यस्मिन्न् उदयति विकसति कमलम् इवास्तं प्रयाति संकुचति ।
सचराचरं त्रिभुवनं स जयति किरणालयः सविता ॥
यक्षेशमेधेन विजित्य धात्रीम् इत्य् एवम् अभ्युद्यमिनो नृपस्य ।
विनिघ्नतो विघ्नकरान् न पापं क्रियात् क्रमेणैव पशून् मखेषु ॥
उत्साहमन्त्रप्रभुशक्तियुक्तो धीमान् विनीतेन्द्रियभृत्यवर्गः ।
प्रजानुरक्तो धृतिमान् सहिष्णुर् वृद्धोपसेवी विजिगीषुर् इष्टः ॥
साम्वत्सरस् तस्य विनीतवेषो धीमान् स्वतन्त्राङ्गपटुः कुलीनः ।
दक्षः प्रगल्भो ऽविकलो विनीतस् तादृग् विधस्तस्य पुरोहितो ऽपि ॥
तस्य दैवनरकारसमेतां वर्णयन्ति कवयः फलसिद्धिम् ।
तत्र केचिद् अवधूय नृकारं दैवम् एव फलदायकम् आहुः ॥
लब्धव्यान्य् एव लभ्यते गन्तव्यान्य् एव गच्छति ।
प्राप्तव्यान्य् एव प्राप्रोति दुःखानि च सुखानि च ॥
उत्थानाच् चेद् भवेत् सिद्धिर् न कश्चित् प्राप्नुयात् फलम् ।
अहोरात्रं विचेष्टन्तो दृश्यन्ते वृत्तिकर्शिताः ॥
विहङ्ग इव वधो हि (स्यात् ) निपत्यार्यमनीश्वरः ।
विधानविहितो ऽदेश्यो नान्येषां नात्मनः प्रभुः ॥
तस्माद् दैवं प्रधानं हि न कुर्यात् कर्म मानुषम् ।
निश्चेष्टम् अपि लोके ऽस्मिन् भजते भुक्तिर् उत्तमा ॥
आघातदुर्जयनयं परिभूय दैवम् आत्माभिमानचपलाः प्रचरन्ति ये ऽरीन् ।
तेषां चिराद् अपि कृतान्तमहापशूनां हस्तग्रहं न समुपैति जितापि लक्ष्मी ॥
तथा परे नापेक्स्यैव दैवं दैर्यावलम्बिनः ।
प्रत्येक्षिनः क्रियासिद्धौ केवलं जगुर् उद्यमम् ॥
उत्थानहीनो राजा हि बुद्धिमान् अपि सर्वदा ।
प्रधर्षनीयः शत्रूणां भुजङ्ग इव निर्विषः ॥
उत्थानधीरः पुरुषो वाग्धीरान् अधितिष्ठति ।
उत्थानधीरं वाग्धीरा रमयन्त उपास्यन्ते ॥
विधानगणनाजडः पुरुषकारसुप्तादरो
मनोरथपरिश्रमैर् न परिचुम्बति श्रीमुखम् ।
पराक्रमविनिश्चितैकसुनयो हि सद्यः श्रुतं
हरिर् मदसुवासितं पिबति कुंजराश्रुं मधु ॥
कृषिवृष्टिसमानुगा दृश्यन्ते फलसिद्धयः ।
अस्मिन्न् अर्थे शृणु श्लोकान् द्विपायनमुखोद्गतान् ॥
न विना मानुषं दैवं दैवं वा मानुषं विना ।
नैकं निर्वर्तयत्य् अर्थम् एकारणिरिवानलम् ॥
सिद्ध्यन्ते सर्व आरम्भाः संयोगात् कर्मणो ऽर्द्ध्योः ।
दैवात् पुरुसकाराच् च न त्व् एकस्मात् कथाज्चन ॥
अनुशास्ति नरं दैवम् इहास्येत्य् अनुशासकः ।
इह नास्य भविष्यामि कुतः फलमनीहितम् ॥
यत्नेन सम्पद्य मनुष्यकारं यत्नावकाशे पुरुषो निरुद्धः ।
प्रतीक्षते दैवमतं द्वितीयस् तम् आपदो नात्मकृताः स्पृशन्ति ॥
सत्त्वार्जितं कर्मफलं सुखेन विपक्ष्यते राजसमुद्यमे [न ] ।
कृच्छ्रेण शेषं महता यतो ऽतो भाज्यानि मृग्याणि नृभिर् नृकारैः ॥