नृसिंहार्तिक्यम्
महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’
यः कनककशिपुरकरोत्साधौ संरंभम्
पुष्ट्वा गर्वं क्रोधं सद्वेषं दंभम्
कर्तुमृतं भृत्यवचो भित्त्वाशु स्तंभम्
मार्तंडमिवात्मानं कृतवानसि भांतम् ॥१॥
जय देव जय देव श्रीनरहरिमूर्ते !
यत्तव नाम्नि फलमलं तन्नेष्टापूर्ते -ध्रुव० ॥
भो भगवन् ! सर्वसुजनमानसजलजाले !
करुणा सर्वत्र कृता नैकस्मिन्बाले
मोचय मामपि दीनं पतितं भवजाले
यत्तेजोऽस्ति तव नखे न हि तत्करवाले. ॥२॥
प्रह्रादं पितुरिव मां मोहादव दासम्
दह दुरितं द्रुतमिद्धो दमुना इव घासम्
दीनानामसि बंधुर्मा कुरु परिहासम्
भक्तमयूरघनार्पय पदपंकजवासम्. ॥३॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP