नागरखण्डः - अध्याय ४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


सूत उवाच ॥
त्रिशंकुरिति संचिन्त्य विश्वामित्रं महामुनिम् ॥
मनसा सुचिरं कालं ततश्चक्रे विनिश्चयम् ॥१॥
विश्वामित्रं परित्यज्य नान्योस्ति भुवनत्रये ॥
यः कुर्यान्मे परित्राणं दुःखादस्मात्सुदारुणात् ॥२॥
कुरुक्षेत्रं समुद्दिश्य प्रतस्थे स ततः परम् ॥
सुश्रांतः क्षुत्पिपासार्तो मार्गपृच्छापरायणः ॥३॥
ततः कालेन संप्राप्य कुरुक्षेत्रं स पार्थिवः ॥
यत्नेनान्वेषयामास विश्वामित्राश्रमं ततः ॥४॥
एवं चान्वेषमाणेन तेन भूमिभृता तदा ॥
सुदूरादेव संदृष्टं नीलद्रुमकदम्बकम् ॥५॥
उपरिष्टाद्बकैर्हंसैर्भ्रममाणैः समंततः ॥
आटिभिर्मद्गुभिश्चैव समन्ताज्जलपक्षिभिः ॥६॥
स मत्वा सलिलं तत्र पिपासार्तो महीपतिः ॥
प्रतस्थे सत्वरो हृष्टो जलवातहृतक्लमः ॥७॥
अथापश्यन्मनोहारि सौम्यसत्त्वनिषेवितम् ॥
आश्रमं नदितीरस्थं मनःशोकविनाशनम् ॥८॥
पुष्पितैः फलितैर्वृक्षैः समंतात्परिवारितम् ॥
विविधैर्मधुरारावैर्नादितं विहगोत्तमैः ॥९॥
क्रीडंति नकुलाः सर्पैरूलूका यत्र वायसैः ॥
मूषकैर्वृषदंशाश्च द्वीपिनो विविधैर्मृगैः ॥१०॥
अथापश्यन्नदीतीरे स तपस्विगणावृतम् ॥
स्वाध्यायनिरतं दांतं विश्वामित्रं तपोनिधिनम् ॥११॥
तेजसा तपसातीव दीप्यमानमिवानलम् ॥
चीरवल्कलसंवीतं शालवृक्षं समाश्रितम् ॥१२॥
अथ गत्वा स राजेन्द्रो दूरस्थोऽपि प्रणम्य तम् ॥
अष्टांगेन प्रणामेन स्वनाम परिकीर्तयन् ॥१३॥
तथान्यानपि तच्छिष्यान्कृताञ्जलिपुटः स्थितः ॥
यथाक्रमं यथाज्येष्ठं श्रद्धया परया युतः ॥१४॥
धूलिधूसरितांगं तं ते तु दृष्ट्वा महीपतिम् ॥
चंडाल इति मन्वानाश्चिह्नैर्गात्रसमुद्भवैः ॥१५॥
भर्त्सयामासुरेवाथ वचनैः परुषाक्षरैः ॥
धिक्छब्दैश्च तथैवान्ये याहियाहीति चासकृत् ॥१६॥
कस्त्वं पापेह संप्राप्तो मुनीनामाश्रमोत्तमे ॥
वेदध्वनिसमाकीर्णे साधूनामपि दुर्लभे ॥१७॥
तस्माद्गच्छ द्रुतं यावन्न कश्चित्तापसस्तव ॥
दत्त्वा शापं करोत्याशु प्राणानामपि संक्षयम् ॥१८॥
त्रिशंकुरुवाच ॥
त्रिशंकुर्नाम भूपोऽहं सूर्यवंशसमुद्भवः ॥
शप्तो वसिष्ठपुत्रैश्च चंडालत्वे नियोजितः ॥१९॥
सोऽहं शरणमापन्नः शापमुक्त्यै द्विजोत्तमाः ॥
विश्वामित्रं जगन्मित्रं नान्या मेऽस्ति गतिः परा ॥२०॥
विश्वामित्र उवाच ॥
वसिष्ठस्य भवान्याज्यस्तत्पुत्राणां विशेषतः ॥
तत्कस्मादीदृशे पापे तैस्त्वमद्य नियोजितः ॥२१॥
कोऽपराधस्त्वया तेषां कृतः पार्थिवसत्तम ॥
प्राणद्रोहः कृतः किं वा दारधर्षणसंभवः ॥२२॥
त्रिशंकुरुवाच ॥
अनेनैव शरीरेण स्वर्गाय गमनं प्रति ॥
मया संप्रार्थितो यज्ञो वसिष्ठान्मुनिसत्तमात् ॥२३॥
तेनोक्तं न स यज्ञोऽस्ति येन स्वर्गे प्रगम्यते ॥
अनेनैव शरीरेण मुक्त्वा देहांतरं नृप ॥२४॥
तच्छ्रुत्वा स मया प्रोक्तो यदि मां न नयिष्यति ॥
