क्षीरैकतरुनगार्णवतूलनदीसङ्गमाः सरः शोष्यम् ।
गोस्थानपटुसुरालयरुचिराः स्नानप्रदेशाः स्युः ॥
समगम्भीरानूषरशाड्वलभूमौ प्रदक्षिणजलायाम् ।
काष्ठारश्मिप्रमितं वास्तु लिखेत् सर्वतो भद्रम् ॥
सर्वैर् धान्यैस् तिलमुद्गमाषचणकातसीपरिश्लिष्टम् ।
अच्छिन्नाग्रैर् दर्भैः कुशैः स (मस्ता )त् परिस्तीर्णम् ॥
रजतमणिहेमगर्भैः सक्षीरप्रवालसितसूत्रै (श् च ) ।
कलशैः कालमूलैश् च शोभितद्वारं (तन्मध्ये ) ॥
तन्मध्ये ब्राह्मी ब्रह्मा साम दूर्वाग्रशंखपुष्पाः स्युः ।
दिङ्मुखम् अरत्नितुङ्गं स्थाप्यं पीनं सप्रवेष्टम् ॥
तस्य ग्रहानुलोमं कालं केचिज् जगुर् निषेवेत ।
पुरोघ ....... षाष्टिकयवपायसाहारम् ॥
अभिमतदेवकृतमनाः पूर्वद्वारेण पार्थिवः प्रविशेत् ।
भद्रासनं प्रदक्षिणम् अध्यासित्वाथ तस्य विधिः ॥
प्रियङ्गुसिद्धर्थकनागदानगोरोचनाक्षैर् घृतैः समेतैः ।
प्राग् आत्मरक्षा प्रतिचक्रपूतैः स्नानोन्मुखस्यावनिपस्य कार्या ॥
श्वेतस्य बभ्रोर् अथवा वृषस्य चर्मास्तरे व्याघ्रमृगेन्द्रयोर् वा ।
तत्स्थस्य कुर्यान् मनुजेश्वरस्य जयाभिषेकं विधिवत् पुरोधाः ॥
क्रमान् महीरूप्यसुवर्णकुम्भैः क्षीरस्य दध्नो हविषश् च पूर्णैः ।
स्नायाच् च तोयैः सह सप्तमृद्भिः पश्चाच् च सर्वौषधिगन्धतोयैः ॥
परिजप्य महारौहिणकुष्माण्डकुवेरहृदयरुद्रगणैः ॥
अभिषेचयेन् नरेन्द्रं पुरोहितो ऽस्मिन् समृध्द्या च ॥
द्वात्रिंशतिं षोडश वाथवाष्टौ घटप्रमाणं मुनिभिः प्रदिष्टम् ।
स्नातस् त्व् अलङ्कारम् अपास्य पूर्वं नवं विदध्याद् द्विजमन्त्रपूर्तम् ॥
मागघबन्दिसुहृद्द्विजसूतैर् अभिमतवाक्कृतमङ्गलकुशलः ।
चर्मसु चोपविशेद् अभिषिक्तः पृषतगजेन्द्रविडालवृकाणाम् ॥
गृहीतधूपाम्बरमाल्यगन्धस् त्रिर् भ्रामयित्वोपरि चौषधींश् च ।
वामे ऽस्य पार्श्वे ऽग्रत आस्थितो वा प्रतीपपातं जुहुयाद् धुताशम् ॥
गोरोचनाहेमफलानि सर्पिर्ब्राह्मीं सदूर्वां सितसर्षपांश् च ।
आसेव्य सर्वाणि यथोपदेशं भक्त्या द्विजान् स्वस्ति च वाचयित्वा ॥
सौम्येन यायात् फलपुष्पपाणिर् द्वारेण पश्येन् न च पौरुहूतम् ।
प्राग् उद्धरेद् दक्षिणपादम् एवं कुर्वन् नृपः सर्वरिपून् प्रशास्ति ॥