श्रीकृष्णार्तिक्यम्
महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’
मुचुकुंदेन यवनमिव दह गुरुणा मोहम्
स्पर्शमणिर्न सुवर्णं कुरुते किमु लोहम्
पतितोऽजामिल इव गजपतिरिव विकलोऽहम्
प्रभुरसि वेत्सि च दातुं वरसुखसंदोहम्
जय भगवन् चक्रगदाशंखांबुजपाणे
कुरु मयि दृष्टिं सकृपामसति यथा बाणे । -ध्रुव० ॥ ॥१॥
अघमिव मामपि दुरितात्कुरुषे यदि मुक्तम्
भवतो नवतोयदमदहरकांते युक्तम्
पालय न मे प्रणश्यति भक्त इति यदुक्तम्
स्मर तत्कुलुषनगभिदुर विदुरगृहे भुक्तम् । जय भग० ॥२॥
मायामूढेऽत्र जने दृष्ट्वालं दोषम्
मातुर्न मनस्तोके दृष्टं कृतरोषम्
ब्रह्मण्योऽसि विधेहि त्वं ब्राह्मणपोषम्
वितर मयूरे भक्ते करुणाघन तोषम् । जय भग० ॥३॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP