संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड|
अध्याय ४३

नागरखण्डः - अध्याय ४३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ मेनकोवाच ॥
अन्यास्ता नायिका विप्र यासां धर्मस्त्वयोदितः ॥
स्वेच्छाचारविहारिण्यो वयं वेश्या दिवौकसाम् ॥१॥
स त्वं वद महाभाग कस्माद्देशात्समागतः ॥
मम चित्तहरो वापि तीर्थे धर्मिष्ठसंश्रये ॥२॥
त्वां दृष्ट्वाहं महाभाग कामदेव समाकृतिम् ॥
पुलकांचितसर्वांगी कामबाणप्रपीडिता ॥३॥
तस्माद्भजस्व मां रक्तां नो चेद्यास्यामि संक्षयम् ॥
कामबाणप्रदग्धा वै पुरोऽपि तव तापस ॥
ततः स्त्रीवधपापेन लिप्यसे त्वं न संशयः ॥४॥
 ॥ तापस उवाच ॥
वयं व्रतधराः सुभ्रु ब्रह्मचर्यपरायणाः ॥
मूर्खाः कामविधौ भद्रे निरताः शिवशासने ॥५॥
सर्वेषां व्रतिनां मूलं ब्रह्मचर्यमुदाहृतम् ॥
विशेषाच्छिवभक्तानामेवं भूयो विधास्यसि ॥६॥
अपि वर्षशतं साग्रं यत्तपः कुरुते व्रती ॥
सकृत्स्त्रीसंगमान्नाशं याति पाशुपतस्य च ॥७॥
मां च पाशुपतं लुब्धा कस्मात्त्वं भीरु भाषसे ॥
ईदृक्पापतमं कर्म गर्हितं शिवशासने ॥८॥
यः स्त्रीं भजति पापात्मा वृथा पाशुपतव्रती ॥
सोऽतीतान्दश चाधाय पुरुषान्नरके पचेत् ॥९॥
आस्तां तावत्समा संगं संस्पर्शं च वरानने ॥
संभाषमपि पापाय स्त्रीभिः पाशुपतस्य च ॥१०॥
तस्माद् द्रुततरं गच्छ स्थानादस्माद्वरांगने ॥
यत्रावाप्स्यसि चाभीष्टं तत्र त्वं गन्तुमर्हसि ॥११॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये विश्वामित्रकुण्डोत्पत्तिवृत्तान्ते विश्वामित्रमेनकासंवादवर्णनंनाम त्रिचत्वारिंशोऽध्यायः ॥४३॥

N/A

References : N/A
Last Updated : December 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP