संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय ३६ वा

वामनपुराण - अध्याय ३६ वा

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


लोमहर्षण उवाच
मानुषस्य तु पूर्वेण क्रोशमात्रे द्विजोत्तमाः
आपगा नाम विख्याता नदी द्विजनिषेविता ॥१॥
श्यामाकं पयसा सिद्धमाज्येन च परिप्लुतम्
ये प्रयच्छन्ति विप्रेभ्यस्तेषां पापं न विद्यते ॥२॥
ये तु श्राद्धं करिष्यन्ति प्राप्य तामापगां नदीम्
ते सर्वकामसंयुक्ता भविष्यन्ति न संशयः ॥३॥
शंसन्ति सर्वे पितरः स्मरन्ति च पितामहाः
अस्माकं च कुले पुत्रः पौत्रो वापि भविष्यति ॥४॥
य आपगां नदीं गत्वा तिलैः संतर्पयिष्यति
तेन तृप्ता भविष्यामो यावत्कल्पशतं गतम् ॥५॥
नभस्ये मासि सम्प्राप्ते कृष्णपक्षे विशेषतः
चतुर्दश्यां तु मध्याह्ने पिण्डदो मुक्तिमाप्नुयात् ॥६॥
ततो गच्छेत विप्रेन्द्रा ब्रह्मणः स्थानमुत्तमम्
ब्रह्मोदुम्बरमित्येवं सर्वलोकेषु विश्रुतम् ॥७॥
तत्र ब्रह्मर्षिकुण्डेषु स्नातस्य द्विजसत्तमाः
सप्तर्षीणां प्रसादेन सप्तसोमफलं भवेत् ॥८॥
भरद्वाजो गौतमश्च जमदग्निश्च कश्यपः
विश्वामित्रो वसिष्ठश्च अत्रिश्च भगवानृषिः ॥९॥
एतैः समेत्य तत्कुण्डं कल्पितं भुवि दुर्लभम्
ब्रह्मणा सेवितं यस्माद् ब्रह्मोदुम्बरमुच्यते ॥१०॥
तस्मिंस्तीर्थवरे स्नातो ब्रह्मणोऽव्यक्तजन्मनः
ब्रह्मलोकमवाप्नोति नात्र कार्या विचारणा ॥११॥
देवान् पितॄन् समुद्दिश्य यो विप्रं भोजयिष्यति
पितरस्तस्य सुखिता दास्यन्ति भुवि दुर्लभम् ॥१२॥
सप्तर्षींश्च समुद्दिश्य पृथक् स्नानं समाचरेत्
ऋषीणां च प्रसादेन सप्तलोकाधिपो भवेत् १३॥
कपिस्थलेति विख्यातं सर्वपातकनाशनम्
यस्मिन् स्थितः स्वयं देवो वृद्धकेदारसंज्ञितः ॥१४॥
तत्र स्नात्वाऽर्चयित्वा च रुद्रं दिण्डिसमन्वितम्
अन्तर्धानमवाप्नोति शिवलोके स मोदते ॥१५॥
यस्तत्र तर्पणं कृत्वा पिबते चुलकत्रयम्
दिण्डिदेवं नमस्कृत्य केदारस्य फलं लभेत् ॥१६॥
यस्तत्र कुरुते श्राद्धं शिवमुद्दिश्य मानवः
चैत्रशुक्लचतुर्दश्यां प्राप्नोति परमं पदम् ॥१७॥
कलस्यां तु ततो गच्छेद् यत्र देवी स्वयं स्थिता
दुर्गा कात्यायनी भद्रा निद्रा माया सनातनी ॥१८॥
कलस्यां च नरः स्नात्वा दृष्ट्वा दुर्गां तटे स्थिताम्
संसारगहनं दुर्गं निस्तरेन्नात्र संशयः ॥१९॥
ततो गच्छेत सरकं त्रैलोक्यस्यापि दुर्लभम्
कृष्णपक्षे चतुर्दश्यां दृष्ट्वा देवं महेश्वरम् ॥२०॥
लभते सर्वकामांश्च शिवलोकं स गच्छति
तिस्रः कोट्यस्तु तीर्थानां सरके द्विजसत्तमाः ॥२१॥
रुद्र कोटिस्तथा कूपे सरोमध्ये व्यवस्थिता
तस्मिन् सरे च यः स्नात्वा रुद्र कोटिं स्मरेन्नरः ॥२२॥
पूजिता रुद्र कोटिश्च भविष्यति न संशयः
रुद्रा णां च प्रसादेन सर्वदोषविवर्जितः ॥२३॥
ऐन्द्र ज्ञानेन संयुक्तः परं पदमवाप्नुयात्
इडास्पदं च तत्रैव तीर्थं पापभयापहम् ॥२४॥
अस्मिन् मुक्तिमवाप्नोति दर्शनादेव मानवः
तत्र स्नात्वाऽर्थयित्वा च पितृदेवगणानपि ॥२५॥
न दुर्गतिमवाप्नोति मनसा चिन्तितं लभेत्
केदारं च महातीर्थं सर्वकल्मषनाशनम् ॥२६॥
तत्र स्नात्वा तु पुरुषः सर्वदानफलं लभेत्
किंरूपं च महातीर्थं तत्रैव भुवि दुर्लभम्
तस्मिन् स्नातस्य पुरुषः सर्वयज्ञफलं लभेत् ॥२७॥
सरकस्य तु पूर्वेण तीर्थं त्रैलोक्यविश्रुतम्
अन्यजन्म सुविख्यातं सर्वपापप्रणाशनम् ॥२८॥
नारसिंहं वपुः कृत्वा हत्वा दानवमूर्जितम्
तिर्यग्योनौ स्थितो विष्णुः सिंहेषु रतिमाप्नुवन् ॥२९॥
ततो देवाः सगन्धर्वा आराध्य वरदं शिवम्
ऊचुः प्रणतसर्वाङ्गा विष्णुदेहस्य लम्भने ॥३०॥
ततो देवो महात्मासौ शारभं रूपमास्थितः
युद्धं च कारयामास दिव्यं वर्षसहस्रकम्
युध्यमानौ तु तौ देवौ पतितौ सरमध्यतः ॥३१॥
तस्मिन् सरस्तटे विप्रो देवर्षिर्नारदः स्थितः
अश्वत्थवृक्षमाश्रित्य ध्यानस्थस्तौ ददर्श ह ॥३२॥
विष्णुश्चतुर्भुजो जज्ञे लिङ्गाकारः शिवः स्थितः
तौ दृष्ट्वा तत्र पुरुषौ तुष्टाव भक्तिभावितः ॥३३॥
नमः शिवाय देवाय विष्णवे प्रभविष्णवे
हरये च उमाभर्त्रे स्थितिकालभृते नमः ॥३४॥
हराय बहुरूपाय विश्वरूपाय विष्णवे
त्र्! यम्बकाय सुसिद्धाय कृष्णाय ज्ञानहेतवे ॥३५॥
धन्योऽहं सुकृती नित्यं यद् दृष्टौ पुरुषोत्तमौ
ममाश्रममिदं पुण्यं युवाभ्यां विमलीकृतम्
अद्यप्रभृति त्रैलोक्ये अन्यजन्मेति विश्रुतम् ॥३६॥
य इहागत्य स्नात्वा च पितॄन् संतर्पयिष्यति
तस्य श्रद्धान्वितस्येह ज्ञानमैन्द्रं भविष्यति ॥३७॥
अश्वत्थस्य तु यन्मूलं सदा तत्र वसाम्यहम्
अश्वत्थवन्दनं कृत्वा यमं रौद्रं न पश्यति ॥३८॥
ततो गच्छेत विप्रेन्द्रा नागस्य ह्रदमुत्तमम्
पौण्डरीके नरः स्नात्वा पुण्डरीकफलं लभेत् ॥३९॥
दशम्यां शुक्लपक्षस्य चैत्रस्य तु विशेषतः
स्नानं जपं तथा श्राद्धं मुक्तिमार्गप्रदायकम् ॥४०॥
ततस्त्रिविष्टवं गच्छेत् तीर्थं देवनिषेवितम्
तत्र वैतरणी पुण्या नदी पापप्रमोचनी ॥४१
तत्र स्नात्वाऽर्चयित्वा च शूलपाणिं वृषध्वजम्
सर्वपापविशुद्धात्मा गच्छत्येव परां गतिम् ॥४२॥
ततो गच्छेत विप्रेन्द्रा रसावर्तमनुत्तमम्
तत्र स्नात्वा भक्तियुक्तः सिद्धिमाप्नोत्यनुत्तमाम् ॥४३॥
चैत्र शुक्लचतुर्दश्यां तीर्थे स्नात्वा ह्यलेपके
पूजयित्वा शिवं तत्र पापलेपो न विद्यते ॥४४॥
ततो गच्छेत विप्रेन्द्रा ः! फलकीवनमुत्तमम्
यत्र देवाः सगन्धर्वाः साध्याश्च ऋषयः स्थिताः
तपश्चरन्ति विपुलं दिव्यं वर्षसहस्रकम् ॥४५॥
दृषद्वत्यां नरः स्नात्वा तर्पयित्वा च देवताः
अग्निष्टोमातिरात्राभ्यां फलं विन्दति मानवः ॥४६॥
सोमक्षये च संप्राप्ते सोमस्य च दिने तथा
यः श्राद्धं कुरुते मर्त्यस्तस्य पुण्यफलं शृणु ॥४७॥
गयायां च यथा श्राद्धं पितॄन् प्रीणाति नित्यशः
तथा श्राद्धं च कर्तव्यं फलकीवनमाश्रितैः ॥४८॥
मनसा स्मरते यस्तु फलकीवनमुत्तमम्
तस्यापि पितरस्तृप्तिं प्रयास्यन्ति न संशयः ॥४९॥
तत्रापि तीर्थं सुमहत् सर्वदेवैरलङ्कृतम्
तस्मिन् स्नातस्तु पुरुषो गोसहस्रफलं लभेत् ॥५०॥
पाणिखाते नरः स्नात्वा पितॄन् संतर्प्य मानवः
अवाप्नुयाद् राजसूयं सांख्यं योगं च विन्दति ॥५१॥
ततो गच्छेत सुमहत्तीर्थं मिश्रकमुत्तमम्
तत्र तीर्थानि मुनिना मिश्रितानि महात्मना ॥५२॥
व्यासेन मुनिशार्दूला दधीच्यर्थं महात्मना
सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः ॥५३॥
ततो व्यासवनं गच्छेन्नियतो नियताशनः
मनोजवे नरः स्नात्वा दृष्ट्वा देवमणिं शिवम् ॥५४॥
मनसा चिन्तितं सर्वं सिध्यते नात्र संशयः
गत्वा मधुवटीं चैव देव्यास्तीर्थं नरः शुचिः ॥५५॥
तत्र स्नात्वाऽर्चयेद् देवान् पितॄंश्च प्रयतो नरः
स देव्या समनुज्ञातो यथा सिद्धिं लभेन्नरः ॥५६॥
कौशिक्याः संगमे यस्तु दृषद्वत्यां नरोत्तमः
स्नायीत नयताहारः सर्वपापैः प्रमुच्यते ॥५७॥
ततो व्यासस्थली नाम यत्र व्यासेन धीमता
पुत्रशोकाभिभूतेन देहत्यागाय निश्चयः ॥५८॥
कृतो देवैश्च विप्रेन्द्रा ः! पुनरुत्थापितस्तदा
अभिगम्य स्थलीं तस्य पुत्रशोकं न विन्दति ॥५९॥
किंदत्तं कूपमासाद्य तिलप्रस्थं प्रदाय च
गच्छेत परमां सिद्धिं ऋणैर्मुक्तिमवाप्नुयात् ॥६०॥
अह्नं च सुदिनं चैव द्वे तीर्थे भुवि दुर्लभे
तयोः स्नात्वा विशुद्धात्मा सूर्यलोकमपाप्नुयात् ॥६१॥
कृतजप्यं ततो गच्छेत् त्रिषु लोकेषु विश्रुतम्
तत्राभिषेकं कुर्वीत गङ्गायां प्रयतः स्थितः ॥६२॥
अर्चयित्वा महादेवमश्वमेधफलं लभेत्
कोटितीर्थं च तत्रैव दृष्ट्वा कोटीश्वरं प्रभुम् ॥६३॥
तत्र स्नात्वा श्रद्दधानः कोटियज्ञफलं लभेत्
ततो वामनकं गच्छेत् त्रिषु लोकेषु विश्रुतम् ॥६४॥
यत्र वामनरूपेण विष्णुना प्रभविष्णुना
बलेरपहृतं राज्यमिन्द्रा य प्रतिपादितम् ॥६५॥
तत्र विष्णुपदे स्नात्वा अर्चयित्वा च वामनम्
सर्वपापविशुद्धात्मा विष्णुलोकमवाप्नुयात् ॥६६॥
ज्येष्ठाश्रमं च तत्रैव सर्वपातकनाशनम्
तं तु दृष्ट्वा नरो मुक्तिं संप्रयाति न संशयः ॥६७॥
ज्येष्ठे मासि सिते पक्षे एकादश्यामुपोषितः
द्वादश्यां च नरः स्नात्वा ज्येष्ठत्वं लभते नृषु ॥६८॥
तत्र प्रतिष्ठिता विप्रा विष्णुना प्रभविष्णुना
दीक्षाप्रतिष्ठासंयुक्ता विष्णुप्रीणनतत्पराः ॥६९॥
तेभ्यो दत्तानि श्राद्धानि दानानि विविधानि च
अक्षयाणि भविष्यन्ति यावन्मन्वन्तरस्थितिः ॥७०॥
तत्रैव कोटितीर्थं च त्रिषु लोकेषु विश्रुतम्
तस्मिंस्तीर्थे नरः स्नात्वा कोटियज्ञफलं लभेत् ॥७१॥
कोटीश्वरं नरो दृष्ट्वा तस्मितीर्थे महेश्वरम्
महादेवप्रसादेन गाणपत्यमवाप्नुयात् ॥७२॥
तत्रैव सुमहत् तीर्थं सूर्यस्य च महात्मनः
तस्मिन् स्नात्वा भक्तियुक्तः सूर्यलोके महीयते ॥७३॥
ततो गच्छेत विप्रेन्द्रा स्तीर्थं कल्मषनाशनम्
कुलोत्तारणनामानं विष्णुना कल्पितं पुरा ॥७४॥
वर्णानामाश्रमाणां च तारणाय सुनिर्मलम्
ब्रह्मचर्यात्परं मोक्षं य इच्छन्ति सुनिर्मलम्
तेऽपि तत्तीर्थमासाद्य पश्यन्ति परमं पदम् ॥७५॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा
कुलानि तारयेत् स्नातः सप्त सप्त च सप्त च ७६
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये तत्परायणाः
स्नाता भक्तियुताः सर्वे पश्यन्ति परमं पदम् ७७
दूरस्थोऽपि स्मरेद् यस्तु कुरुक्षेत्रं सवामनम्
सोऽपि मुक्तिमवाप्नोति किं पुनर्न्निवसन्नरः ७८
इति श्रीवामनपुराणे सरोमाहात्म्ये षड्त्रिंशत्तमोऽध्यायः ॥३६॥

N/A

References : N/A
Last Updated : September 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP