यात्राकालम् अतः परं मुनिमतान्य् आलोक्य संख्यापया -
(म्य)भ्युद्धुष्य पृथूक्तम् अक्षरगुरौ सम्पन्न्नम् ईशं भुवः ।
ज्ञाते जन्मनि तस्य यानसमयं वांछन्ति होराविदस्
त्व् अज्ञाते ऽप्य् अफलेषु नाक्षरम् इव प्राहात्र रत्नावलिम् ॥
विदिते होराराशौ स्थानबलपरिग्रहे ग्रहाणां च ।
आयुषि च परिज्ञाते शुभम् अशुभं वा फलं वाच्यम् ॥
अन्ये वदन्त्य् अविदिते (त्व )पि जन्मकाले
योग्यः प्रयाणसमयो मनुजेश्वराणाम् ।
प्रश्नोदयोद्भवफल् (आन्वित )सिद्धिभाग्यस्
तत्त्वार्थविन्निग (द )ति स्म वचो वशिष्ठः ॥
अपृच्छतः पृच्छतो वा यियासोर् यस्य कस्य चित् ।
होराकेन्द्रत्रिकोणेभ्यस् तस्य विन्द्याच् छुभाशुभम् ॥
दैवज्ञस्य हि दैवेन सदसत्फलवांछतः ।
अवशो गोचरं मर्त्यः सर्वः समुपनीयते ॥
अश्रौषीच् च पुरा विष्णोर् ज्ञानार्थं समुपस्थितः ।
वचनं लोकनाथस्य निःसृतं मुखपङ्कजात् ॥
यत् सारं पृच्छतः पुंसो ग्रहरा (श्या )श्रितं फलम् ।
तत्सारं तस्य जन्म स्याद् य (द्य )प्य् अन्यगृहे भवेत् ॥
बुध्वा शास्त्रं यथान्यायं बलाबलविधानतः ।
यथोक्तं जातके सर्वं तथैवात्रापि चिन्तयेत् ॥
तस्मान् नृपः कुसुमरत्नफलाग्रहस्तः
प्रातः प्रणम्य रवये हरिदिङ्मुखस्थः ।
होराङ्गशास्त्रकुशलान् हितकारिणश् च
संहृत्य दैवगणकान् सकृद् एव पृच्छेत ॥
अथ नृपतिसमीपे दैववित् पृष्टमात्रह्
फलम् उद्यनिमित्तैस् तर्कयेच् छास्त्रदृष्ट्या ।
सद् इति सदसि वाच्यं यद्य् अपि स्याद् असत् तत्
स्फुटम् पै कथनीयं भूभुजे मन्त्रिणे वा ॥
सुमधुरफलपुष्पक्षीरवृक्षावृतायां
चरणगतिसुखायां गोशकृत्पेयवत्याम् ।
सलिलकुसुमवत्यां स्नानिनो भद्रमूर्ध्वं
ग्रहभगणगतिज्ञः प्रादिशेत् पृच्छकस्य ॥
स्तनचरणतलौष्ठाङ्गुष्ठहस्तोपराङ्गं
श्रवणवदननासागुह्यरन्ध्राणि भूपः ।
स्पृशति यदि कराग्रैर् गण्डकट्यंसकं वा
प्रवदति शुभशब्दं वाहिनी शास्ति शत्रून् ॥
उदयम् उदयपं वा जन्मभं जन्मपं वा
तद् उपचयगृहं वा वीक्ष्य लग्ने यियासोः ।
विनिहतम् अरिपक्षं विद्धि शत्रोर् इदं वा
यदि हिबुकसमेतं पृच्छतो ऽस्तस्थितं वा ॥
पार्ष्णिग्राहः पृष्ठतो भास्करस्य प्राग् यातव्यस्तिग्मरश्मेश् च यानः ।
आक्रन्दार्कात् सप्तमे यः स्थितश् च तत्तुल्यास्ते शक्तितश् चिन्तयीयाः ॥
जीवज्ञार्कसितापरैः सुतसुहृद्दुश्चित्कलग्नायगैः
सिद्धार्थो ऽरिगणान् विजित्य न चिरात् प्रष्टा समेत्यालयम् ।
लग्ने वा कुजमन्दयोः सुतगते जीवे रवौ कर्मगे
लाभे कर्मणि वा सितेन्दुसुतयोः प्रष्टुर् जयो निश्चितः ॥
तस्मिन्न् एव भवेद् योगे यदि शुक्रो ऽष्टम् आश्रितः ।
प्रष्टारम् उद्यमाद् एव हतशक्तिर् विशस्त्य् अरिः ॥
गुर्वर्कशशिभिः सिद्धिर् लग्नारिदशमस्थितैः ।
तद्वल् लग्नारिरन्ध्रस्थैर्जीवशुक्रदिवाकरैः ॥
सचिवाप्तिर् गुरावाये कर्मण्य् असितवक्रयोः ।
चतुर्थे ज्ञे ऽष्टमे चन्द्रे जायास्थे च सिते जयः ॥
कर्मण्य् आरे रवावाये तृतीयस्थे ऽर्कनन्दने ।
चन्द्रे षष्ठे विलग्नस्थैः शेषैः प्रष्टुर्ध्रुवो जयः ॥
सहजे ऽर्कार्किभूपुत्रैः सौम्यैर् लग्नगतैर् जयः ।
गुरौ वा लग्नगे पापैर् लाभे कर्मणि वा स्थितैः ॥
माहेयम (न्द )योः षष्ठे लग्ने गुरुशशाङ्कयोः ।
सितचन्द्रजयोर् अन्ते जयः कर्मणि तीक्ष्णगौ ॥
इत्य् योगाः शुभाः प्रोक्ताः प्रश्नकाले जयाश्रिताः ।
अशुभास् तु भवन्त्य् अत्र तान् प्रवक्ष्याम्य् अतः परम् ॥
युद्धे भङ्गो यमेन्द्वारैर् नवमात्मजलग्नगैः ।
शशाङ्कयमयोर् लग्ने मृत्युर् भूसुतदृष्टयोः ॥
सवक्रे निधने मन्दे मृत्युर् लग्ने दिवाकरे ।
चन्द्रे ऽस्मिन् त्र्यायमृत्युस्थे ससूर्ये वा वदेद् वधम् ॥
वक्रज्ञशशिभिर् द्यूने प्रष्टुर् नाशो ऽपि गच्छतः ।
क्षुन्माराशत्रुवृद्धिश् च लग्ने माहेयशुक्रयोः ॥
चन्द्रावनीजयोर् मूर्तौ षष्ठे शशिजशुक्रयोः ।
निधनस्थे सहस्रांशौ विज्ञेयो मन्त्रिणो वधः ॥
तनयस्य वधः प्रष्टुः पापैर् उदयपुत्रगैः ।
सचन्द्रे रुधिरे लग्ने भङ्गः सूर्यात्मजेक्षिते ॥
द्यूननैधनगे चन्द्रे लग्नं याते दिवाकरे ।
विपर्यये वा यातस्य त्रासभङ्गवधागमः ॥
द्वित्रिकेन्द्रस्थितैः पापैः सौम्यैश् च बलवर्जितैः ।
अष्टमस्थे निशानाथे प्रष्टुर् बन्धवधात्ययाः ॥
कुजचन्द्रमसोर् द्यूने स्वभेदो ऽर्कबुधोदये ।
तद्वन् मन्दारयोर् युद्धे भङ्गः सौम्यार्कयोस् तथा ॥
सर्वैस् तु नवमे राजा हन्ति मन्त्रिपुरोहितान् ।
योगे ऽस्मिन्न् उदये चन्द्रे सुतस्थपतिदेशिकान् ॥
अर्कार्कसुतयोर् लग्ने दृष्टयोः क्षितिसूनुना ।
चन्द्रे ऽस्ते विबलैः सौम्यैः प्रष्टुः सेनापतेर् वधः ॥
विधने वक्रयमयोश्चन्द्रे ऽस्ते लग्नगे रवौ ।
ज्ञे तृतीये च विक्रम्य समन्त्री हन्यते नृपः ॥
मूर्घोदयं शुभसुहृद्युतवीक्षितं वा
लग्नं शुभाश् च बलिनः शुभवर्गलग्ने ।
सिद्धिप्रदं भवति नेष्टम् अतो ऽन्यथा तज्
जन्मप्रयाणफलयुक्तिभिर् अन्यद् उद्यम् ॥
निधनहिबुकहोरासप्तमार्थेषु पापा
न शुभफलकराः स्युः पृच्छतां मानवानाम् ।
दशमभवनयुक्तेष्व् एषु सौम्याः प्रशस्ताः
सदसद् इदम् अशेषं यानकाले ऽपि चिन्त्यम् ॥