( उपगीतिच्छन्दः )
काचित्सोमा धवला कृतविषकवला पटीयसी देवी,
जटिला शशधरनिटिला कुट्टितकुटिला नमस्या मे. ॥१॥
अस्तु निरंजनमेकं वस्तु त्रय्याः शिरोभागे,
अरुणं तरुणीधरणं विलसत्करुणं तु नः श्रेयः. ॥२॥
नैगमपटलीरूढं मनसि निरूढं जगत्त्रय्याः,
हिमगिरिरत्नसमूढं स्मरति न मूढं कुतश्चेतः ? ॥३॥
अयि ! मामनाथमल्पं करुणाजल्पं प्रभो ! पाहि,
जहि वा बिरुदाकल्पं कल्पं कल्पं यमाधत्से. ॥४॥
विषयविषाशनमत्तं विषयिषु यत्तं स्मराराते !
स्मर मां मुहुरनिमित्तं यदि तव चित्तं कृपायोनिः. ॥५॥
किं न च्छिन्नं शंभो ! यदेइ भवदंभो विवृद्धोऽसौ,
परमिह भवहरमपरं विद्मो न परंपराजाले. ॥६॥
विषपीयूषनिकेतन ! धृतविषकेतन ! भवाराते !
चेतितविष्टपचेतन ! करुआण्वेतनमिदं कुरु मे. ॥७॥
व्यालाकलितजटालादिह विधुभालां ददक्षिणे बालात्,
न हि रे ! कंठे कालात्कलितकपालात्परं किंचित्. ॥८॥
काचित्कदनितमदना चित्सुखसदना तनू गौरी
गौरीचुंबितवदना चंदिररदना नमस्या मे. ॥९॥
काचिच्चिदिह सदारा दाहितदारा मभेदानीम्,
करुणापारावारा जगदाकारा पुरः पश्चात्. ॥१०॥
कपिलः कालीशाली वीटपपाली जगज्जीवः
हरिहरमस्तकमाली मनसि कपाली सदा ध्येयः. ॥११॥
ऐरावणेंदुवर्णा शोभितकर्णा फणींद्राभ्याम्;
वामे विलसदपर्णा शिवमितिवर्णा तनुर्ध्येया. ॥१२॥
न वयं वेदविधिज्ञा न च कृतयज्ञाः कृतज्ञा वा,
किं त्वाशापटलं पटमकपटमीशं प्रपश्यामः. ॥१३॥
विष्वक्करुणावेषा दत्ताशेषा स्वभक्तेभ्यः
शेषाकल्पविशेषा जगतः शेषा तनुः पायात्. ॥१४॥
शमनः श्रेणीशमनी शमदमगमनीयमाहात्म्या,
भूतिः कापि च रमणी स्वीकृतरमणी मुदे नः स्यात्. ॥१५॥
निरयत्रासनिहंत्री बुद्धिनियंत्री मुमुक्षूणाम्
कलितकलामयतंत्री गिरिजारंत्री तनुर्ध्येया. ॥१६॥
बालकलाधरचूला सुहृदनुकूला जगज्जननी
च्योतच्चर्मदुकूला धृतत्रिशूला तनुर्जयति. ॥१७॥
अलसं जडमतिचपलं कितवं धूर्तं शठं हृष्टम्
विषमिव विषयिणमपि माभिधेहि त्रिपुरांतक ! स्वपदोः. ॥१८॥
भुजगान्कर्तुं भुजनाननलं निटिले विषं कंथे
नैव विवेकस्तेऽभुद्धर्तुं पदयोः क्षमामेव. ॥१९॥
त्वत्तो मातुस्तातादिह नो धाता पुराराते !
