मग्ने मेरौ पतति तपने तोयबिन्दाविवेन्दावन्तर्लीने जलधिसलिले व्याकुले देवलोके ।
मात्स्यं रूपं मुखपुटतटाकृष्टनिर्मुक्तवर्धि श्रीकान्तस्य स्थलजलगतं वेत्यलक्ष्यं पुनातु ॥१॥
मायामीनतनोस्तनोतु भवतां पुण्यानि पङ्कस्थितिः पुच्छाच्छोटसमुच्छलज्जलगुरुप्राग्भाररिक्तोदधेः ।
पातालावटमध्यसंकटतया पर्याप्तकष्टस्थितेर्वेदोद्वारपरायणस्य सततं नारायणस्य प्रभोः ॥२॥
इति मत्स्यावतारस्तोत्रम्