संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
प्रथमम्

पांडुरंगस्तोत्रम् - प्रथमम्

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


( अनुष्टुब्वृत्तम् )
प्रसादं कामये नित्यं समदं पांडुरंगजम्
नचोच्चैःश्रवसं नित्यं समदं पांडुरं गजम्. ॥१॥
वंदे निजयशःपाननिष्ठं तं स्वरसादरम्
शुद्धप्रेम्णामिष्टकायां तिष्ठंतं स्वरसादरम्. ॥२॥
पांडुरंगं सकृन्नत्वा कलिना मलिना अपि
भंवति भावुका भास्वद्रुचयः शुचयः सदा. ॥३॥
संसृतौ कलिकाले यः सदरः सदरस्तुतेः
विठ्ठलादभयं प्रपतः करुणावरुणालयात्. ॥४॥
यच्चेतः पांडुरंगस्य सदा चरणसादरम्,
तं संतं नान्यमूचुर्ज्ञाः सदाचरणसादरम्. ॥५॥
विठ्ठलेति जपेन्नाम पांडुरंगस्य यः सदा,
कृपाकटाक्षा न विभोरंत्यजं तं त्यजंत्यहो. ॥६॥
यः पिबत्यसकृन्नाम प्रभोर्भवगदार्दितः,
ह्रेपयत्यमृत किं न स कलौ सकलौषधम्. ॥७॥
मोचिताः पांडुरंगेण पतिता अतितापतः,
अयमेव कलौ कीर्त्या निजया विजयावहः. ॥८॥
नाम्ना यः पाति यमलं नाम्नायः स्तोतुमीश्वरम्,
यशसा यस्य सद्वृंदं समहं तमहं भजे. ॥९॥
वैरस्यदर्शिना स्वर्गे कलौ वैरस्य कारिणा
यशसास्य प्रभोस्तीर्थे सज्जना मज्जनालसाह. ॥१०॥
वदंति विठ्ठलं विज्ञा जडेभ्योऽप्यतिदुर्लभा,
या दीयते प्रभो ! भक्तवश ! सा यशसा तव. ॥११॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा येऽन्येऽपि संकराः,
रंकराजमुखाः सर्वे कृताः श्रीशेन शंकराः. ॥१२॥
पूर्वं प्रयासेनाविद्याविनाशमलभन् जनाः,
अद्य नाम्ना प्रभोः कष्टं विनाशमलभं जनाः. ॥१३॥
पांडुरंगपुरं मोहो वदत्यत्रत्यमानसे
कथं तिष्ठामि विजये हंत तेऽहं तते सति ॥१४॥
नामसंकीर्तनप्रायं पांडुरंगपुरं विना
भ्रमन्भवति मेदिन्यां परितोऽपरितोषभाक्. ॥१५॥
पांडुरंगपुरे पीतप्रभुनामयशःसुधाः
बुधाः स्मरंति न स्वर्गं दृष्टचक्रगदायुधाः. ॥१६॥
तीर्थान्यायांति सर्वाणि दैवतान्युत्सुकानि यत,
द्रष्टुं भगवतः को न चत्वरं सत्वरं व्रजेत् ? ॥१७॥
पांडुरंगपुरं प्रपय सर्वो ना रदति स्फुटम्,
हरिनामयशोगाननिरतोऽविरतोत्सवः. ॥१८॥
पांडुरंगपुरं संतो भूवैकुंठं वदंत्यहो !
एतत्तु सर्वसुलभं कुलभंजनमंहसाम्. ॥१९॥
प्रवर्तितेन परमामृतसत्रेण सर्वदा
पुंडरीकेण सर्वोऽपि सत्रपः सत्रपः कृतः. ॥२०॥
पुंडरीकेण सर्वोयैः सत्कृतं यत्कृतं तथा
ब्रह्मांडेऽत्र न केनापि कविना भविनाऽमलम्. ॥२१॥
अमुना यमुनारोधः पूर्वं भीमरथीतटम
पश्चादलंकृतं गोपच्छद्मना पद्मनाभिना. ॥२२॥
दयालुना भगवता पांडुरंगेण बंधुना
दीना हीना निजगतिं गमिता अमिता जनाः. ॥२३॥
पांडुरंगः प्रभुर्भक्तबहुमानवशंवदः
बिभर्ति भर्ता जगतां शिरसातिरसाच्छिवम्. ॥२४॥
शृण्वन्नभंगाननिशं तृप्तो नाद्यापि विठ्ठलः
कथं हरंतु न सतामुक्तयो मुंक्तयोगिनः. ॥२५॥
धीः श्रियं जनतां भक्तौ तामसीमामुदारताम्
जानात्वच्छा प्रभोर्वेत्ति तामसीमामुदारताम् ॥२६॥
मधुपा अप्सु राजीवं, सुरा जीवं यथा दिवि,
उपासते तथा संतं पांडुरंगपुरे जनाः. ॥२७॥
पांडुरंगपुरस्थाये जीवन्मुक्ता हि तेऽखिलाः,
यत्प्रभूक्तिः स्वतीर्थाप्तसज्जना मज्जना इति. ॥२८॥
मज्जनं चंद्रभागायां, पांडुरंगस्य दर्शनम्,
कीर्तनश्रवणं यस्य स महासमहा भवे. ॥२९॥
तीर्थं क्षेत्रं पांडुरंगो नामसंकीर्तनं कलौ
मलौघहृत्स्वमहसा सहसा रचितेंऽजलौ. ॥३०॥
विदा ज्ञानेन ठान् शून्यान् लाति गृह्णाति विठ्ठलः
निरुक्तमिदमस्माकं चरमं परमं बलम्. ॥३१॥
जडोद्धारयशोग्रंथग्रहद्द्रीतसुमेधसे
नमो भगवते तस्मै पांदुरंगाय वेधसे. ॥३२॥
नमोऽस्तु पितृभक्ताय पुंडरीकाय साधवे,
जडोद्धारव्रतं पुण्यप्रभावाद्यस्य माधवे. ॥३३॥
ज्ञानदेवैकनाथाद्या नामदेवादयोऽपरे
तेभ्यो नमोऽस्तु यैर्भक्त्या रंजितोऽरं जितोऽजितः. ॥३४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP