नागरखण्डः - अध्याय २१
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ ब्राह्मणा ऊचुः ॥
मार्कंडेन कदा तत्र स्थापितः प्रपितामहः ॥
कस्मिन्स्थाने कृतस्तेन स्वाश्रमो मुनिना वद ॥१॥
॥सूत उवाच ॥
मृकण्डाख्यो द्विजश्रेष्ठ आसीद्वेदविदां वरः ॥
चमत्कारपुराभ्याशेवानप्रस्याश्रमे स्थितः ॥२॥
शांतात्मा नियमोपेतश्चकार सुमहत्तपः ॥
तस्यैवं वर्तमानस्य वानप्रस्थस्य चाश्रमे ॥३॥
पश्चिमे वयसि प्राप्ते पुत्रो जज्ञे सुशोभनः ॥
सर्वलक्षणसंपूर्णः पूर्णचंद्रसमप्रभः ॥४॥
मार्कंड इति नामाऽथ तस्य चक्रे पिता स्वयम् ॥
सोऽतीव ववृधे बालस्तस्मिन्नाश्रम उत्तमे ॥५॥
शुक्लपक्षं समासाद्य तारापतिरिवांबरे ॥
वर्धमानस्य तस्यैवमतीताः पंच वत्सराः ॥
बालक्रीडाप्रसक्तस्य पितुरुत्सङ्गवर्तिनः ॥६॥
कस्यचित्त्वथ कालस्य कश्चित्तत्र समागतः ॥
सामुद्रिकस्य कृत्स्नस्य वेत्ता ज्ञानविधानभू_ ॥७॥
स तं शिशुं समालोक्य नखाग्रान्मूर्द्धजावधिम् ॥
विस्मयोत्फुल्लनयन ईषद्धास्यमथाऽकरोत् ॥८॥
मृकंडोऽपि समालोक्य ज्ञानिनं सस्मिताननम् ॥
पप्रच्छ विनयोपेतः किंचित्तुष्टेन चेतसा ॥९॥
॥मृकण्ड उवाच ॥
कस्मात्त्वं विप्रशार्दूल वीक्ष्येमं मम दारकम् ॥
सुचिरं विस्मयाविष्टस्ततोऽभूः सस्मिताननः ॥१०॥
॥सूत उवाच ॥
असकृत्तेन संपृष्टः सकृद्ब्राह्मणसत्तमः ॥
ततश्च कथयामास हास्यकारणमेव हि ॥११॥
॥ब्राह्मण उवाच ॥
लक्षणानि शिशोरस्य दृश्यंते यानि सन्मुने ॥
गात्रस्थानि भवेत्सत्यं तैः पुमानजरामरः ॥१२॥
अस्य भावि पुनश्चाऽस्माद्दिवसान्निधनं शिशोः ॥
षड्भिर्मासैर्न सन्देहः सत्यमेतन्मयोदितम् ॥१३॥
एवं ज्ञात्वा द्विजश्रेष्ठ कुरुष्वाऽस्य हितं च यत् ॥
इह लोके परे चैव बालकस्य ममाऽऽज्ञया ॥१४॥
एवमुक्त्वा स विप्रेंद्रो जगामाऽभीप्सितां दिशम् ॥
मृकण्डोऽपि ततस्तस्य चक्रे मौंजीनिबन्धनम् ॥१५॥
अकालेऽपि कुमारस्य किंचिद्ध्यात्वा निजे हृदि ॥
कारणं कारणज्ञः स ततः प्रोवाच तं सुतम् ॥१६॥
यं कं चिद्वीक्षसे पुत्र भ्रममाणं द्विजोत्तमम् ॥
तस्यावश्यं त्वया कार्यं विनयादभि वादनम् ॥१७॥
एवं तस्य व्रतस्थस्य षण्मासा दिवसैस्त्रिभिः ॥
हीनाः स्युर्ब्राह्मणेंद्राणां नमस्कारपरस्य च ॥१९॥
एतस्मिन्नंतरे प्राप्ता अग्नि तीर्थपरायणाः ॥
सप्तर्षयः स्थितो यत्र मार्कंडो धृतमेखलः ॥१९॥
तान्दृष्ट्वा स मुनीन्सर्वान्नमश्चक्रे मुनेः सुतः ॥
दीर्घायुर्भव तैरुक्तः सर्वैरपि पृथक्पृथक् ॥२०॥
अथ तं बालभावेन कौतुकाद्ब्रह्मचारिणः ॥
चिरं दृष्ट्वाऽब्रवीद्वाक्यं वसिष्ठो मुनिपुंगवः ॥२१॥
सर्वैरेष शिशुः प्रोक्तो दीर्घा युरिति सादरम् ॥
तृतीयेऽह्नि पुनः प्राणांस्त्यक्ष्यत्ययमसंशयः ॥२२॥
तन्न युक्तं भवेदीदृगस्माकं वचनं द्विजाः ॥
तस्मात्तत्क्रियतां कर्म येनायं स्याच्चिरायुधृक् ॥२३॥
ततो मिथः समालोच्य सर्वे ते मुनिपुंगवाः ॥
प्रोचुर्न जीवनोपायो भवेन्मुक्त्वा पितामहम् ॥२४॥
तस्मात्तस्य पुरो नीत्वा बालोऽयं क्षीणजीवितः ॥
क्रियतां तस्य वाक्येन यथा स्याच्चिरजीवभाक् ॥२५॥
ततस्तु ते समादाय सत्वरं ब्रह्मचारिणम् ॥
ब्रह्मलोकं समाजग्मुस्त्यक्त्वा तीर्थपराक्रमम् ॥२६॥
ततः प्रणम्य तं देवं वेदोक्तैः स्तवनैर्द्विजाः ॥
स्तुत्वाऽथ संविधे तस्य निषेदुस्तदनन्तरम् ॥२७॥
तेषामनंतरं सोऽपि नमश्चक्रे पितामहम् ॥
बालः प्रोक्तश्च दीर्घायुर्भवेति च स्वयंभुवा ॥२८॥
अथोवाच मुनीन्सर्वान्विश्रांतान्पद्मयोनिजः ॥
कुतो यूयं समायाताः सांप्रतं केन हेतुना ॥२९॥
प्रोच्यतां चापि यत्कृत्यं युष्माकं क्रियतेऽधुना ॥
मद्गृहे संप्रयातानां कोऽयं बालोऽपि सद्व्रती ॥३०॥
॥मुनय ऊचुः ॥
तीर्थयात्राप्रसंगेन भ्रममाणा महीतलम् ॥
चमत्कारपुराभ्याशे वयं प्राप्ताः पितामह ॥३१॥
तत्रानेन वयं देव बालकेनाऽभिवादिताः ॥
क्रमात्सर्वेरपि प्रोक्तो दीर्घायुरिति सादरम् ॥३२॥
एतस्य तु पुनः शेषमायुषो दिवसत्र यम् ॥
विद्यते विबुधश्रेष्ठ व्रीडितास्तेन वै वयम् ॥३३॥
ततश्चैनं समादाय वयं प्राप्तास्तवांतिकम् ॥
भवताऽपि तथा प्रोक्तो दीर्धायु र्बालकोऽस्त्वयम् ॥३४॥
तस्माद्यथा वयं सत्या भवता सह पद्मज ॥
भवाम कुरु तत्कृत्यमेतस्मादागता वयम् ॥३५॥
॥सूत उवाच ॥
तेषां तद्वचनं श्रुत्वा मुनीनां पद्मसंभवः ॥
प्रोवाच प्रहसन्वाक्यं समादाय च बालकम् ॥३६॥
मत्प्रसादादयं बालोजरामृत्युवि वर्जितः ॥
भविष्यति न संदेहो वेदविद्याविचक्षणः ॥३७॥
तस्मात्प्राग्धरणीपृष्ठं व्रजध्वं मुनिसत्तमाः ॥
बालमेनं समादाय तस्मिन्नेवास्य मंदिरं ॥३८॥
यावदस्य पिता वृद्धः पुत्रदर्शनविह्वलः ॥
न याति निधनं सार्धं धर्मपत्न्या द्विजोत्तमाः ॥
अथाऽऽयाताश्च तं बालं सर्वे ते मुनि सत्तमाः ॥
आगत्य वसुधापृष्ठं तस्यैवाश्रमसंनिधौ ॥४०॥
अमुंचन्नग्नितीर्थे तं समाभाष्य ततः परम् ॥
तीर्थयात्राकृते पश्चाज्जग्मुरन्यत्र सत्वरम् ॥४१॥
एतस्मिन्नंतरे विप्रो मृकंडः सुतवत्सलः ॥
नापश्यत्स्वसुतं पश्चाद्विललाप सुदुःखितः ॥४२॥
अहो मे तनयोऽभीष्टः कथमद्य न दृश्यते ॥
कूपांतः पतितः किं नु किं व्यालैर्वा निपातितः ॥४३॥
कृत्वा मां दुःखसंतप्तं मातरं चापि पुत्रकः ॥
प्रस्थितो दीर्घमध्वानं विरुद्धं कृतवान्विधिः ॥४४॥
पश्य ब्राह्मणि पापेन मया दुष्कृतकारिणा ॥
न बालस्य मुखं दृष्टं प्रस्थितस्य यमालये ॥४५॥
कथितं ज्ञानिना तेन मम पूर्वं महात्म ना ॥
षङ्भिर्मासैः सुतस्तेऽयं देहत्यागं करिष्यति ॥४६॥
सोऽहं पुत्रस्य दुःखेन साधयिष्ये हुताशनम् ॥
यावच्छोकाग्निना कायो दह्यते न वरान ने ॥४७॥
॥ब्राह्मण्युवाच ॥
ममापि मतमेतद्धि यत्त्वया परिकीर्तितम् ॥
तत्किं चिरयसि ब्रह्मञ्छीघ्रं दारूणि चानय ॥४८॥
येनाऽहं भवता सार्धं प्रवेक्ष्यामि हुताशनम् ॥
पुत्रशोकेन संतप्ता सुभृशं दुःखशांतये ॥४९॥
॥सूत उवाच ॥
एवं तयोः प्रवदतोर्दंपत्योर्द्विज सत्तमाः ॥
आजगामाऽथ संहृष्टः स बालः सन्निधिं तयोः ॥५०॥
तं दृष्ट्वा ब्राह्मणो हृष्टो ब्राह्मण्या सहितस्तदा ॥
आनंदाश्रुप्लुताक्षोऽथ सम्मुख स्तमुपाद्रवत् ॥५१॥
भूयोभूयः परिष्वज्य सभार्यः पृष्टवांस्तदा ॥
क्व गतः स्वाश्रमाद्वत्स चिरात्कस्मादिहाऽऽगतः ॥५२॥
शोकार्णवे परिक्षिप्य मां सभार्यं वयोऽधिकम् ॥
तन्मा पुत्रक भूयस्त्वमीदृक्कर्म करिष्यसि ॥५३॥
॥मार्कंडेय उवाच ॥
अत्राऽद्य मुनयः प्राप्ता मया ते चाभिवादिताः ॥
क्रमेण विनयात्तात स्मरमाणेन ते वचः ॥५४॥
दीर्घायुर्भव तैरुक्तः सर्वैरेव द्विजोत्तमैः ॥
दृष्ट्वा मां विस्मयाविष्टैर्बालकं व्रतिनं विभो ॥५५॥
अथ तात समालोक्य तेषां मध्यगतो मुनिः ॥
वसिष्ठस्तान्मुनीन्सर्वान्प्रोवाच प्रहसन्निव ॥५६॥
॥वसिष्ठ उवाच ॥
दीर्घायुर्भव यः प्रोक्तो युष्माभिर्मुनिपुंगवाः ॥
तृतीये दिवसे सोऽयं बालः पंचत्वमेष्यति ॥५७॥
ततस्ते मुनयो भीता असत्यात्तात तत्क्षणात् ॥
समादाय ययुस्तत्र यत्र ब्रह्मा व्यवस्थितः ॥५८॥
नमस्कृतेन तेनाऽपि प्रोक्तोऽहं पद्मयोनिना ॥
दीर्घायुर्भव पृष्टश्च कुतस्त्वमिह चागतः ॥५९॥
अथ तैर्मुनिभिः सर्वैर्वृत्तांतं तस्य कीर्तितम् ॥
आशीर्वादोद्भवं प्रोक्तं ततो वयमिहागताः ॥६०॥
यथाऽयं बालको देव त्वत्प्रसादात्पितामह ॥
दीर्घायुर्जायते लोके तथा त्वं कर्तुमर्हसि ॥६१॥
ततोऽहं ब्रह्मणा तात जरामरणवर्जितः ॥
विहितः प्रेषितस्तूर्णं स्वगृहं प्रति तैः समम् ॥६२॥
ते तु मां मुनयोत्रैव प्रमुच्याश्रमसन्निधौ ॥
स्नानार्थं विविशुः सर्वे ह्रदेऽत्रैव सुशोभने ॥६३॥
तच्छ्रुत्वा वचनं तस्य मृकंडो हर्षसंयुतः ॥
प्रययौ सत्वरं तत्र यत्र ते मुनयः स्थिताः ॥६४॥
प्रणम्य तान्मुनीन्सर्वान्कृताञ्जलिपुटः स्थितः ॥
प्रोवाच वः प्रसादेन कुलं मे वृद्धिमागतम् ॥६५॥
साधु प्रोक्तमिदं कैश्चिदाचार्यैर्मुनिसत्तमाः ॥
साधुलोकं समाश्रित्य विख्यातं च जगत्त्रये ॥६६॥
साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः ॥
तीर्थं फलति कालेन सद्यः साधुसमागमः ॥६७॥
तस्मादतिथयः प्राप्ता यूयं सर्वेऽद्य मे गृहम् ॥
प्रकरोमि किमातिथ्यं प्रोच्यतां द्विजसत्तमाः ॥६८॥
॥ऋषय ऊचुः ॥
एतदेव मुनेऽस्माकमातिथ्यं कोटिसंमितम् ॥
अल्पायुरपि ते बालो यज्जातो मृत्युवर्जितः ॥६९॥
॥मृकण्ड उवाच ॥
मृत्युनाऽऽलिंगितं बालमस्मदीयं मुनीश्वराः ॥
भवद्भिरद्य संरक्ष्य कुलं कृत्स्नं समुद्धृतम् ॥७०॥
ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते तथा ॥
निष्कृतिर्विहिता सद्भिः कृतघ्ने नाऽस्ति निष्कृतिः ॥७१॥
तस्मात्कृतघ्नतादोषो न स्यान्मम मुनीश्वराः ॥
यथा कार्यं भवद्भिश्च तथा सर्वैर्न संशयः ॥७२॥
॥ऋषय ऊचुः ॥
यदि प्रत्युपकाराय मन्यसे त्वं द्विजोत्तम ॥
गृहं कुरुष्व नो वाक्याद्देवस्य परमेष्ठिनः ॥७३॥
येनाऽयं बालकस्तेऽद्य कृतो मृत्युविवर्जितः ॥
तस्मात्स्थापय तीर्थेन देवं तं प्रपितामहम् ॥७४॥
पुत्रेण सहितः पश्चादाराधय दिवानिशम् ॥
वयमेव त्वया सार्धं तं च देवं पितामहम् ॥७५॥
नित्यं प्रपूजयिष्यामस्तथान्येऽपि द्विजोत्तमाः ॥
बालेनाऽनेन सार्धं ते सख्यमत्र स्थितं यतः ॥
बालसख्यमिति ख्यातं नाम्ना तेन भविष्यति ॥७६॥
तीर्थमन्यैरिति ख्यातं बालकानां हितावहम् ॥
रोगार्तानां भयार्तानामस्माकं वचनात्सदा ॥७७॥
अस्मिंस्तीर्थे शिशुं लोकाः स्नापयिष्यंति ये द्विज ॥
रोगार्तं वा भयार्तं वा पीडितं वा ग्रहादिभिः ॥७८॥
भविष्यति न संदेहः सर्वदोषविवर्जितः ॥
पितामहप्रसादेन तथाऽस्मद्वचनाद्द्विज ॥७९॥
ये पुनर्मानुषा विप्र निष्कामाः श्रद्धयान्विताः ॥
स्नानमात्रं करिष्यंति ते यांति परमां गतिम् ॥८०॥
एवमुक्त्वाथ ते सर्वे मुनयः शंसितव्रताः ॥
तमामंत्र्य मुनिं जग्मुस्तीर्थान्यन्यानि सत्वराः ॥८१॥
मृकण्डोऽपि सपुत्रश्च तस्मिन्स्थाने पितामहम् ॥
स्थापयामास संहृष्टो ज्येष्ठे ज्येष्ठास्थिते विधौ ॥८२॥
ततश्चाऽऽराधयामास दिवारात्रमतंद्रितः ॥
सपुत्रः श्रद्धया युक्तः संप्राप्तश्च परां गतिम् ॥८३॥
॥सूत उवाच ॥
ततःप्रभृति तत्तीर्थं बालसख्यमिति स्मृतम् ॥
पावनं सर्वजंतूनां बालानां रोगनाशनम् ॥८४॥
ज्येष्ठे ज्येष्ठासु यो बालस्तत्र स्नानं समाचरेत् ॥
न स पीडामवाप्नोति यावत्संवत्सरं द्विजाः ॥८५॥
ग्रहभूतपिशाचानां शाकिनीनां विशेषतः ॥
अगम्यः सर्वदुष्टानां तथाऽन्येषां प्रजायते ॥८६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये बालसख्यतीर्थमाहात्म्यवर्णनंनामैकविंशोऽध्यायः ॥२१॥
N/A
References : N/A
Last Updated : December 21, 2024
TOP