श्रीधाम्नि दुग्धोदपुण्डरीके यश्चंचरीकद्युतिमातनोति ॥
नीलोत्पलश्यामलदेहकातिः स वोऽस्तु भूत्यै भगवान् मुकुन्दः ॥१॥
वक्षस्थली रक्षतु सा जगन्ति जगत्प्रसूतेर्गरुडध्वजस्य ॥
श्रियोऽङ्गरागेण विभाव्यते या सौभाग्यहेम्नः कषपट्टिकेव ॥२॥
वृन्दारका यस्य भवन्ति भृङ्गा मन्दाकिनी यन्मकरन्दबिंदुः ॥
तवारविंदाक्ष पदारविंदं वंदे चतुर्वर्गचतुष्पदं तत् ॥३॥
जयत्युपेंद्रः स चकार दूरतो बिभित्सया यः क्षणलब्धलक्ष्यया ॥
दृशैव कोपारुणया रिपोरुरः स्वयं भयाद्भिन्नमिवास्तपाटलम् ॥४॥
पद्मापयोधरतटीपरिरम्भलग्नकाश्मीरमुद्रितमुरो मधुसूदनस्य ॥
व्यक्तानुरागमिव खेलदनङ्गखेदस्वेदाम्बुपूर्मनुपूरयतु प्रियं वः ॥५॥
इति कमलनयनस्तुतिः ।