नापि च भवतः पातादपरः पातास्ति किं कुर्मः. ॥२०॥
वेदावेदितशोधाः प्रत्यग्बोधाः शृणुध्वं मे
अर्धांगाहितदारं परमोदारं महः श्रेयः. ॥२१॥
तर्कादुदर्कभाजां कर्कशवाचां प्रपंचोऽयम्,
यच्छ्रीकंठे तेजसि सत्यपि सिद्धांतमिच्छंतः. ॥२२॥
संख्या संख्याहीनं संख्यावंतो ब्रुवंतु संख्येम्
पश्यंत्वथवा वल्लयां वल्लयां भिल्लीचरं कंचित्. ॥२३॥
तावद्धर्मोऽधर्मस्तावत्कर्माप्यकर्मैव,
यावत्त्रिगुणाविलासी निगमनिवासी नुतो नेशः. ॥२४॥
यदिदं निगमविचारे स्मृतिसंसारेऽपि यद्यावत्
तदिदं निखिलाधरं सारं कैलासकुंजेषु ॥२५॥
विषधरविषयविषादं मामविषादं धरः स्वपदोः
नो चेत्त्रिभुवनरक्षणबिरुदं भवतोऽद्य भाराय. ॥२६॥
काचिच्चित्तकुटीरे चित्पटपेटीगता मूर्तिः
उद्भटतटिनीमुकुटा घटतो रटतः स्फुटं मेऽस्ति ॥२७॥
काचिच्चित्तचमत्कृतिरुग्रा सोमासिता काली
स्त्रीपुंस्तनुरप्येका चिंत्यविवेका मुदे नस्तात् ॥२८॥
न हि रे ! काचन चिंता त्रिजगच्चिंतामणिः शंभुः
अंतः परितः पुरतः स्फुरति प्रेम्णा समाकूतः ॥२९॥
मंत्रैः किं किं तंत्रैरपि किं वेदांतसिद्धांतैः
यावत्तत्त्वगुरूणां गुरुरयमीशो न सर्वस्वम्. ॥३०॥
मास्तु ममागमबोधो मास्तु च शोधोऽपि सर्वत्र,
अस्तु श्रुतिषु यदेकं वस्तु स्वांते मृडान्येव. ॥३१॥
स्मरहर पुरहर भव हर शिव मृड गिरिशेति जल्पतामग्रे
भृत्यायते सुरेज्यः कालो बालायते सद्यः. ॥३२॥
नाहं बिभेमि कालान्नो भवजालादपि भ्रष्टः,
दीनानाथत्रातरि पातरि शिरसि स्थिते स्थाणौ. ॥३३॥
शिवदः शंभुः शंकर ईश्वर एवासि सर्वेषु
वामेषु बामदेवो देव ! त्वं मत्कृते स्थाणुः. ॥३४॥
संततमद्रिनिवासात्कठोरनाम्नावनौ नीतः
अपि काकोलहरत्वात्करुणाकूपार एवासि. ॥३५॥
दग्धे दिविषद्वृन्दे परितः प्लुष्टेऽपि गोविंदे
ब्रह्मांडमंडपेऽस्मिन्धुब्धे क्ष्वेडाश एव त्वम्. ॥३६॥
पयसा प्लावितसत्ये क्लृप्ते वैकुंठ आकंठे
स्मारिताविष्टपवृत्ते धर्ता त्वं त्वेव गंगायाः. ॥३७॥
वृंदायामपि विष्णुं तद्वत्परमेष्टिनं च कन्यायाम्,
युंक्त्वाप्यतो जिगीषुः स्मर्तव्यात्मा स्मरस्त्वत्तः ॥३८॥
गर्वादखर्वकर्ता त्वहमिति भावादृतो बोधः
त्वामपि सविधे विमनंश्चिन्नः कापालभूषायै. ॥३९॥
केचिद्वदंति गुणिनं निर्गुणमेकेऽपि विद्वांसः
निर्णेतुमेव धत्स्से त्रिगुणीं मुंडावलिं नित्यः. ॥४०॥
नित्यानित्यविवेके नित्यस्त्वत्तोऽस्ति नैवान्यः,
निखिलं त्वमेव दग्धा धत्से भस्मांगरागाय ॥४१॥
भस्मासुरोऽपि कश्चिद्धस्मरशक्तिः पुरा भक्तः,
विस्मृतशैवचपेटः कपटी भस्मैव संजातः. ॥४२॥
ख्यातस्त्वभेव देवस्त्वमेव निखिले महादेवः
रुद्रादन्याभावे स नास्मि विष्णुर्न वा धाता. ॥४३॥
धातुस्त्वमेव धाता पाता विष्णोश्च विष्णुत्वात्,
अपि च हरस्य हरस्त्वं नातस्त्रातः परा काष्ठा. ॥४४॥
काष्ठावासो वासो यस्य त्रैलोक्यधूलीषु.
युक्तं निखिले दग्धे शेषावासश्च वासाय. ॥४५॥
वासो यस्य हृदब्जे भासः सर्वेषु भूतेषु
हासः कालो नृत्याद्दासस्तस्याहमेकस्य. ॥४६॥
एकस्य द्वे नियमात्कश्चिद्वैपश्चितोऽस्त्वर्थः
जानेऽहं तु यदंगे गिरिजागंगे तमेवैकम्. ॥४७॥
एको रुद्रः प्रथमा सर्वो रुद्रः परा ब्रूते
परमृग्यजुषोक्तीनां सिद्धः सिद्धांत एवैकः. ॥४८॥
एकोऽहं तु बहु स्यामनया वाचैव सा सिद्धिः
तस्मात्सिद्धिनिदानं रुद्रं जानंतु भद्राय. ॥४९॥
भद्राय राजमुद्रा वेदो ब्रूते शिवः शिवदः,
नातः पुमर्थसिद्धिः काचित्कश्चिन्न सिद्धांतः ॥५०॥
सिद्धांतादरदूरं दूरत्वान्नाम पीयूषात्
पीयूषांशुकलाधरधर मां चानाथनाथत्वात्. ॥५१॥
नाथ ! त्वामनुयातस्याधःपातः कथं मे स्यात्,
स्यादथ दैवनियोगाद्योगाभक्त्याथ मुक्त्या च. ॥५२॥
मुक्त्यालमस्तु भक्तिप्रसादलभ्यो ममास्त्विष्टः,
ब्रह्मांडव्रजबीजः कैलासाद्रिद्रुमः कश्चित्. ॥५३॥
कश्चिद्गिरिजावल्लीवातो ललितो जगत्पर्णैः,
स्वांतालवालवासी स्मृत्या फलितो भवेत्सद्यः. ॥५४॥
सद्यः पावविनाशः सद्यस्त्रैतापिकी शांतिः
सद्यः सकलसुखानां सिद्धिर्भविता शिवस्मरणात्. ॥५५॥
स्मरणादेव हि देवा मरणान्मुक्ताः सुखं चेरुः,
स्मरणादेव मुनीशाः शंभोः कारुण्यपात्राणि. ॥५६॥
पात्राणि तानि मन्ये हिमगिरिकन्येशपूर्णानि,
शेषाणि खर्पराणि प्रायो विण्मूत्रदिग्धानि. ॥५७॥
दिग्धानि भांति येषां भसितैर्भालानि भाग्येन,
धन्यास्त एव वन्या नान्यान्मन्यामहे नूनम्. ॥५८॥
नूनं विभूतिकवचाः शिवमृडरुद्रेति दिव्यास्त्राः
त्रिषु लोकेषु जयंतः संततमंतः कृपावंतः ॥५९॥
कृपया तेन विमुक्ता जीवन्मुक्तास्त एवैते
येषामंतःकरणे जगदावरणेश्वरः शंभुः. ॥६०॥
शंभुर्मुक्तिलताया मंडप एवास्ति निश्चितं फलवान्
यस्तामिच्छति कश्चित्सुततं मनसा श्रयेत्स्वस्थः. ॥६१॥
स्वस्थस्तदेव भविता भविता सिद्धिस्तदा काचित्
सुरनरफणिनामविता त्रिजगत्सविता सदा ध्यातः. ॥६२॥
ध्यातः शुद्धमनोभिः ख्यातः श्रौतार्थविस्तारैः
ज्ञातः परमगुरुभ्योऽस्यातः शंभोरहं भृत्यः. ॥६३॥
भृत्यः कृतातिकृत्यः शंभोरेवास्ति नान्यस्य
कुपिते कदाप्यगस्त्ये सिंधुर्विंदूपमो जातः. ॥६४॥
जातो दशावतारी भृगुणा शप्तोऽपि गोविंदः
गोविंदोऽपि यदीयो मधुहा मुरहाथ लक्ष्मीशः. ॥६५॥
लक्ष्मीश्वरोऽथ चक्री खगपतिरपि यो जगत्त्राता
वरदे गौरीरमणे विष्णुर्दैत्यांतको जातः. ॥६६॥
जातो मरत्यवश्यं मृत्योर्जायेत वा निरयी
प्रपते कायनिकाये शिवमेवालंब रे चेतः ! ॥६७॥
चेतस्तवैव भाग्याच्चक्षुःश्रोतास्यमुख्यानि
संतींद्रियाणि यावत्तावत्संभावयेशानम्. ॥६८॥
ईशानमेव शरणं व्रजतो मरणं तु मोक्षाय
नो चेन्मायावरणं क्क शिवाचरणं विना नश्येत् ? ॥६९॥
नश्येत्पापकलापः शिव शिव जप्ते क्क संतापः ?
सादथ कोऽपि दुरापः सुमेरुचापः पुरः पश्चात्. ॥७०॥
पश्चात्तापनिमित्तं ब्रूमश्चित्तं प्रति क्षोभात्
स्मर रे ! शिवेति वित्तं भित्त्वा भित्तं तु विषयाणाम्. ॥७१॥
विषयाणामपि चिंता का तव चिंता...............
शिव शिव शिवेति जप्ते शिव एव त्वं न संदेहः. ॥७२॥
संदेहोऽपि न कश्चित्सर्वो रुद्रः श्रुतिर्ब्रूते
तस्माद्भावनयाहं बद्धो मुक्तोऽहमित्युक्तिः. ॥७३॥
उक्तिस्तावद्द्विविधा विद्याऽविद्यात्मिका भवति,
विद्या शिवपदफलदाऽविद्या संसारभोमाय. ॥७४॥
भोगायापि भवश्चेद्धयातो दद्यात्स सद्भोगान्,
विषयप्रेमजभोगो भुक्तो भवतैव रोगाय. ॥७५॥
रोगायौषधमेकं दृष्ट्वा नैकं वदाम्येतत्
एका पुण्यतरंगा गंगा गंगाधरोऽप्येकः. ॥७६॥
एको वस्तुविवेको धात्रानेकोपनिषदुक्तः
शिवमिति स परिच्छेको न चेति भेकोपमो ब्रूते. ॥७७॥
ब्रूते यस्तु कदाचिच्छिवेति नामाक्ज्षरद्वितयम्
तस्य तदेव भवाहे मुक्तिर्भुक्तिश्च मुक्तिश्च. ॥७८॥
मुक्तिः शमदमसिद्धा यस्याः सिद्धा अपि भ्रष्टाः
भ्रष्टा अपि शिवभक्त्या स्रष्टारस्ते तु शास्त्राणाम्. ॥७९॥
शास्त्रानि संतु दूरं दूरं मंत्राश्च तंत्रानि
नेदीयसीह चेतसि नित्यानंदे जगत्कंदे. ॥८०॥
कंदं छिनत्ति जनुषां भिनत्ति भेदभ्रमं सद्यः.
