मा भूत् प्रसङ्गाद् अतिविस्तरो ऽत्र गजाश्वपुंलक्षणदर्शनेषु ।
निमित्तमात्रं कथयाम्य् अतो ऽहं प्रयाणकालोपयिकं नृपाणाम् ॥
ताम्रौष्ठतालुवदनाः कलविङ्कनेत्राः स्निग्धोन्नताग्रदशनाः पृथुलायतास्याः ।
चापोन्नतायतनिगूढनिमग्नवंशास् तन्वेकरोमचितकूर्मसमानकुम्भाः ॥
विस्तीर्णकर्णहनुनाभिललाटगुह्याः कूर्मोन्नतैर्ओओत्नोते {ष् .ब् कूर्मोन्नत -} द्विनवविंशतिभिर् नखैश् च ।
रेखात्रयोपचितवृत्तकराः सजलाम्भोदनिनादवृंहिणःओओत्नोते {ष् .द् धन्याः सुगन्धिमदपुष्करमारुताश् च } ।
दीर्घाङ्गुलिरक्तपुष्कराः सजलाम्भोदनिनादवृंहिःः ।
बृहदायतवृत्तकंधरा धन्या भूमिपतेर् मताङ्गजाःओओत्नोते {ष् .द् मतङ्गजाः } ॥
निर्मदाभ्यधिकहीननखाङ्गान् कुब्जवामनकमेषविषाणाम् ।
दृश्यकोशफलपुष्करहीनान् श्यावनीलशवलसिततालून् ॥
स्वल्पवक्त्ररुहमत्कुणखण्डान् हस्तिनीं च गजलक्षणयुक्ताम् ।
गर्भिणीं च नृपतिः परदेशं प्रापयेद् अतिविरूपफलास् ते ॥
दन्तमूलपरिणाहदीर्घतां द्विः प्रमुच्य परतो ऽस्य कल्पयेत् ।
श्यावापूतिमलरक्तदर्शनं पापसत्त्वसदृशं च पापदम् ॥
पार्थिवोपकरणाकृतिं यदा चिह्नम् उद्वहति कल्पिते रदे ।
श्रीजयार्थबलवृद्धयस् तदा स्निग्धशुक्लरुचिराश् च शोभनाः ॥
दक्षिणे शुभम् अतीव शोभनं पापम् अप्य् अतिविरूपम् अन्यतः ।
याप्यता भवति तद्विपर्यये विस्तरो ऽन्यमुनिभिः प्रकीर्तितः ॥
मूलमध्यदशनाग्रसंस्थिता देवदैत्यमनुजाः क्रमात् ततः ।
स्फीतमध्यपरिपेलवं फलं शीघ्रमध्यचिरकालसम्भवम् ॥
दन्तभङ्गफलम् अत्र दक्षिणे भूपदेशबलविद्रवप्रदम् ।
वामतः सुतपुरोहितेभयान् हन्ति साटविकदारनायकान् ॥
आदिशेद् उभयभङ्गदर्शनात् पार्थिवस्य सकलं कुलक्षयम् ।
सौम्यलग्नतिथिभादिभिः शुभं वर्धते ऽशुभम् अतो ऽन्यथा भवेत् ॥
क्षीरवृक्षफलपुष्पपादपेष्व् आपगातटविघट्टनेनओओत्नोते {ष् .ब् éġविघट्टितेन } वा ।
वाममध्यरदभङ्गखण्डने शत्रुनाशकृद् अतो ऽन्यथापरम् ॥
स्खलितगतिर् अकस्मात् त्रस्तकर्णो ऽतिदीनः श्वसिति मृदु सुदीर्घं न्यस्तहस्तः पृथिव्याम् ।
द्रुतमुकुलितदृष्टिः स्वप्नशीलो विलोमो भयकृद् अहितभक्षी नैकशो ऽसृच्छकृत्कृत् ॥
वल्मीकस्थाणुगुल्मक्षुपतरुमथनः स्वेच्छया दृष्टदृष्टिर्
यायाद् यात्रानुलोमं त्वरितपदगतिर् वक्त्रम् उन्नाम्य चोच्चैः ।
कक्षासन्नाहकाले जनयति च मुहुः शीकरं वृंहितं वा
तत्कालं वा मदाप्तिर् जयकृद् अथ रदं वेष्टयन् दक्षिणं च ॥