वामनपुराण - अध्याय ८५ वा
भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.
नारद उवाच॥
यान् जप्यान् भगवद् भक्त्या प्रह्लादो दानवोऽजपत्।
गजेन्द्रमोक्षणादींस्तु चतुरस्तान् वदस्व मे ॥१॥
पुलस्त्य उवाच॥
श्रृणुष्व कथयिष्यामि जप्यानेतांस्तपोधन।
दुःस्वप्ननाशो भवति यैरुक्तैः संश्रुतैः स्मृतैः ॥२॥
गजेन्द्रमोक्षणं त्वादौ श्रृणुष्व तदनन्तरम्।
सारस्वतं ततः पुण्यौ पापप्रशमनौ स्तवौ ॥३॥
सर्वरत्नमयः श्रीमांस्त्रिकूटो नाम पर्वतः।
सुतः पर्वतराजस्य सुमेरोर्भास्करद्युतेः ॥४
क्षीरोदजलवीच्यग्रैर्धौतामलशिलातलः।
उत्थितः सागरं भित्त्वा देवर्षिगणसेवितः ॥५॥
अप्सरोभिः परिवृतः श्रीमान् प्रस्रवणाकुलः।
गन्धर्वैः किन्नरैर्यक्षैः सिद्धचारणपन्नगैः ॥६॥
विद्याधरैः सपत्नीकैः संयतैश्च तपस्विभिः।
वृकद्वीपिगजेन्द्रश्च वृतगात्रो विराजते ॥७॥
पुन्नागैः कर्णिकारैश्च बिल्वामलकपाटलैः।
चूतनीपकदम्बैश्च चन्दनागुरुचम्पकैः ॥८॥
शालैस्तालैस्तमालैश्च सरलार्जुनपर्पटैः।
तथान्यैर्विविधैर्वृक्षैः सर्वतः समलंकृतः ॥९॥
नानाधात्वङ्कितैः श्रृङ्गैः प्रस्रवद्भिः समन्ततः।
शोभितो रुचिरप्रख्यैस्त्रिभिर्विस्तीर्णसानुभिः ॥१०॥
मृगैः शाखामृगैः सिंहैर्मातङ्गैश्च सदामदैः।
जीवंजीवकसंघुष्टैश्चकोरशिखिनादितैः ॥११॥
तस्यैकं काञ्चनं श्रृङ्गं सेवते यं दिवाकरः।
नानापुष्पसमाकीर्णं नानागन्धाधिवासितम् ॥१२॥
द्वितीयं राजतं श्रृङ्गं सेवते यं निशाकरः।
पाण्डुराम्बुदसंकाशं तुषारचयसंनिभम् ॥१३॥
वज्रेन्द्रनीलवैडूर्यतेजोभिर्भासयन् दिशः।
तृतीयं ब्रह्मसदनं प्रकृष्टं श्रृङ्गमुत्तमम् ॥१४॥
न तत्कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः।
नातप्ततपसो लोके ये च पापकृतो जनाः ॥१५॥
तस्य सानुमतः पृष्ठे सरः काञ्चनपङ्कजम्।
कारण्डवसमाकीर्णं राजहंसोपशोभितम् ॥१६॥
कुमुदोत्पलकह्लारैः पुण्डरीकैश्च मण्डितम्।
कमलैः शतपत्रैश्च काञ्चनैः समलङ्कृतम् ॥१७॥
पत्रैर्मरकतप्रख्यैः पुष्पैः काञ्चनसंनिभैः।
गुल्मैः कीचकवेणूनां समन्तात् परिवेष्टितम् ॥१८॥
तस्मिन् सरसि दुष्टात्मा विरूपोऽन्तर्जलेशयः।
आसीद् ग्राहो गजेन्द्राणां रिपुराकेकरेक्षणः ॥१९॥
अथ दन्तोज्ज्वलमुखः कदाचिद् गजयूथपः।
मदस्रावी जलाकाङ्क्षी पादचारीव पर्वतः ॥२०॥
वासयन्मदगन्धेन गिरिमैरावतोपमः।
गजो ह्यञ्जनसंकाशो मदाच्चलितलोचनः ॥२१॥
तृषितः पातुकामोऽसौ अवतीर्णश्च तज्जलम्।
सलीलः पङ्कजवने यूथमध्यगतश्चरन् ॥२२॥
