संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय १३ वा

वामनपुराण - अध्याय १३ वा

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


सुकेशिरुवाच
भवद्भिरुदिता घोरा पुष्करद्वीपसंस्थितिः।
जम्बूद्वीपस्य संस्थानं कथयन्तु महर्षयः ॥१॥

ऋषय ऊचुः
जम्बूद्वीपस्य संस्थानं कथ्यमानं निशामय।
नवभेदं सुविस्तीर्णं स्वर्गमोक्षफलप्रदम् ॥२॥

मध्ये त्विलावृतो वर्षो भद्रश्वः पूर्वतोऽद्भुतः।
पूर्व उत्तरतश्चापि हिरण्यो राक्षसेश्वर ॥३॥

पूर्वदक्षिणतश्चापि किंनरो वर्ष उच्यते।
भारतो दक्षिणे प्रोक्तो हरिर्दक्षिणपश्चिमे ॥४॥

पश्चिमे केतुमालश्च रम्यकः पश्चिमोत्तरे।
उत्तरे च कुरुर्वर्षः कल्पवृक्षसमावृतः ॥५॥

पुण्या रम्या नवैवैते वर्षाः शालकटंकट।
इलावृताद्या ये चाष्टौ वर्षं मुक्त्वैव भारतम् ॥६॥

न तेष्वस्ति युगावस्था जरामृत्युभयं न च।
तेषां स्वाभाविकी सिद्धिः सुखप्राया ह्ययत्नतः।
विपर्ययो न तेष्वस्ति नोत्तमाधममध्यमाः ॥७॥

यदेतद् भारतं वर्षं नवद्वीपं निशाचर।
सागरान्तरिताः सर्वे अगम्याश्च परस्परम् ॥८॥

इन्द्रद्वीपः कसेरुमांस्ताम्रवर्णो गभस्तिमान्।
नागद्वीपः कटाहश्च सिंहलो वारुणस्तथा ॥९॥

अयं तु नवमस्तेषां द्वीपः सागरसंवृतः।
कुमाराख्यः परिख्यातो द्वीपोऽयं दक्षिणोत्तरः ॥१०॥

पूर्वे किराता यस्यान्ते पश्चिमे यवनाः स्थिताः।
आन्ध्रा दक्षिणतो वीर तुरुष्कास्त्वपि चोत्तरे ॥११॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्तरवासिनः।
इज्यायुद्धवणिज्याद्यैः कर्मभिः कृतपावनाः ॥१२॥

तेषां संव्यवहारश्च एभिः कर्मभिरिष्यते।
स्वर्गापवर्गप्राप्तिश्च पुण्यं पापं तथैव च  ॥१३॥

महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः।
विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः ॥१४॥

तथान्ये शतसाहस्रा भूधरा मध्यवासिनाः।
विस्तारोच्छ्रायिणो रम्या विपुलाः शुभसानवः ॥१५॥

कोलाहलः सवैभ्राजो मन्दरो दुर्दराचलः।
वातंधमो वैद्युतश्च मैनाकः सरसस्तथा ॥१६॥

तुङ्गप्रस्थो नागगिरिस्तथा गोवर्धनाचलः।
उज्जायनः पुष्पगिरिरर्बुदो रैवतस्तथा ॥१७॥

ऋष्यमूकः सगोमन्तश्चित्रकूटः कृतस्मरः।
श्रीपर्वतः कोङ्कणश्च शतशोऽन्येऽपि पर्वताः ॥१८॥

तैर्विमिश्रा जनपदा म्लेच्छा आर्याश्च भागशः।
तैः पीयन्ते सरिच्छ्रेष्ठा यास्ताः सम्यङ् निशामयः ॥१९॥

सरस्वती पञ्चरूपा कालिन्दी सहिरण्वती।
शतद्रुश्चन्द्रिका नीला वितस्तैरावती कुहूः ॥२०॥

मधुरा हाररावी च उशीरा धातुकी रसा।
गोमती धूतपापा च बाहुदा सदृषद्वती ॥२१॥

निश्चिरा गण्डकी चित्रा कौशिकी च वधूसरा।
सरयूश्च सलौहित्या हिमवत्पादनिःसृताः ॥२२

वेदस्मृतिर्वेदसिनी वृत्रघ्नी सिन्धुरेव च।
पर्णाशा नन्दिनी चैव पावनी च मही तथा ॥२३

पारा चर्मण्वती लूपी विदिशा वेणुमत्यपि।
सिप्रा ह्यवन्ती च तथा पारियात्राश्रयाः स्मृताः ॥२४॥

शोणो महानदश्चैव नर्मदा सुरसा कृपा।
मन्दाकिनी दशार्णा च चित्रकूटापवाहिका ॥२५॥

चित्रोत्पला वै तमसा करमोदा पिशाचिका।
तथान्या पिप्पलश्रोणी विपाशा वञ्जुलावती ॥२६॥

सत्सन्तजा शुक्तिमती मञ्जिष्ठा कृत्तिसा वसुः।
ऋक्षपादप्रसूता च तथान्या बलवाहिनी ॥२७॥

शिवा पयोष्णी निर्विन्ध्या तापी सनिषधावती।
वेण वैतरणी चैव सिनीबाहुः कुमुद्वती ॥२८॥

तोया चैव महागौरी दुर्गन्धा वाशिलाः तथा।
विन्ध्यपादप्रसूताश्च नद्यः पुण्यजलाः शुभाः ॥२९॥

गोदावरी भीमरथी कृष्णा वेणा सरस्वती।
तुङ्गभद्रा सुप्रयोगा वाह्या कावेरिरेव च ॥३०॥

दुग्धोदा नलिनी रेव वारिसेना कलस्वना।
एतास्त्वपि महानद्यः सह्यपादविनिर्गताः ॥३१॥

कृतमाला ताम्रपर्णी वञ्जुला चोत्पलावती।
सिनी चैव सुदामा च शुक्तिमत्प्रभवास्त्विमाः ॥३२॥

सर्वाः पुण्याः सरस्वत्यः पापप्रशमनास्तथा।
जगतो मातरः सर्वाः सर्वाः सागरयोषितः ॥३३॥

अन्याः सहस्रशश्चात्र क्षुद्रनद्यो हि राक्षस।
सदाकालवहाश्चान्याः प्रावृट्कालवहास्तथा।
उदङ्मध्योद्भवा देशाः पिबन्ति स्वेच्छया शुभाः ॥३४॥

मत्स्याः कुशट्टाः कुणिकुण्डलाश्च पाञ्चालकाश्याः सह कोसलाभिः ॥३५

वृकाः शबरकौवीराः सभूलिङ्गा जनास्त्विमे।
शकाश्चैव समशका मध्यदेश्या जनास्त्विमे ॥३६॥

बाह्लीका वाटधानाश्च आभीराः कालतोयकाः।
अपरान्तास्तथा शूद्राः पह्लवाश्च सखेटकाः ॥३७॥

गान्धारा यवनाश्चैव सिन्धुसौवीरमद्रकाः।
शातद्रवा ललित्थाश्च पारावतसमूषकाः ॥३८॥

माठरोदकधाराश्च कैकैया दशमास्तथा।
क्षत्रियाः प्रातिवैश्याश्च वैश्यशूद्रकुलानि च ॥३९॥

काम्बोजा दरदाश्चैव बर्बरा ह्यङ्गलौकिकाः।
चीनाश्चैव तुषाराश्च बहुधा बाह्यतोदराः ॥४०॥

आत्रेयाः सभरद्वाजाः प्रस्थलाश्च दशेरकाः।
लम्पकास्तावकारामाः शूलिकास्तङ्गणैः सह ॥४१॥

औरसाश्चालिमद्राश्च किरातानां च जातयः।
तामसाः क्रममासाश्च सुपार्श्वाः पुण्ड्रकास्तथा ॥४२॥

कुलूताः कुहुका ऊर्णास्तूणीपादाः सुकुक्कुटाः।
माण्डव्या मालवीयाश्च उत्तरापथवासिनः ॥४३॥

अङ्गा वङ्गा मुद्गरवास्त्वन्तर्गिरिबहिर्गिराः।
तथा प्रवङ्गा वाङ्गेया मांसादा बलदन्तिकाः ॥४४॥

ब्रह्मोत्तरा प्राविजया भार्गवाः केशबर्बराः।
प्रग्ज्योतिषाश्च शूद्रश्च विदेहास्ताम्रलिप्तकाः ॥४५॥

माला मगधगोनन्दाः प्राच्य जनपदास्त्विमे।
पुण्ड्राश्च केरलाश्चैव चौडाः कुल्याश्च राक्षस ॥४६॥

जातुषा मूषिकादाश्च कुमारादा महाशकाः।
महाराष्ट्रा माहिषिकाः कालिङ्गाश्चैव सर्वशः ॥४७॥

आभीराः सह नैषीका आरण्याः शबराश्च ये।
बलिन्ध्या विन्ध्यमौलेया वैदर्भा दण्डकैः सह ॥४८॥

पौरिकः सौशिकाश्चैव अश्मका भोगवर्द्धनाः।
वैषिकाः कुन्दला अन्ध्रा उद्भिदा नलकारकाः।
दाक्षिणात्या जनपदास्त्विमे शालकटङ्कटः ॥४९॥

सूर्पारका कारिवना दुर्गास्तालीकटैः सह।
पुलीयाः ससिनीलाश्च तापसास्तामसास्तथा ॥५०॥

कारस्करास्तु रमिनो नासिक्यान्तरनर्मदाः।
भारकच्छाः समाहेयाः सह सारस्वतैरपि ॥५१॥

वात्सेयाश्च सुराष्ट्राश्च आवन्त्याश्चार्बुदैः सह।
इत्येते पश्चिमामाशां स्थिता जानपदा जनाः। ॥५२॥

कारुषाश्चैकलव्याश्च मेकलाश्चोत्कलैः सह।
उत्तमर्णा दशार्णाश्च भोजाः किंकवरैः सह ॥५३॥

तोशला कोशलाश्चैव त्रैपुराश्चैल्लिकास्तथा।
तुरुसास्तुम्बराश्चैव वहनाः नैषधैः सह ॥५४॥

अनूपास्तुण्डिकेराश्च वीतहोत्रास्त्ववन्तयः।
सुकेशे वन्ध्यमूलस्थस्त्विमे जनपदाः स्मृताः ॥५५॥

अथो देशान् प्रवक्ष्यामः पर्वताश्रयिणस्तु ये।
निराहारा हंसमार्गाः कुपथास्तङ्गणाः खशाः ॥५६

कुथप्रावरणाश्चैव ऊर्णाः पुण्याः सहूहुकाः।
त्रिगर्त्ताश्च किराताश्च तोमराः शिशिराद्रिकाः ॥५७॥

इमे तवोक्ता विषयाः सुविस्तराद् द्वीपे कुमारे रजनीचरेश।
एतेषु देशेषु च देशधर्मान् संकीर्त्यमानान् श्रृणु तत्त्वतो हि ॥५८॥

इति श्रीवामनपुराणे त्रयोदशोऽध्यायः ॥ १३ ॥

N/A

References : N/A
Last Updated : September 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP