वामनपुराण - अध्याय ५४ वा
भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.
पुलस्त्य उवाच॥
ततो गिरौ वसन् रुद्रः स्वेच्छया विचरन् मुने।
विश्वकर्माणमाहूय प्रोवाच कुरु मे गुहम् ॥१॥
ततश्चकार शर्वस्य गृहं स्वस्तिकलक्षणम्।
योजनानि चतुःषष्टिः प्रमाणेन हिरण्मयम् ॥२॥
दन्ततोरणनिर्व्यूहं मुक्ताजालान्तरं शुभम्।
शुद्धस्फटिकसोपानं वैडूर्यकृतरूपकम् ॥३॥
सप्तकक्षं सुविस्तीर्णं सर्वैः समुदितं गुणैः।
ततो देवपतिश्चक्रे यज्ञं गार्हस्थ्यलक्षणम् ॥४॥
तं पूर्वचरितं मार्गमनुयाति स्म शंकरः।
तथा सतस्त्रिनेत्रस्य महान् कालोऽभ्यगान्मुने ॥५
रमतः सह पार्वत्या धर्मापेक्षो जगत्पतिः।
ततः कदाचिन्नर्मार्थं कालीत्युक्ता भवेन हि ॥६॥
पार्वती मन्युनाविष्टा शंकरं वाक्यमब्रवीत्।
संरोहतीषुणा विद्धं वनं परशुना हतम्।
वाचा दुरुक्तां बीभत्सं न प्ररोहति वाक्क्षतम् ॥७॥
वाक्सायका वदनान्निष्पतन्ति तैराहतः शोचति रात्र्यहानि।
न तान् विमुञ्चेत हि पण्डितो जनस्तमद्य धर्म वितथं त्वया कृतम् ॥८॥
तस्माद् व्रजामि देववेश तपस्तप्तुमनुत्तमम्।
तथा यतिष्ये न यथा भवान् कालीति वक्ष्यति ॥९॥
इत्येवमुक्त्वा गिरिजा प्रणम्य च महेश्वरम्।
अनुज्ञाता त्रिनेत्रेण दिवमेवोत्पपात ह ॥१०॥
समुत्पत्य च वेगेन हिमाद्रिशिखरं शिवम्।
टङ्कच्छिन्नं प्रयत्नेन विधात्रा निर्मितं तथा ॥११॥
ततोऽवतीर्य सस्मार जयां च विजयां तथा।
जयन्तीं च महापुण्यां चतुर्थीमपराजिताम् ॥१२॥
ताः संस्मृताः समाजग्मुः कालीं द्रष्टुं हि देवताः।
अनुज्ञातास्तथा देव्या शुश्रूषां चक्रिरे शुभाः ॥१३॥
ततस्तपसि पार्वत्यां स्थितायां हिमवद्वनात्।
समाजगाम तं देशं व्याघ्रो दंष्ट्रानखायुधः ॥१४॥
एकपादस्थितायां तु देव्यां व्याघ्रस्त्वचिन्तयत्।
यदा पतिष्यते चेयं तदा दास्यामि वै अहम् ॥१५॥
इत्येवं चिन्तयन्नेव दत्तदृष्टिर्मृगाधिपः।
पश्यमानस्तु वदनमेकदृष्टिरजायत ॥१६
ततो वर्षशतं देवी गृणन्ती ब्रह्मणः पदम्।
तपोऽतप्यत् ततोऽभ्यागात् ब्रह्मा त्रिभुवनेश्वरः ॥१७॥
पितामहस्ततोवाच देवीं प्रीतोऽस्मि शास्वते।
तपसा धूतपापाऽसि वरं वृणु यथेप्सितम् ॥१८॥
अथोवाच वचः काली व्याघ्रस्य कमलोद्भव।
वरदो भव तेनाहं यास्ये प्रीतिमनुत्तमाम् ॥१९॥
ततः प्रादाद् वरं ब्रह्मा व्याग्रस्याद्भुतकर्मणः।
गाणपत्यं विभौ भक्तिमजेयत्वं च धर्मिताम् ॥२०॥
वरं व्याघ्राय दत्वैवं शिवकान्तामथाब्रवीत्।
वृणीष्व वरमव्यग्रा वरं दास्ये तवाम्बिके ॥२१॥
ततो वरं गिरिसुता प्राह देवी पितामहम्।
वरः प्रदीयतां मह्यं वर्णं कनकसंनिभम् ॥२२॥
तथेत्युक्त्वा गतो ब्रह्मा पार्वती चाभवत् ततः।
कोशं कृष्णं परित्यज्य पद्मकिञ्जल्कसन्निभाः ॥२३॥
तस्मात् कोशाच्च संजाता भूयः कात्यायनी मुने।
तामभ्येत्य सहस्राक्षः प्रतिजग्राह दक्षिणाम्।
प्रोवाच गिरिजां देवो वाक्यं स्वार्थाय वासवः ॥२४॥
इन्द्र उवाच॥
इयं प्रदीयतां मह्यं भगिनी मेऽस्तु कौशिकी।
त्वत्कोशसंभवा चेयं कौशिकी कौशिकोऽप्यहम् ॥२५॥
तां प्रादादिति संश्रुत्य कौशिकीं रूपसंयुताम्।
सहस्राक्षोऽपि तां गृह्य विन्ध्यं वेगाज्जगाम च ॥२६॥
तत्र गत्वा त्वयोवाच तिष्ठस्वात्र महाबले।
पूज्यमाना सुरैर्नाम्ना ख्याता त्वं विन्ध्यवासिनी ॥२७॥
तत्र स्थाप्य हरिर्देवीं दत्त्वा सिंहं च वाहनम्।
भवामरारिहन्त्रीति उक्त्वा स्वर्गमुपागमत् ॥२८॥
उमाऽपि तं वरं लब्ध्वा मन्दरं पुनरेत्य च।
प्रणम्य च महेशानं स्थिता सविनयं मुने ॥२९॥
ततोऽमरगुरुः श्रीमान् पार्वत्या सहितोऽव्ययः।
तस्थौ व्रषसहस्रं हि महामोहनके मुने ॥३०॥
महामोहस्थिते रुद्रे भुवनाश्चेलुरुद्धताः।
चुक्षुभुः सागराः सप्त देवाश्च भयमागमन् ॥३१॥
ततः सुराः सहेन्द्रेण ब्रह्मणः सदनं गताः।
प्रणम्योचुर्महेशानं जगत् क्षुब्धं तु किं त्विदम् ॥३२॥
तानुवाच भवो नूनं महामोहनके स्थितः।
तेनाक्रान्तास्त्विमे लोका जग्मुः क्षोभं दुरत्ययम् ॥३३॥
इत्युक्त्वा सोऽभवत् तूष्णीं ततोऽप्यूचुः सुरा हरिम्।
आगच्छ शक्र गच्छामो यावत् तन्न समाप्यते ॥३४॥
समाप्ते मोह्वने बालो यः समुत्पस्यतेऽव्ययः।
स नूनं देवराजस्य पदमैन्द्रं हरिष्यति ॥३५॥
ततोऽमराणां वचनाद् विवेको बलघातिनः।
भयाज्ज्ञानं ततो नष्टं भाविकर्मप्रचोदनात् ॥३६॥
ततः शक्रः सुरैः सार्धं वह्निना च सहस्रदृक्।
जगाम मन्दरगिरिं तच्छृङ्गे न्यविशत्ततः ॥३७॥
अशक्ताः सर्व एवैते प्रवेष्टुं तद्भवाजिरम्।
चिन्तयित्वा तु सुचिरं पावकं ते व्यसर्जयन् ॥३८॥
स चाभ्येत्य सुरश्रेष्ठो दृष्ट्वा द्वारे च नन्दिनम्।
दुष्प्रवेशं च तं मत्वा चिन्तां वह्निः परां गतः ॥३९॥
स तु चिन्तार्णवे मग्नः प्रापश्यच्छंभुसद्मनः।
निष्क्रामन्तीं महापङ्तिं हंसानां विमलां तथा ॥४०॥
असावुपाय इत्युक्त्वा हंसरूपो हुताशनः।
वञ्चयित्वा प्रतीहारं प्रविवेश हराजिरम् ॥४१॥
प्रविश्य सूक्ष्ममूर्तिश्च शिरोदेशे कपर्दिनः।
प्राह प्रहस्य गम्भीरं देवा द्वारि स्थिता इति ॥४२॥
तच्छ्रत्वा सहसोत्थाय परित्यज्य गिरेः सुताम्।
विनिष्क्रान्तोऽजिराच्छर्वो वह्निना सह नारद ॥४३॥
विनिष्क्रान्ते सुरपतौ देवा मुदितमानसाः।
शिरोभिरवनीं जग्मुः सेन्द्रार्कशशिपावकाः ॥४४॥
ततः प्रीत्या सुरानाह वदध्वं कार्यमाशु मे।
प्रणामावनतानां वो दास्येऽहं वरमुत्तमम् ॥४५॥
देवा ऊचुः॥
यदि तुष्टोऽसि देवानां वरं दातुमिहेच्छसि।
तदिदं त्यज्यतां तावन्महामैथुनमीश्वर ॥४६॥
ईश्वर उवाच॥
एवं भवतु संत्यक्तो मया भावोऽमरोत्तमाः।
ममेदं तेज उद्रिक्तं कश्चिद् देवः प्रतीच्छतु ॥४७॥
पुलस्त्य उवाच॥
इत्युक्ताः शंभुना देवाः सेन्द्रचन्द्रदिवाकराः।
असीदन्त यथा मग्नाः पङ्के वृन्दारका इव ॥४८॥
सीदस्तु दैवतेष्वेवं हुताशोऽभ्येत्य शंकरम्।
प्रोवाच मुञ्च तेजस्त्वं प्रतीच्छाम्येष शंकर ॥४९॥
ततो मुमोच भगवांस्तद्रेतः स्कन्नमेव तु।
जलं तृषान्ते वै यद्वत् तैलपानं पिपासितः ॥५०॥
ततः पीते तेजसि वै शार्वे देवेन वह्निना।
स्वस्थाः सुराः समामन्त्र्य हरं जग्मुस्त्रिविष्टपम् ॥५१॥
संप्रयातेषु देवेषु हरोऽपि निजमन्दिरम्।
समभ्येत्य महादेवीमिदं वचनमब्रवीत् ॥५२॥
देवि देवैरिहाभ्येत्य यत्नात् प्रेष्य हुताशनम्।
नीतः प्रोक्तो निषिद्धस्तु पुत्रोत्पत्तिं तवोदरात् ॥५३॥
साऽपि भर्तुर्वचः श्रुत्वा क्रुद्धा रक्तान्तलोचना।
शशाप दैवतान् सर्वान् नष्टपुत्रोद्भवा शिवा ॥५४
यस्मान्नेच्छन्ति ते दुष्टा मम पुत्रमथौरसम्।
तस्मात् ते न जनिष्यन्ति स्वासु योषित्सु पुत्रकान् ॥५५॥
एवं शप्त्वा सुरान् गौरी शौचशालामुपागमत्।
आहूय मालिनीं स्नातुं मतिं चक्रे तपोधना ॥५६॥
मालिनी सुरभिं गृह्य श्लक्ष्णमुद्वर्तनं शुभा।
देव्यङ्गमुद्वर्तयते कराभ्यां कनकप्रभम्।
तत्स्वेदं पार्वती चैव मेने कीदृग्गुणेन हि ॥५७॥
मालिनी तूर्णमगमद् गृहं स्नानस्य कारणात्।
तस्यां गतायां शैलेयी मलाच्चक्रे गजाननम् ॥५८॥
