॥५९॥
सा भूयोपि हृताऽस्माकं क्षत्रियैर्बलवत्तरैः ॥
तिरस्कृत्य द्विजान्सर्वाँल्लीलयापि मुहुर्मुहुः ॥६०॥
 ॥राजोवाच ॥
अहं वः प्रकरिष्यामि रक्षां ब्राह्मणसत्तमाः ॥
तपस्थितोऽपि कार्येऽत्र न भीः कार्या कथंचन ॥६१॥
 ॥ब्राह्मणा ऊचुः ॥
अवश्यं यदि ते श्रद्धा विद्यते दानसंभवा  ॥
क्षेत्रेऽत्रापि महापुण्ये कृत्वा देहि पुरोत्तमम् ॥६२॥
सर्वेषां ब्राह्मणेंद्राणां प्राकारपरिखान्वितम् ॥
सुखेन येन तिष्ठामः स्नात्वा तीर्थैः पृथग्विधैः ॥
गृहस्थधर्मिणः सर्वे स्वाध्यायनिरता सदा ॥६३॥
 ॥सूत उवाच ॥
तच्छ्रुत्वा स महीपालस्तथेत्युक्त्वा प्रहर्षितः ॥
नगरं कल्पयामास स्थाने तत्र महत्तमम् ॥६४॥
प्राकारेण सुतुंगेन परिखाद्येन सर्वतः ॥
आयामव्यासतश्चैव क्रोशमात्रं मनोहरम् ॥६५॥
त्रिकचत्वरसंशुद्धं शोभितं सर्वतो ध्वजैः ॥
प्रासादैः प्रोन्नतैः कान्तैः समंतात्सुधया वृतैः ॥६६॥
मत्तवारणकोपेतैर्बहुभिर्भूभिरेव च ॥
संपूर्णं सत्यकामाद्यैः साधुलोकप्रशंसितैः ॥६७॥
ततो गृहाणि सर्वाणि पूरयित्वा स भूमिपः ॥
सुवर्णमणिमुक्तादिपदार्थैरपरैरपि ॥६८॥
ब्राह्मणेभ्यः कुलीनेभ्यो वेदविद्भ्यो विशेषतः ॥
श्रोत्रियेभ्यश्च दांतेभ्यः स तु श्रद्धासमन्वितः ॥६९॥
यथाज्येष्ठं यथाश्रेष्ठं प्रक्षाल्य चरणौ ततः ॥
शास्त्रोक्तेन विधानेन प्रददौ द्विजसत्तमाः ॥७०॥
इति श्रीस्कांदे महापुराणएकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शंखतीर्थोत्पत्तिमाहात्म्यवर्णने चमत्कारभूपतिना व्राह्मणेभ्यो नगरदानवर्णनंनामैकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : December 18, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP