न पंकैरालेपं कलयति धरित्री व्ययभयान्न मुस्तामादत्तेऽप्युरगनगरभ्रंशभयतः ॥
न धत्ते ब्रह्माण्डस्फुटनभयतो घर्घररवं महाक्रोडः पायादिति च संकोचितमुखः ॥१॥
न मृद्नीयान्मृद्बीक थमिव मही पोत्रनिकषैर्मुखा-ग्निज्वालाभिः कनकगिरिरीयान्न विलयम् ॥
न शुष्येयुः श्वासैः सलिलर्निधयः सप्त च कथं वराहो वः पायादिति विपुलचिन्तापरिकरः ॥२॥
पातु श्रीस्तनपत्रभङ्गिमकरीमुद्राङ्कितोरःस्थलो देवो वः स जगत्पतिर्मधुवधूवकत्राब्जचन्द्रोदयः ॥
क्रीडाक्रीडतनोर्नवेन्दुविशदे दंष्ट्रांकुरे यस्य भूर्भातिस्म प्रलयाब्धिपल्वलतलोख्तातैकमुस्ताकृतिः ॥३॥
अष्टौ यस्य दिशो दलानि विपुलः कोशः सुवर्णाचलः कान्तं केसरजालमर्ककिरणा भृङ्गा पयोदावली ॥
नालं शेषमहोरगः प्रविततं वारांनिधेर्लीलया तद्वः पातु समुद्धरन्कुवलयं क्रीडाकृतिः केशवः ॥४॥
भूयादेष सतां हिताय भगवान्कोलावतारो हरिः सिन्धोः क्लेशमपास्य यस्य दशनप्रान्ते नटन्त्या भुवः ॥
तारा हारति वारिदस्तिलकति स्वर्वाहिनी माल्यति क्रीडा दर्पणति क्षपापतिरहर्देवश्च ताटङ्कति ॥५॥
इति वराहस्तुतिः ।