गृहीतस्तेन रौद्रेण ग्राहेणाव्यक्तमूर्तिना।
पश्यन्तीनां करेणूनां क्रोशन्तीनां च दारुणम् ॥२३॥
ह्रियते पङ्कजवने ग्राहेणातिबलीयसा।
वारुणैः संयतः पाशैर्निष्प्रयत्नगतिः कृतः ॥२४॥
वेष्ट्यमानः सुघोरैस्तु पाशैर्नागो दृढैस्तथा।
विस्फूर्य च यथाशक्ति विक्रोसंश्च महारवान् ॥२५॥
व्यथितः स निरुत्साहो गृहीतो घोरकर्मणा।
परमापदमापन्नो मनसाऽचिन्तयद्धरिम् ॥२६॥
स तु नागवरः श्रीमन् नारायणपरायणः।
तमेव शरणं देवं गतः सर्वात्मना तदा ॥२७॥
एकात्मा निगृहीतात्मा विशुद्धेनान्तरात्मना।
जन्मजन्मान्तराभ्यासात् भक्तिमान् गरुडध्वजे ॥२८॥
नान्यं देवं महादेवात् पूजयामास केशवात्।
मथितामृतफेनाभं शंखचक्रगदाधरम् ॥२९॥
सहस्रशुभनामानमादिदेवमजं विभुम्।
प्रगृह्य पुष्कराग्रेण काञ्चनं कमलोत्तमम्।
आपद्विमोक्षमन्विच्छन् गजः स्तोत्रमुदीरयत् ॥३०॥
गजेन्द्र उवाच॥
ॐ नमो मूलप्रकृतये अजिताय महात्मने।
अनाश्रिताय देवाय निःस्पृहाय नमोऽस्तु ते ॥३१॥
नम आद्याय बीजाय आर्षेयाय प्रवर्तिने।
अन्तराय चैकाय अव्यक्ताय नमो नमः ॥३२॥
नमो गुह्याय गूढाय गुणाय गुणवर्तिने।
अप्रतर्क्याप्रमेयाय अतुलाय नमो नमः ॥३३॥
नमः शिवाय शान्ताय निश्चिन्ताय यशस्विने।
सनातनाय पूर्वाय पुराणाय नमो नमः ॥३४॥
नमो देवाधिदेवाय स्वभावाय नमो नमः।
नमो जगत्प्रतिष्ठाय गोविन्दाय नमो नमः ॥३५॥
नमोऽस्तु पद्मनाभाय नमो योगोद्भवाय च।
विश्वेश्वराय देवाय शिवाय हरये नमः ॥३६॥
नमोऽस्तु तस्मै देवाय निर्गुणाय गुणात्मने।
नारायणाय विश्वाय देवानां परमात्मने ॥३७॥
नमो नमः कारणवामनाय नारायणायामितविक्रमाय।
श्रीशार्ङ्गचक्रासिगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय ॥३८॥
गुह्याय वेदनिलयाय महोदराय सिंहाय दैत्यनिधनाय चतुर्भुजाय।
ब्रह्मेन्द्ररुद्रमुनिचारणसंस्तुताय देवोत्तमाय वरदाय नमोऽच्युताय ॥३९॥
नागेन्द्रदेहशयनासनसुप्रियाय गोक्षीरहेमशुकनीलघनोपमाय।
पीताम्बराय मधुकैटभनाशनाय विश्वाय चारुमुकुटाय नमोऽजराय ॥४०॥
नाभिप्रजातक्रमलस्थचतुर्मखाय श्रीरोदकार्णवनिकेतयशोधराय।
नानाविचित्रमुकुटाङ्गदभूषणाय सर्वेश्वराय वरदाय नमो वराय ॥४१॥
भक्तिप्रियाय वरदीप्तसुदर्शनाय फुल्लारविन्दविपुलायतलोचनाय।
देवेन्द्रविघ्नशमनोद्यतपौरुषाय योगेश्वराय विरजाय नमो वराय ॥४२॥
ब्रह्मायनाय त्रिदशायनाय लोकाधिनाथाय भवापनाय।
नारायणायात्महितायनाय महावराहाय नमस्करोमि ॥४३॥
कूटस्थमव्यक्तमचिन्त्यरूपं नारायणं कारणमादिदेवम्।
युगान्तशेषं पुरुषं पुराणं तं देवदेवं शरणं प्रपद्ये ॥४४॥
योगेश्वरं चारुविचित्रमोलिमज्ञेयमग्र्यं प्रकृतेः परस्थम्।
क्षेत्रज्ञमात्मप्रभवं वरेण्यं तं वासुदेवं शरणं प्रपद्ये ॥४५॥
अदृश्यमव्यक्तमचिन्त्यमव्ययं महर्षयो ब्रह्ममयं सनातनम्।
वदन्ति यं वै पुरुषं सनातनं तं देवगुह्यं शरणं प्रपद्ये ॥४६॥
यदक्षरं ब्रह्म वदन्ति सर्वगं निशम्य यं मृत्युमुखात् प्रमुच्यते।
तमीश्वरं तृप्तमनुत्तमैर्गुणैः परायणं विष्णुमुपैमि शाश्वतम् ॥४७॥
कार्यं क्रिया कारणमप्रमेयं हिरण्यबाहुं वरपद्मनाभम्।
महाबलं वेदनिधिं सुरेशं व्रजामि विष्णुं शरणं जनार्दनम् ॥४८॥
किरीटकेयूरमहार्हनिष्कैर्मण्युत्तमालंकृतसर्वगात्रम्।
पीताम्बरं काञ्चनभक्तिचित्रं मालाधरं केशवमभ्युपैमि ॥४९॥
भवोद्भवं वेदविदां वरिष्ठं योगात्मनां सांख्यविदां वरिष्ठम्।
आदित्यरुद्राश्विवसुप्रभावं प्रभुं प्रपद्येऽच्युतमात्मवन्तम् ॥५०॥
श्रीवत्साङ्कं महादेवं देवगुह्यमनौपमम्।
प्रपद्ये सूक्ष्ममचलं वरेण्यमभयप्रदम् ॥५१॥
प्रभवं सर्वभूतानां निर्गुणं परमेश्वरम्।
प्रपद्ये मुक्तसंगानां यतीनां परमां गतिम् ॥५२॥
भगवन्तं गुणाध्यक्षमक्षरं पुष्करेक्षणम्।
शरण्यं शरणं भक्त्या प्रपद्ये भक्तवत्सलम् ॥५३॥
त्रिविक्रमं त्रिलोकेशं सर्वेषां प्रपितामहम्।
योगात्मानं महात्मानं प्रपद्येऽहं जनार्दनम् ॥५४॥
आदिदेवमजं शंभुं व्यक्ताव्यक्तं सनातनम्।
नारायणमणीयांसं प्रपद्ये ब्राह्मणप्रियम् ॥५५॥
नमो वराय देवाय नमः सर्वसहाय च।
प्रपद्ये देवदेवेशमणीयांसमणोः सदा ॥५६॥
एकाय लोकतत्वाय परतः परमात्मने।
नमः सहस्रशिरसे अनन्ताय महात्मने ॥५७॥
त्वामेव परमं देवमृषयो वेदपारगाः।
कीर्तयन्ति च यं सर्वे ब्रह्मादीनां परायणम् ॥५८॥
नमस्ते पुण्डरीकाक्ष भक्तानामभयप्रदः
सुब्रह्मण्य नमस्तेऽस्तु त्राहि मां शरणागतम् ॥५९॥
पुलस्त्य उवाच॥
भक्तिं तस्यानुसंचिन्त्य नागस्यामोघसंभवः।
प्रीतिमानभवद् विष्णुः शङ्खचक्रगदाधरः ॥६०॥
सान्निध्यं कल्पयामास तस्मिन् सरसि केशवः।
गरुडस्थो जगत्स्वामी लोकाधारस्तपोधनः ॥६१॥
ग्राहग्रस्तं गजेन्द्रं तं तं च ग्राहं जलाशयात्।
उज्जहाराप्रमेयात्मा तरसा मधुसूदनः ॥६२॥
स्थलस्थं दारयामास ग्राहं चक्रेण माधवः।
मोक्षयामास नागेन्द्रं पाशेभ्यः शरणागतम् ॥६३॥
स हि देवलशापेन हूहूर्गन्धर्वसत्तमः।
ग्राहत्वमगमत् कृष्णाद् वधं प्राप्य दिवं गतः ॥६४॥
गजोऽपि विष्णुना स्पृष्टो जातो दिव्यवपुः पुमान्।
आपद्विक्तौ युगपद् गजगन्धर्वसत्तमौ ॥६५॥
प्रीतिमान् पुण्डरीकाक्षः शरणागतवत्सलः।
अभवत् त्वथ देवेशस्ताभ्यां चैव प्रपूजितः ॥६६॥
इदं च भगवान् योगी गजेन्द्रं शरणागतम्।
प्रोवाच मुनिशार्दूल मधुरं मधुसूदनः ॥ ६७॥
श्रीभगवानुवाच॥
यो मां त्वाञ्च सरश्चैव ग्राहस्य च विदारणम्।
गुल्मकीचकरेणूनां रूपं मेरोः सुतस्य च ॥६८॥
अश्वत्थं भास्करं गङ्गं नैमिषारण्यमेव च।
संस्मरिष्यन्ति मनुजाः प्रयताः स्थिरबुद्धयः ॥६९॥
कीर्तयिष्यन्ति भक्त्या च श्रोष्यन्ति च शुचिव्रतः।
दुःस्वप्नो नश्यते तेषां सुस्वप्नश्च भविष्यति ॥७०॥
मात्स्यं कौर्मञ्च वाराहं वामनं तार्क्ष्यमेव च।
नारसिंहं च नागेन्द्रं सृष्टिप्रलयकारकम् ॥७१॥
एतानि प्रातरुत्थाय संस्मरिष्यन्ति ये नराः।
सर्वपापैः प्रमुच्यन्ते पुण्यं लोकमवाप्नुयुः ॥७२॥
पुलस्त्य उवाच॥
एवमुक्त्वा हृषीकेशो गजेन्द्रं गरुडध्वजः।
स्पर्शयामास हस्तेन गजं गन्धर्वमेव च ॥७३॥
ततो दिव्यवपुर्भूत्वा गजेन्द्रो मधुसूदनम्।
जगाम शरणं विप्र नारायणपरायणः ॥७४॥
ततो नारायणः श्रीमान् मोक्षयित्वा गजोत्तमम्।
पापबन्धाच्च शापाच्च ग्राहं चाद्भुतकर्मकृत् ॥७५॥
ऋषिभिः स्तूयमानश्च देवगुह्यपरायणैः।
गतः स भगवान् विष्णुर्दुर्विज्ञेयगतिः प्रभुः ॥७६॥
गजेन्द्रमोक्षणं दृष्ट्वा देवाः शक्रपुरोगमाः।
ववन्दिरे महात्मानं प्रभुं नारायणं हरिम् ॥७७॥
महर्षयश्चारणाश्च दृष्ट्वा गजविमोक्षणम्।
विस्मयोत्फुल्लनयनाः संस्तुवन्ति जनार्दनम् ॥७८॥
प्रजापतिपतिर्ब्रह्मा चक्रपाणिविचेष्टितम्।
गजेन्द्रमोक्षणं दृष्ट्वा इदं वचनमब्रवीत् ॥७९॥
य इदं श्रृणुयान्नित्यं प्रातरुत्थाय मानवः।
प्राप्नुयात् परमां सिद्धिं दुःस्वप्नस्तस्य नश्यति ॥८०॥
गजेन्द्रमोक्षणं पुण्यं सर्वपापप्रणाशनम्।
कथितेन स्मृतेनाथ श्रुतेन च तपोधनः॥
गजेन्द्रमोक्षणेनेह सद्यः पापात् प्रमुच्यते ॥८१॥
एतत्पवित्रं परमं सुपुण्यं संकीर्तनीयं चरितं मुरारेः।
यस्मिन् किलोक्ते बहुपापबन्धनात् लभ्येत मोक्षो द्विरदेन यद्वत् ॥८२
अजं वरेण्यं वरपद्मनाभं नारायणं ब्रह्मनिधिं सुरेशम्।
तं देवगुह्यं पुरुषं पुराणं वन्दाम्यहं लोकपतिं वरेण्यम् ॥८३॥
पुलस्त्य उवाच॥
एतत् तवोक्तं प्रवरं स्तवानां स्तवं मुरारेर्वरनागकीर्तनम्।
यं कीर्त्य संश्रुत्य तथा विचिन्त्य पापापनोदं पुरुषो लभेत ॥८४॥
इति श्रीवामनपुराणे पञ्चाशीतितमोऽध्यायः ॥८५॥
N/A
References : N/A
Last Updated : September 26, 2020
TOP