स्वर्गं चानेन कायेन सद्यो यज्ञप्रभावतः ॥२५॥
तदन्यं गुरुमेवाद्य कर्ताहं नास्ति संशयः ॥
एतज्ज्ञात्वा मुनिः प्राह यत्क्षेमं तत्समाचर ॥२६॥
ततोऽहं तेन संत्यक्तस्तत्पुत्रान्प्राप्य निष्ठुरान् ॥
प्रोक्तवानथ तत्सर्वं यद्वसिष्ठस्य कीर्तितम् ॥२७॥
ततस्तैः शोकसंतप्तैः शप्तोस्मि मुनिसत्तम ॥
नीतश्चेमां दशां पापां चंडालत्वे नियोजितः ॥२८॥
सोऽहं त्वां मनसा ध्यात्वा सुदूरादिहरागतः ॥
आशां गरीयसीं कृत्वा कुरुक्षेत्रे मुनीश्वर ॥२९॥
नासाध्यं विद्यते किंचित्त्रिषु लोकेषु ते मुने ॥
तस्मात्कुरु प्रतीकारं दुःखितस्य ममाधुना ॥३०॥
सूत उवाच ॥
तस्य तद्वचनं श्रुत्वा विश्वामित्रो मुनीश्वरः ॥
वसिष्ठस्पर्धयोवाच मुनिमध्ये व्यवस्थितः ॥३१॥
अहं त्वां याजयिष्यामि तेन यज्ञेन पार्थिव ॥
गच्छसि त्रिदिवं येन इष्टमात्रेण तत्क्षणात् ॥३२॥
त्वमेवं विहितो भूप वासिष्ठैरंत्यजस्तु तैः ॥
मया भूयोऽपि भूपालः कर्तव्यो नात्र संशयः ॥३३॥
तस्मादागच्छ भूपाल तीर्थयात्रां मया सह ॥
कुरु तीर्थप्रभावेण येन त्वं स्याः शुचिः पुनः ॥३४॥
तथा यज्ञक्रियार्हश्च चंडालत्वविवर्जितः ॥
नास्ति तत्पातकं यच्च तीर्थस्नानान्न नश्यति ॥३५॥
सूत उवाच ॥
एवं स निश्चयं कृत्वा गाधिपुत्रो मुनीश्वरः ॥
त्रिशंकुं पृष्ठतः कृत्वा तीर्थयात्रामथाव्रजत् ॥३६॥
कुरुक्षेत्रं सरस्वत्यां प्रभासे कुरुजांगले ॥
पृथूदके गयाशीर्षे नैमिषे पुष्करत्रये ॥३७॥
वाराणस्यां प्रयागे च केदारे श्रवणे नदे ॥
चित्रकूटे च गोकर्णे शालिग्रामेऽचलेश्वरे ॥३८॥
शुक्लतीर्थे सुराज्याख्ये दृषद्वति नदे शुभे ॥
अथान्येषु सुपुण्येषु तीर्थेष्वायतनेषु च ॥३९॥
एवं तस्य नरेंद्रस्य सार्धं तेन महात्मना ॥
अतिक्रांतो महान्कालो भ्रममाणस्य भूतले ॥४०॥
मुच्यते न च पापेन चंडालत्वेन स द्विजाः ॥
एवंविधेषु तीर्थेषु स्नातोपि च पृथक्पृथक् ॥४१॥
ततः क्रमात्समायातः सोऽर्बुदं पर्वतं प्रति ॥
तत्रारुह्य समालोक्य पापघ्नमचलेश्वरम् ॥४२॥
यावदायतनात्तस्मान्निर्गच्छति मुनीश्वरः ॥
तावत्तेनेक्षितो नाममार्कंडो मुनिसत्तमः ॥४३॥
सोऽपि दृष्ट्वा जगन्मित्रं विश्वामित्रं मुनीश्वरम् ॥
प्रोवाचाथ कुतः प्राप्तः सांप्रतं त्वं मुनीश्वर ॥४४॥
कोऽयं तवानुगो रौद्रो दृश्यते चांत्यजाकृतिः ॥
एतत्सर्वं समाचक्ष्व पृच्छतो मम सन्मुने ॥४५॥
विश्वामित्र उवाच ॥
एष पार्थिवशार्दूलस्त्रिशंकुरिति विश्रुतः ॥
वसिष्ठस्य सुतैर्नीतश्चंडालत्वं प्रकोपतः ॥४६॥
मया चास्य प्रतिज्ञातं सप्तद्वीपवतीं महीम् ॥
प्रभ्रमिष्याम्यहं यावन्मेध्यत्वं त्वमुपेष्यसि ॥४७॥
भ्रांतोऽहं भूतले यानि तीर्थान्यायतनानि च ॥
नचैष मेध्यतां प्राप्तः परिश्रांतोस्मि सांप्रतम् ॥४८॥
तस्मात्सर्वां महीं त्यक्त्वा लज्जया परया युतः ॥
द्वीपान्महार्णवांस्त्यक्त्वा संप्रयास्याम्यतः परम् ॥४९॥
मा वसिष्ठस्य पुत्राणामुपहासपदं गतः ॥
प्रतिज्ञारहितो विप्र सत्यमेद्ब्रवीम्यहम् ॥५०॥
श्रीमार्कंडेय उवाच ॥
यद्येवं मुनिशार्दूल कुरुष्व वचनं मम ॥
सप्तद्वीपवतीं पृथ्वीं मा त्यक्त्वा कुत्रचिद्व्रज ॥५१॥
एतस्मात्पर्वतात्क्षेत्रं हाटकेश्वरसंज्ञितम् ॥
अस्ति नैर्ऋतदिग्भागे देशे चानर्तसंज्ञके ॥५२॥
तत्राद्यं स्थापितं लिंगं हाटकेन सुरोत्तमैः ॥
यत्तत्संकीर्त्यते लोके पाताले हाटकेश्वरम् ॥५३॥
पातालजाह्नवीतोयं यत्रैवास्ति द्विजोत्तम ॥
उद्धृते शंभुना लिंगे विनिष्क्रांतं रसातलात् ॥५४॥
तत्र प्रविश्य यत्नेन पातालं वसुधाधिपः ॥
करोतु जाह्नवीतोये स्नानं श्रद्धासमन्वितः ॥५५॥
पश्चात्पश्यतु तल्लिंगं हाटकेश्वरसंज्ञितम् ॥
भविष्यति ततः शुद्धश्चंडालत्वविवर्जितः ॥५६॥
त्वमपि प्राप्स्यसि श्रेयः परं हृदयसंस्थितम् ॥
ततोन्यदपि यत्किंचित्तत्रैव तपसि स्थितः ॥५७॥
सूत उवाच ॥
तस्य तद्वचनं श्रुत्वा विश्वामित्रो मुनीश्वरः ॥
त्रिशंकुना समायुक्तो गतस्तत्र द्रुतं ततः ॥५८॥
पाताले देवमार्गेण प्रविश्य नृपसत्तमम् ॥
त्रिशंकुं स्नापयामास विधिदृष्टेन कर्मणा ॥५९॥
स्नातमात्रोथ राजा स हाटकेश्वदर्शनात् ॥
चंडालत्वेन निर्मुक्तो बभूवार्कसमद्युतिः ॥६०॥
ततस्तं स मुनिः प्राह प्रणतं गतकल्मषम् ॥
दिष्ट्या मुक्तोसि राजेंद्र चंडालत्वेन सांप्रतम् ॥६१॥
दिष्ट्या प्राप्तः परं तेजो दिष्ट्या प्राप्तः परं तपः ॥
तस्माद्यजस्व सत्रेण विधिवद्दक्षिणावता ॥६२॥
येन संप्राप्स्यसे सिद्धिं नित्यं या हृदये स्थिता ॥
त्वत्कृते प्रार्थयिष्यामि स्वयं गत्वा पितामहम् ॥६३॥
मखांशं सर्वदेवाद्यो येन गृह्णाति ते मखे ॥
तस्मादत्रैव संभारान्सर्वान्यज्ञसमुद्भवान् ॥
आनय ब्रह्मलोकाच्च यावदागमनं मम ॥६४॥
बाढमित्येव सोऽप्याह स मुनिः संशितव्रतः ॥
पितामहमुपागम्य प्रणिपत्याब्रवीद्वचः ॥६५॥
याजयिष्याम्यहं भूपं त्रिशंकुं प्रपितामह ॥
मानुषेण शरीरेण येन गच्छति ते पदम् ॥६६॥
तस्मादागच्छ तत्र त्वं यज्ञवाटं पितामह ॥
सर्वैः सुरगणैः सार्धं शिवविष्णुपुरःसरैः ॥६७॥
प्रगृहाण स्वहस्तेन यज्ञभागं यथोचितम् ॥
सशरीरो दिवं याति येनासौ त्वत्प्रसादतः ॥६८॥
ब्रह्मोवाच ॥
न यज्ञकर्मणा स्वर्गःस्वेन कायेन लभ्यते ॥
मुक्त्वा देहांतरं ब्रह्मंस्तस्मान्मैवं वदस्व माम् ॥६९॥
वयमग्निमुखाः सर्वे हविर्गृह्णामहे मखे ॥
वेदोक्तविधिना सम्यग्यजमानहिताय वै ॥७०॥
तस्माद्वह्निमुखे भूयः स जुहोति हविर्द्विज ॥
ततः संप्राप्स्यति स्वर्गं त्वत्प्रसादादसंशयम् ॥७१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्रयां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये त्रिशंकूपाख्याने विश्वामित्रकृतत्रिशंकुयाजनोपक्रमवर्णनंनाम चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : December 18, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP