व्यसनं प्राप्नो (ति ) महद् व्यतिपाते निर्गतो ऽथवा मृत्युम् ।
वैधृतिगमने ऽप्य् एवं त्र्यह्नस्पृशि समुपदिशान्त्य् एव ॥
नावमरात्रे यायाद् दोषस् तत्राधिमासके व्यसनम् ।
ऋत्वयनयुगस्याप्तौ न विजयकाङ्क्षी नृपः प्रवसेत् ॥
स्वर्क्षेशदशाधिपयोर् मित्रोदासीनशत्रुभांशभवाः ।
तत्पाकभुजश् चोक्ता विजिगीषोर् मित्रमध्यरिपवः ॥
रिक्तानिष्टदशो ऽरिर् नियमाद् विजिगीषुणा समुच्छेद्यः ।
अवरोहिदशः पीड्यः कर्षयितव्यस् तथारोही ॥
न सदृशदशो ऽभियोज्यः सन्धानं तेन भूपतेर् व्यासम् ।
अशुभैष्यासन्नदशः शुभैष्यपाकेन सन्दध्यात् ॥
श्रेयान् विपर्यये विग्रहस् तथारोहिण्य् अशुभैष्यदशः ।
आसीत यदा शत्रुः शुभैष्यपाके विदूरस्थः ॥
आरोहिशुभैष्यदशः पाकपतौ बलयुते च भूपालः ।
यायात् तद्विपरीतं द्वैधीभावं तु मिश्रदशः ॥
रिक्तोपहतदशायां जन्मोदयनाथशत्रुपाके च ।
स्वदशेशकारकदशः संश्रयणीयो नराधिपतिः ॥
उपचयकर्तुर् व्रजेद् दिशं बलवति कण्टकगे च दिक्पतौ ।
मनसापि न दिग्बलान्विते दिगधिपतौ च ललाटसंस्थिते ॥
जन्मोदयपौ बलान्विताव् उपचयकण्टकगौ शुभप्रदौ ।
क्रूराव् अपि नित्यम् एव तौ सौम्यैर् एव समाव् उदाहृतौ ॥
स्वदशाधिपजन्मलग्नपाः सन्ध्यार्कोपगता न शोभनाः ।
परिहृत्य सितार्कनन्दनौ मध्यास् तिग्मकराद् विनिःसृताः ॥
परस्परं सौरिकुजौ रवीन्दू त्रिकोणगौ भार्गवलोहितौ च ।
फलं यद् उक्तं तद् अशेषम् एव विनाश्य पश्चात् स्वदिशं नयन्ताम् ॥
रिपुदिवसो यस्य भवेत् सौम्यो ऽपि स लग्नगो न शुभदाता ।
पापो ऽपीष्टं जनयति मित्रं स्वदिने विलग्नस्थः ॥
बलिनः कण्टकसंस्था वर्षाधिपमासदिवसहोरेशाः ।
द्विगुणशुभाशुभफलदा परतः परतो ग्रहा यातुः ॥
यात्राजसिंहतुरगोपगते वरिष्ठा मध्या शनैश्चरबुधोशनसां गृहेषु ।
भानौ कुलीरझषवृश्चिकगे ऽतिदीर्घा शस्तस् तु देवलमते ऽध्वनि पृष्ठतो ऽर्कः ॥
सकलफलददशाढ्यके प्रवरा मध्याष्टवर्गसंशुद्धौ ।
न्यूनफला तात्कालिकविलग्नतिथिदिवसकरणाद्यैः ॥
उत्तमफला यात्रा त्रिकोणतुङ्गोपच (ये )षु सौम्येषु ।
मध्या स्वमित्रभवनोपगेषु नीचारिभेष्व् अधमा ॥
मध्याधमाधमोत्तमसममध्याधोधमोत्तमोत्कृष्टा ।
मध्योत्तमा च षष्ठा यात्रा यात्राविदामिष्टा ॥
दिग्वर्गविलोमगे हते सन्ध्याकरोपगते विदीधितौ ।
शुक्रे प्रवसन् नरेर् वशं याति बुधे च विलोमसंस्थिते ॥
अनुलो (म )गते शशाङ्कजे शुक्रे चैवम् अपि व्यवस्थिते ।
यायाद् अविशङ्कितो ऽपरैः कथितो ऽप्याङ्गिरसो यथेन्दुजः ॥
आक्रन्दसारी दिनमध्यगो ऽर्कः पौरः पुरस्ताद् अपरत्र यायी ।
आक्रन्द इन्दुर् गुरुमन्दसौम्याः पौराः स्मृता यायिन इत्य् अतो ऽन्ये ॥
यायिग्रहैर् वीर्यजयोपपन्नैः के ऽरिप्रयाणं प्रवदन्ति धन्यम् ।
सत्यं तथा किं तु विशेषम् आहुस् ते भूपतेः सत्फलदा जिगीषोः ॥
दृष्टे साम्नां कर्मनिष्टं सुरारौ वैतालीयं पाददम्भौ च हित्वा ।
शस्तो राहुस् त्र्यायकर्मोपयातो यातव्यश् चासन्नतागश् च केतुः ॥
साम्नां शुक्रबृहस्पती दिनकरो वक्रश् च दण्डेश्वरौ
भेदस्येन्दुजराहुकेतुरविजा दानस्य नक्तम्चरः ।
आर्कादाटविकं यमा (द् ) भृतबलं (स्यु )र् भार्गव् (आच् छ्रेणिकं )
ज्ञान् मन्त्रं रिपुदेशमौलबलपालक् (आभौमे )न्दुवागीश्वराः ॥
यतो ऽप (प )न्नदिवसकरोडुनाथयोस् ततो व्रजेद् रिपुनधनाय पार्थिव ।
अथायनेन युगपद् एकसंस्थयोर् द्युनक्तयो रविशशिनोर् व्रजेत् तदा ॥