श्रीरामचंद्रार्तिक्यम्
महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’
जय जय सीतावल्लभ ! दशवदनाद्रिपवे !
भवता पदमुरु दत्तं निजसदनाद्रिपवे -ध्रुव० ॥
जनुषालंकृतमिनकुलमथ मुनिमखरक्षा
दृषदपि विहिता कर्मसु पदरजसा दक्षा
त्र्यंबकधनुरपि भग्नं, तदनु वृता स्वक्षा
विजितः पथि पाटितपरपृथ्वीपतिवक्षाः. ॥१॥
राज्यं तृणवत्त्यक्तं गुर्वर्थं सहसा
या शूर्पणखा विकृताऽकार्यरिदुःसह सा
सुग्रीवमतिर्मुदिता व्यरचि धनुर्महसा
लंकादाहात्प्रभृति त्रिदशसभा सहसा. ॥२॥
बंधनमब्धेः कपिभी राक्षसबलदलनम्
भक्तबिभीषणराज्यं यस्यास्ति न चलनम्
भरतमयूरं प्रति यत्करुणाघनवलनम्
वाल्मीकेरपि यशसोऽशक्यं परिकलनम्.
N/A
References : N/A
Last Updated : November 11, 2016
TOP