यच्छति रूपमरूपं चित्तमचिंतामणेः शंभोः. ॥८१॥
शंभोर्ध्यानममंदं ज्ञानानंदं नयत्युच्चैः
अश्रममपि तन्मंदास्त्यजंति पापे च युंजंति. ॥८२॥
युंजंति योगमपरे भोगं भुंजंति चैवान्ये
अस्माकमप्यभंगा तृप्तिर्गंगाधरः कश्चित्. ॥८३॥
कश्चिच्चिदंबुमाली जटिलो व्यालीनसद्व्यालः
शूली ब्रह्मकपाली विभूतिशाली स नः पायात्. ॥८४॥
पायादपायहंता पुंगवगंता पुरारातिः
मुनिजनमानसरंता मानससंतापदावाग्निः. ॥८५॥
दावान्गेरप्यधिकः संभवमरणोद्भवो व्याधिः
शांतिस्तदैव भविता भविता भर्गश्च वैद्यश्चेत्. ॥८६॥
चेदद्य नीलकंठंझ भवगजकंठीरवं स्मरसि
तर्हि त्वमेव जंतो ! बहुविधमंतो सुखी भविता. ॥८७॥
भवित अतदैव सर्वं शृणु गतगर्वं किमप्यंतः
जपतः सर्वदशर्वं दुःखमखर्वं सुखाय स्यात्. ॥८८॥
स्यादिह कोऽपि न पाता पातकपातादहं जाने
दैवाद्गिरिजाजानेरपरः शपथोऽस्ति तत्पदयोः. ॥८९॥
पदयोरधरीभूते विधुरीभूतोऽसि चेन्नाथ !
कः कटु मधुरीकुरुते त्वत्तोऽप्यंतरधुरीणस्त्वम्. ॥९०॥
त्वं मे माता तातस्त्राता भ्राता गुरुर्देवः
त्वं मे जीवस्त्वत्तः परमं परमं न मे किंचित्. ॥९१॥
किंचित्काचित्कश्चित्त्रितयं तावद्भवत्यर्वाक्
शिवलिंगादेकस्मात्स्फुरंति सर्वानि लिंगानि. ॥९२॥
लिंगानि पूर्वदेवैर्देवः सर्वेषु लोकेषु
नत्वा हरिहरमुखयिर्लब्धानीष्टानि निष्ठातः ॥९३॥
निष्ठा विमलज्ञानं निष्ठा भक्तिश्च वैराग्यम्
निष्ठैव संशयानां हंत्री निष्टा शिवं दत्ते. ॥९४॥
दत्ते भावितमंतर्धत्ते स्वीयेषु कृत्येषु
नित्यैव नित्यमीशो यस्तं मत्या श्रयेदंतः. ॥९५॥
अंतः शुद्धमनोभिः संतः पश्यंति यत्तेजः
गौरं तदेव गौरीलंपटमपटं प्रपश्यामः. ॥९६॥
पश्यंतस्त्वामीशं के परमीशं प्रपश्यंति
अभजंतोऽपि भजंतं के परमं तं न पश्यंति. ॥९७॥
पश्यंति शाश्वतं ते पदमिह शंभोः पदे लग्नाः
अपरे पतंति सद्यः परितः क्लिश्यंति वा भग्नाः. ॥९८॥
भग्नास्त एव लोके त एव शोके निमज्जंति
यैरधिवाणि भवानीपतिरिह नानीयते यत्रात्. ॥९९॥
मोदादंतर्गोधाधरमघ्नतो दापतुत्यै ये ( ? )
दधति विषयापनोदानपहस्तो दारभासस्ते. ॥१००॥
भासंत एव वासा येषां वासाय दिग्वासाः
तेऽपि सुखोल्लासा वै शैवा शैवस्य देवताकाराः. ॥१०१॥
( अनुष्टुप्छन्दः )
इदमार्यापतेरार्याशतमार्याः पठंति ये
ते तु शैवागमाचार्या नात्र कार्या विचारणा. ॥१०२॥
इत्याकूतमयूरेशशैवेनाऽऽशैवशासनात्
उपगीत्यैव गीतानां गाता वीशः प्रसीदतु. ॥१०३॥