पांडुरंगस्तोत्रम् - तृतीयम्
महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’
( द्रुतविलंबितवृत्तम् )
व्रजपते ! जपतेऽस्यभयप्रदः सुरसदो रसदो महिमा तव,
अघनगे घनगेयरुचेऽशनिस्त्वमव माऽभव मामकरोर्वराम्, ( ? ) ॥१॥
सततमस्तु मयि प्रणतेऽखिलप्रणतवत्सल ! भव्य यशोनिधे !
चरणभक्तिरुदार ! तव प्रभो ! रविवराविवरासन ! मुन्निधिः. ॥२॥
इह कलावपि जंतुमजामिलादधिकमच्युत ! नाम यदृच्छया
सकृदथाप्यसमग्रमितं नु कं न समलं समलं कुरुते भवान् ? ॥३॥
रुडपि ते शिवकृद्भगवन् ! द्विषां प्रणमतां किमु युष्मदनुग्रहः
परमदुर्लभमीश ! सुनिर्भयं पदमिता दमिता भवता खलाः. ॥४॥
सपदि संप्रति भीमरथीतटे स्थितिमुपेत्य जडा अपि जंतवः,
इह कृता निजकीर्त्यमृतेन के न भवता भवतापविवर्जिताः ? ॥५॥
सितसरोरुहसाह्वमुनेः पितृव्रतवशाज्ञतमःप्रशमोद्यते !
प्रणतवत्सल ! विठ्ठल ! ते यशः कविशते विशते स्वयमादरात्. ॥६॥
श्रुतिनुतस्य जने कृपणे परमते ! रमतेऽपि सदाशिवः,
तव यशस्यमले विपुले सुधासरसि को रसिको न निमज्जति ? ॥७॥
बत कबीरमुखा यवनाः कृताः शुचितमा निजनामपरास्त्वया
भवति पात्रमपि प्रजडः सतां द्युनग ! ते न गतेरिह को हरे ! ॥८॥
वरदराज ! मुकुंद ! तुकाभिधो वणिगतिप्रथितः स्तवनैस्तव,
सकलसाधुमनःपरितोषकृत्कविवरो विवरोझ्झितशुद्धवाक्. ॥९॥
स्वकरुणाम वदसि ध्रुवमंत्यजः स्मरणकृद्यदि देवि न तं त्यज,
पतितपावन ! नाम च तन्मृताववसरे वस रे ! वदने श्रुतौ. ॥१०॥
श्रुतकथे ! भवतः स्वजनापदामगदयागदया क्रियते न सा.
पितृशतैः करुणा करुणानिधे ! तनुभवेऽनुभवेन सतामिदम्. ॥११॥
दिश दयार्णव ! चक्रमनर्थहृत्स्वशरणागतविघ्नविनाशकृत्,
त्वयि मनोऽस्तु मम प्रणतोद्धृतावनलसेऽनलसेवितसत्कथे. ॥१२॥
सुपतिता अतितापसमाकुला अशरणाः शरणागतवत्सल !
तर मुकुंड ! सकृच्छ्रुतसत्कथाः सुरगुरोरगुरोकसि सत्कृतिम् ॥१३॥
जडसमुद्धरणं प्रथितं कलौ करुणविठ्ठ्ल ! तेऽद्य महाप्रभोः !
अनुभवञ्श्रुतवांस्च सदुक्तितो नयमतो यमतोऽपभयोऽखिलः ॥१४॥
सदयकोटिशताधिककर्मणे नतसमस्तजनाशनिर्वमणे
भगवते ननु तुभ्यमहं करोम्यज ! नमो जनमोहहराभिध ! ॥१५॥
उदितहार्दभरैः कृतकीर्तनैस्त्वमिह विठ्ठल भीमरथीतटे,
लसदभंगगुणैस्तव सद्यशः सुरसिकैरसि कैर्न वशीकृतः. ॥१६॥
श्रुतिरहस्यविदः स्वपदं गता अपि भवंतमुदारगुणं प्रभुम्,
परमकारुणिकं सुहृदं पर मुनिजना निजनाथमुपासते. ॥१७॥
स्वपरिरंभसुखातिशयोचितं प्रणतमासु करोष्यखिलं जनम्,
अयि ! वदान्यगुरो ! तव सोऽधिकं हनुमतोऽनुमतोऽप्यलसो जड ॥१८॥
तव पुमर्थदपुण्ययशःकथाश्रवणविस्मृतदेह इतस्ततः
भवति विठ्ठल कोऽपि जनस्तपोवनमना न मनागपि तीर्थधीः. ॥१९॥
य इह दृष्टभवच्चरणांबुजानपदमूनमुमेशवृतात्पदात्
खलु लभंत उदारशिरोमणेस्त्वदयि ते दयितेषदपि श्रियः ! ॥२०॥
निजयशोधिकमांतरमादरं प्रकटयंतमुदारगुणं प्रभुम्,
स्वजनसद्यशसः श्रवणे सदा कृतमहं तमहं सह्रणं गतः. ॥२१॥
निजयशोमृतसेवनसक्तया सततसात्त्विकभावसमृद्धया
भगवता भवता बहवः कृताः स्वसभया सभया भृशनिर्भयाः ॥२२॥
( अनुष्टुब्वृत्तम् )
प्रियस्तुतेर्भगवतः पांडुरंगस्य पादयोः
मयूरेणार्पिता भक्त्या या स्तुतिः सास्तु तीर्थवाः. ॥२३॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP