ऊर्ध्वा तिर्यग् वानता स्याच् च होरा मुक्ता क्रान्ता नागतार्का क्रमेण ।
इत्य् एताः स्युर् जीवशर्मोपदेशे ज्ञेयो राशिर् ब्रह्मषण्डस्य पक्षे ॥
ऊर्ध्वा स्याद् या षट्चराद्येषु होरा भूयो भूयो मण्डले कैश्चिद् उक्ता ।
राशौ राशौ प्राग्विलग्नोपयातैः द्रेक्काणैस् तु प्राह होरां वसिष्ठः ॥
सर्वं प्रमाणं मुनिचोदितत्वात् किं त्व् अत्र योज्यं दलम् एव होरा ।
यस्मिन् सहस्रांशुरवस्थितो ऽर्धे तिर्यङ्मुखी सा गणये ततो ऽन्याः ॥
धत्ते वांछितकार्यम् ऊर्ध्ववदना क्लेशाद् विना लग्नगा
क्लेशायासपरिक्षयांश् च कुरुते तिर्यङ्मुखी गच्छतः ।
सैन्यभ्रंशम् अधोमुखी प्रकुरुते कृच्छ्राद् गृहे चागमं
स्र्वाः पुष्टफलप्रदाः स्वपतिना दृष्टा न पापग्रहैः ॥
ग्रहदिवसफलं यद् एव यातुर् तद् अखिलम् एव करोति तस्य होरा ।
हिमसलिलसृजो विनाह कश्चिद् युवतिसमाश्रयरत्नदेति चान्द्री ॥
द्रेक्काणाकारचेष्टागुणसदृशफलं योजयेद् वृद्धिहेतोर्
द्रेक्काणे सौम्यरूपे कुसुमफलयुते रत्नभाण्डान्विते च ।
सौम्यैर् दृष्टे जयः स्यात् प्रहरणसहिते पापदृष्टे च भङ्गः
साग्नौ दाहो ऽथ बन्धः सभुजगनिगले पाशयुक्ते च यातुः ॥
नृपभूर्तिर् लग्नगते द्रेक्काणे मन्त्रिणो द्वितीये च ।
वैद्यपुरोहितसाम्बत्सरास् तृतीये परे भृत्याः ॥
स्थानपराक्रमचिन्ता व्यापारपराक्रमौ चमूपबलम् ।
अभ्यवहार्यं शयनासने च तत्पंचसु क्रमशः ॥
यानासनशय्यावाहनानि दशमे ऽपरे ऽन्नपानानि ।
वाहनयोधाः परतस् त्रयोदशे भवति युवराजा ॥
ज्ञेयं बलं प्रयातुर् मन्त्रस्य विनिश्चयश् च तत्परतह् ।
तरतः पञ्चदशाद्ये द्रेक्काणचतुष्टये रिपवः ॥
एकोनविंशके सैनिकाम्बुशयने धनानि परतो ऽर्थाः ।
परतो ऽस्य दण्डनेता सैम्यस्योपद्रवः प्ररतः ॥
सेनाच्छिद्रं तस्मात् सेनानेता भवेच् चतुर्विंशे ।
सैन्यारोग्यं सैन्यं चतुष्पदं च क्रमात् त्रितये ॥
कार्यं कोशः फलसिद्धयस् त्रये भूमिपास् त्रये परतः ।
धर्मक्रियाथ योधार्चनं च यात्रासमाप्तिश् च ॥
इत्य् उदयाद्या भावा द्रेक्काणैर् ये मया समुद्दिष्टाः ।
सदसत्फलम् आदेश्यं सदसद्युतवीक्षणात् तेषाम् ॥
नवभागे तिग्मांशोर्वाहननाशो विलग्नसंप्राप्ते ।
कृच्छ्रात् स्वगृहागमनं प्रतापमृदुता च चन्द्रांशे ॥
कौजे ऽग्निभयं बौधे मित्रप्राप्तिर् धनागमो जैवे ।
भोगविवृद्धिः शौक्रे भृत्यविनाशो रविसुतांशे ॥
यद् उदयति फलं ग्रहे प्रदिष्टं जनयति तस्य नवांशको व्लग्ने ।
सुभभवननवांशे सहायो रिपुबलभागम् उपैति यातुर् अत्र ॥
यत् प्रोक्तं राश्य् उदये द्वादशभागे ऽपि तत् फलं वाच्यम् ।
यच् च नवांशकविहितं त्रिंशांशस्योदये तत् स्यात् ॥