वामनपुराण - अध्याय १२ वा
भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.
सुकेशिरुवाच
कर्मणा नरकानेतान् केन गच्छन्ति वै कथम्।
एतद् वदन्तु विप्रेन्द्राः परं कौतूहलं मम ॥१॥
ऋषय ऊचुः
कर्मणा येन येनेह यान्ति शालकटंकट।
स्वकर्मफलभोगार्थं नरकान् मे श्रृणुष्व तान् ॥२॥
वेददेवद्विजातीनां यैर्निन्दा सततं कृता।
ये पुराणेतिहासार्थान् नाभिनन्दन्ति पापिनः ॥३॥
कुरुनिन्दाकरा ये च सखविघ्नकराश्च ये।
दातुर्निवारकाये च तेषु ते निपतन्ति हि ॥४॥
सुहृद्दम्पतिसोदर्यस्वामिभृत्यपितासुतान्।
याज्योपाध्याययोर्यैश्च कृतो भेदोऽधमैर्मिथः ॥५॥
कन्यामेकस्य दत्त्वा च ददत्यन्यस्य येऽधमाः।
करपत्रेण पाट्यन्ते ते द्विधा यमकिंकरैः ॥६॥
परोपतापजनकाश्चन्दनोशीरहारिणः।
बालव्यजनहर्त्तारः करम्भसिकताश्रिताः ॥७॥
निमन्त्रितोऽन्यतो भुङ्क्ते श्राद्धे दैवे सपैतृके।
स द्विधा कृष्यते मूढस्तीक्ष्णतुण्डैः खगोत्तमैः ॥८॥
मर्माणि यस्तु साधूनां तुदन् वाग्भिर्निकृन्तति।
तस्योपरि तुदन्तस्तु तुण्डैस्तिष्ठन्ति पत्त्रिणः ॥९॥
यः करोति च पैशुन्यं साधूनामन्यथामतिः।
वज्रतुण्डनखा जिह्वामाकर्षन्तेऽस्य वायसाः ॥१०
मातापितृगुरूणां च येऽवज्ञां चक्रुरुद्धताः।
मज्जन्ते पूयविण्मूत्रे त्वप्रतिष्ठे ह्यधोमुखाः ॥११॥
देवताऽतिथिभूतेषु भृत्येष्वभ्यागतेषु च।
अभुक्तवत्सु येऽश्नन्ति बालपित्रग्निमातृषु ॥१२॥
दुष्टचासृक्पूयनिर्यासं भुञ्जते त्वधमा इमे।
सूचीमुखाश्च जायन्ते क्षुधार्त्ता गिरिविग्रहाः ॥१३॥
एकपङ्क्त्युपविष्टानां विषमं भोजयन्ति ये।
विड्भोजनं राक्षसेन्द्र नरकं ते व्रजन्ति च ॥१४॥
एकसार्थप्रयातं ये पश्यन्तश्चार्थिनं नराः।
असंविभज्य भुञ्जन्ति ते यान्ति श्लेष्मभोजनम् ॥१५॥
गोब्राह्मणाग्नयः स्पृष्टा यैरुच्छिष्टैः क्षपाचर।
क्षिप्यन्ते हि करास्तेषां तप्तकुम्भे सुदारुणे ॥१६॥
सूर्येन्दुतारका दृष्टा यैरुच्छिष्टैश्च कामतः।
तेषां नेत्रगतो वह्निर्धम्यते यमकिंकरैः ॥१७॥
मित्रजायाथ जननी ज्येष्ठो भ्राता पिता स्वसा।
जामयो गुरवो वृद्धा यैः संस्पृष्टाः पदा नृभिः ॥१८॥
बद्धाङ्घ्रयस्ते विगडैर्लोहैर्वह्निप्रतापितैः।
क्षिप्यन्ते रौरवे घोरे ह्याजानुपरिदाहिनः ॥१९॥
पायसं कृशरं मांसं वृथा भुक्तानि यैर्नरैः।
तेषामयोगुडास्तप्ताः क्षिप्यन्ते वदनेऽद्भुताः ॥२०॥
गुरुदेवद्विजातीनां वेदानां च नराधमैः।
निन्दा निशामिता यैस्तु पापानामिति कुर्वताम् ॥२१॥
तेषां लोहमयाः कीला वह्निवर्णाः पुनः पुनः।
श्रवणेषु निखन्यन्ते धर्मराजस्य किंकरैः ॥२२॥
प्रपादेवकुलारामान् विप्रवेश्मसभामठान्।
कूपवापीतडागांश्च भङ्क्त्वा विध्वंसयन्ति ये ॥२३॥
तेषां विलपतां चर्म देहतः क्रियते पृथक्।
कर्त्तिकाभिः सुतीक्ष्णाभिः सुरौद्रैर्यमकिंकरैः ॥२४॥
गोब्राह्मणार्कमग्निं च ये वै मेहन्ति मानवाः।
तेषां गुदेन चान्त्राणि विनिःकृन्तन्ति वायसाः ॥२५॥
स्वपोषणपरो यस्तु परित्यजति मानवः।
पुत्रभृत्यकलत्रादिबन्धुवर्गमकिञ्चनम्।
दुर्भिक्षे संभ्रमे चापि स श्वभोज्ये निपात्यते ॥२६॥
शरणागतं ये त्यजन्ति ये च बन्धनपालकाः।
पतन्ति यन्त्रपीडे ते ताड्यमानास्तु किंकरैः ॥२७॥
क्लेशयन्ति हि विप्रादीन् ये ह्यकर्मसु पापिनः।
ते पिष्यन्ते शिलापेषे शोष्यन्तेऽपि च शोषकैः ॥२८॥
न्यासापहारिणः पापा बध्यन्ते निगडैरपि।
श्रुत्क्षामाः शुष्कताल्वोष्ठाः पात्यन्ते वृश्चिकाशने ॥२९॥
पर्वमैथुनिनः पापाः परदाररताश्च ये।
ते वह्नितप्तां कूटाग्रामालिङ्गन्ते च शाल्मलीम् ॥३०॥
उपाध्यायमधःकृत्य यैरधीतं द्विजाधमैः।
तेषामध्यापको यश्च स शिलां शिरसा वहेत् ॥३१॥
मूत्रश्लेष्मपुरीषाणि यैरुत्सृष्टानि वारिणि।
ते पात्यन्ते च विण्मूत्रे दुर्गन्धे पूयपूरिते ॥३२॥
श्राद्धातिथेयमन्योन्यं यैर्भुक्तं भुवि मानवैः।
परस्परं भक्षयन्ते मांसानि स्वानि बालिशाः ॥३३॥
वेदवह्निगुरुत्यागी भार्यापित्रोस्तथैव च।
गिरिश्रृड्गादधःपातं पात्यन्ते यमकिंकरैः ॥३४॥
पुनर्भूपतयो ये च कन्या विध्वंसकाश्च ये।
तद्गर्भश्राद्धभुग् यश्च कृमीन्भक्षेत्पिपीलिकाः ॥३५॥
चाण्डालादन्त्यजाद्वापि प्रतिगृह्णाति दक्षिणाम्।
याजको यजमानश्च सोऽस्मान्तः स्थूलकीटकः ॥३६॥
पृष्ठमांसाशिनो मूढास्तथैवोत्कोचजीविनः।
क्षिप्यन्ते वृकभक्षे ते नरके रजनीचर ॥३७॥
स्वर्णस्तेयी च ब्रह्मघ्नः सुरापो गुरुलल्पगः।
तथा गोभूमिहर्त्तरो गोस्त्रीबालहनाश्च ये ॥३८॥
एते नरा द्विजा ये च गोषु विक्रयिणस्तथा।
सोमविक्रयिणो ये च वेदविक्रयिणस्तथा ॥३९॥
कूटसभ्यास्त्वशौचाश्च नित्यनैमित्तनाशकाः।
कूटसाक्ष्यप्रदा ये च ते महारौरवे स्थिताः ॥४०॥
दशवर्ष सहस्राणि तावत् तामिस्रके स्थिताः।
तावच्चैवान्धतामिस्रे असिपत्रवने ततः ॥४१॥
तावच्चैव घटीयन्त्रे तप्तकुम्भे ततः परम्।
प्रपातो भवते तेषां यैरिदं दुष्कृतं कृतम् ॥४२॥
ये त्वेते नरका रौद्रा रौरवाद्यास्तवोदिताः।
ते सर्वे क्रमशः प्रोक्ताः कृतघ्ने लोकनिन्दिते ॥४३॥
यथा सुराणां प्रवरो जनार्दनो यथा गिरीणामपि शैशिराद्रिः।
यथायुधानां प्रवरं सुदर्शनं यथा खगानां विनतातनूजः।
महोरगाणां प्रवरोऽप्यनन्तो यथा च भूतेषु मही प्रधाना ॥४४॥
नदीषु गङ्गा जलजेषु पद्मं सुरारिमुख्येषु हराङ्घ्रिभक्तः।
क्षेत्रेषु यद्वत्कुरुजङ्गलं वरं तीर्थेषु यद्वत् प्रवरं पृथूदकम् ॥४५॥
सरस्सु चैवोत्तरमानसं यथा वनेषु पुण्येषु हि नन्दनं यथा।
लोकेषु यद्वत्सदनं विरिञ्चेः सत्यं यथा धर्मविधिक्रियासु ॥४६॥
यथाऽश्वमेधः प्रवरः क्रतूनां पुत्रो यथा स्पर्शवतां वरिष्ठः।
तपोधनानामपि कुम्भयोनिः श्रुतिर्वरा यद्वदिहागमेषु ॥४७॥
मुख्यः पुराणेषु यथैव मात्स्यः स्वायंभुवोक्तिस्त्वपि संहितासु।
मनुः स्मृतीनां प्रवरो यथैव तिथीषु दर्शा विषुवेषु दानम् ॥४८॥
तेजस्विनां यद्वदिहार्क उक्तो ऋक्षेषु चन्द्रो जलधिर्ह्वदेषु।
भवान् यथा राक्षससत्तमेषु पाशेषु नागस्तिमितेषु बन्धः ॥४९
धान्येषु शालिर्द्विपदेषु विप्रः चतुष्पदे गौः श्वपदां मृगेन्द्रः।
पुष्पेषु जाती नगरेषु काञ्ची नारीषु रम्भा श्रमीणां गृहस्थः ॥५०॥
कुशस्थली श्रेष्ठतमा पुरेषु देशेषु सर्वेषु च मध्यदेशः।
फलेषु चूतो मुकुलेष्वशोकः सर्वौषधीनां प्रवरा च पथ्या ॥५१॥
मूलेषु कन्दः प्रवरो यथोक्तो व्याधिष्वजीर्णं क्षणदाचरेन्द्र।
श्वेतेषु दुग्धं प्रवरं यथैव कार्पासिकं प्रावरणेषु यद्वत् ॥५२॥
कलासु मुख्या गणितज्ञता च विज्ञानमुख्येषु यथेन्द्रजालम्।
शाकेषु मुख्या त्वपि काकमाची रसेषु मुख्यं लवणं यथैव ॥५३॥
तुङ्गेषु तालो नलिनीषु पम्पा वनौकसेष्वेव च ऋक्षराजः।
महीरुहेष्वेव यथा वटश्च यथा हरो ज्ञानवतां वरिष्ठः ॥५४॥
यथा सतीनां हिमवत्सुता हि यथार्जुनीनां कपिला वरिष्ठा।
यथा वृषाणामपि नीलवर्णो यथैव सर्वेष्वपि दुःसहेषु।
दुर्गेषु रौद्रेषु निशाचरेश नृपातनं वैतरणी प्रधाना ॥५५
पापीयसां तद्वदिह कृतघ्नः सर्वेषु पापेषु निशाचरेन्द्र।
ब्रह्मघ्नगोघ्नादिषु निष्कृतिर्हि विद्येत नैवास्य तु दुष्टचारिणः।
न निष्कृतिश्चास्ति कृतघ्नवृत्तेः सुहृत्कृतं नाशयतोऽब्दकोटिभिः ॥५६॥
इति श्रीवामनपुराणे द्वादशोऽध्यायः ॥ १२ ॥
N/A
References : N/A
Last Updated : September 25, 2020
TOP