चतुर्भुजं पीनवक्षं पुरुषं लक्षणान्वितम्।
कृत्वोत्ससर्ज भूम्यां च स्थिता भद्रासने पुनः ॥५९॥
मालिनी तच्छिरःस्नानं ददौ विहसती तदा।
ईषद्धासामुमा दृष्ट्वा मालिनीं प्राह नारद ॥६०॥
किमर्थं भीरु शनकैर्हससि त्वमतीव च।
साऽथोवाच हसाम्येवं भवत्यास्तनयः किल ॥६१॥
भविष्यतीति देवेन प्रोक्तो नन्दी गणाधिपः।
तच्छृत्वा मम हासोऽयं संजातोऽद्य कृशोदरि ॥६२॥
यस्माद् देवैः पुत्रकामः शंकरो विनिवारितः।
एतच्छ्रुत्वा वचो देवी सस्नौ तत्र विधानतः ॥६३॥
स्नात्वार्च्य शंकरं भक्त्या समभ्यागाद् गृहं प्रति।
ततः शंभुः समागत्य तस्मिन् भद्रासने त्वपि ॥६४॥
स्नातस्तस्य ततोऽधस्तात् स्थितः स मलपूरुषः।
उमास्वेदं भवस्वेदं जलभूतिसमन्वितम् ॥६५॥
तत्संपर्कात् समुत्तस्थौ फूत्कृत्य करमुत्तमम्।
अपत्यं हि विदित्वा च प्रीतिमान् भुवनेश्वरः ॥६६॥
तं चादाय हरो नन्दिमुवाच भगनेत्रहा।
रुद्रः स्नात्वार्च्य देवादीन् वाग्भिरद्भिः पितृनपि ॥६७॥
जप्त्वा सहस्रनामानमुमापार्श्वमुपागतः।
समेत्य देवीं विहसन् शंकरः शूलधृग् वः ॥६८॥
प्राह त्वं पश्य शैलेयि स्वसुतं गुणसंयुतम्।
इत्युक्ता पर्वतसुता समेत्यापश्यदद्भुतम् ॥६९॥
यत्तदङ्गमलाद्दिव्यं कृतं गजमुखं नरम्।
ततः प्रीता गिरिसुता तं पुत्रं परिषष्वजे ॥७०॥
मूर्ध्नि चैनमुपाघ्राय ततः शर्वोऽब्रवीदुमाम्।
नायकेन विना देवि तव भूतोऽपि पुत्रकः ॥७१॥
यस्माज्जातस्ततो नाम्ना भविष्यति विनायकः।
एष विघ्नसहस्राणि सुरादीनां करिष्यति ॥७२॥
पूजयिष्यन्ति चैवास्य लोका देवि चराचराः।
इत्येवमुक्त्वा देव्यास्तु दत्तवांस्तनयाय हि ॥७३॥
सहायं तु गणश्रेष्ठं नाम्ना ख्यातं घटोदरम्।
तथा मातृगणा घोरा भूता विघ्नकराश्च ये ॥७४॥
ते सर्वे परमेशेन देव्याः प्रीत्योपपादिताः।
देवी च स्वसुतं दृष्ट्वा परां मुदमवाप च ॥७५॥
रेमेऽथ शंभुना सार्धं मन्दरे चारुकन्दरे।
एवं भूयोऽभवद् देवी इयं कात्यायनी विभो।
या जघान महादैत्यौ पुरा शुम्भनिशुम्भकौ ॥७६॥
एतत् तवोक्तं वचनं शुभाख्यं यथोद्भवं पर्वततो मृडान्याः।
स्वर्ग्यं यशस्यं च तथाघहारि आख्यानमूर्जस्करमद्रिपुत्र्याः ॥७७॥
इति श्रीवामनपुराणे चतुष्पञ्चाषत्तमोऽध्यायः ॥५४॥
N/A
References : N/A
Last Updated : September 25, 2020
TOP