हंहो मीनतनो हरे किमुदधे कि वेपसे शैत्यतः स्विन्नः किं वडवानलात्पुलकितः कस्मात्स्वभावादहम् ॥
इत्थं सागरकन्यकामुखशशिव्यालोकने नाधिकप्रोद्यत्कामजचिह्ननिह्नतिपरः शौरिः शिवायास्तु वः ॥१॥
पुच्छं चेदहमुन्नयाम्यनवधिस्तुच्छो भवेदम्बुधिह क्रीडां चेत्कलये मनागपि जले पाडा परं यादसाम् ॥
निस्पन्दो भृशमामृशन्निति भरब्रह्माण्डबाण्डक्षयक्षामाकुंचितवेश एष भगवान् प्रीणातु मीनाकृतिः ॥२॥
यं दृष्ट्वा मीनरूपं स्फुरदनलशिखायुक्तसंरक्तनेत्रं लोलद्विस्तीर्णकर्णक्षुभितजलनिधिं नीलजीमूतवर्णम् ॥
श्वासोच्छ्वासानिलौघैः प्रचलितगगनं पीतवारिं मुरारिं दिङ्मूढोऽभूत्सशंखः स भवतु भवतां भूतये मीनरूपः ॥३॥
दिङ्मूढं तं सुरारिं किल शितदशनैः पीड्यमानं रटन्तं ह्रत्वा तीरे पयोधेः करतलकलितं पूरयामास शंखम् ॥
नादेनाक्षोभ्य विश्वं प्रमुदितविबुधं त्रस्तदैत्यं स देवेर्दत्तार्घः पद्मयोनेः प्रहसितवदनः पातु वो दत्तवेदः ॥४॥
इति मीवपुधारिभगवत्स्तुतिः ।