वामनपुराण - अध्याय १६ वा
भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.
नारद उवाच
यानेतान् भगवान् प्राह कामिभिः शशिनं प्रति।
आराधनाय देवाभ्यां हरीशाभ्यां वदस्व तान् ॥१॥
पुलस्त्य उवाच
श्रृणुष्व कामिभिः प्रोक्तान् व्रतान् पुण्यान् कलिप्रिय।
आराधनाय शर्वस्य केशवस्य च धीमतः ॥२॥
यदा त्वाषाढी संयाति व्रजते चोत्तरायणम्।
तदा स्वपिति देवेशो भोगिभोगे श्रियः पतिः ॥३॥
प्रतिसुप्ते विभौ तस्मिन् देवगन्धर्वगुह्यकाः।
देवानां मातरश्चापि प्रसुप्ताश्चाप्यनुक्रमात् ॥४॥
नारद उवाच
कथयस्व सुरादीनां शयने विधिमुत्तमम्।
सर्वमनुक्रमेणैव पुरस्कृत्य जनार्दनम् ॥५॥
पुलस्त्य उवाच
मिथुनाभिगते सूर्ये शुक्लपक्षे तपोधन।
एकादश्यां जगत्स्वामी शयनं परिकल्पयेत् ॥६॥
शेषाहिभोगपर्यङ्कं कृत्वा संपूज्य केशवम्।
कृत्वोपवीतकं चैव सम्यक्संपूज्य वै द्विजान् ॥७॥
अनुज्ञां ब्राह्मणेभ्यश्च द्वादश्यां प्रयतः शुचिः।
लब्ध्वा पीताम्बरधरः स्वस्ति निद्रां समानयेत् ॥८॥
त्रयोदश्यां ततः कामः स्वपते शयने शुभे।
कदम्बानां सुगन्धानां कुसुमैः परिकल्पिते ॥९॥
चतुर्दश्यां ततो यक्षाः स्वपन्ति सुखशीतले।
सौवर्णपङ्कजकृते सुखास्तीर्णोपधानके ॥१०
पौर्णमास्यामुमानाथः स्वपते चर्मसंस्तरे।
वैयाघ्रे च जटाभारं समुद्ग्रन्थ्यान्यचर्मणा ॥११॥
ततो दिवाकरो राशिं संप्रयाति च कर्कटम्।
ततोऽमराणां रजनी भवते दक्षिणायनम् ॥१२॥
ब्रह्मा प्रतिपदि तथा नीलोत्पलमयेऽनघ।
तल्पे स्वपिति लोकानां दर्शयन् मार्गमुत्तमम् ॥१३॥
विश्वकर्मा द्वितीयायां तृतीयायां गिरेः सुता।
विनायकश्चतुर्थ्यां तु पञ्चम्यामपि धर्मराट् ॥१४॥
षष्ठ्यां स्कन्दः प्रस्वपिति सप्तम्यां भगवान् रविः।
कात्यायनी तथाष्टम्यां नवम्यां कमलालया ॥१५॥
दशम्यां भुजगेन्द्राश्च स्वपन्ते वायुभोजनाः।
एकादश्यां तु कृष्णायां साध्या ब्रह्मन् स्वपन्ति च ॥१६॥
एष क्रमस्ते गदितो नभादौ स्वपने मुने।
स्वपत्सु तत्र देवेषु प्रावृट्कालः समाययौ ॥१७॥
कङ्काः समं बलाकाभिरारोहन्ति नगोत्तमान्।
वायसाश्चापि सुर्वन्ति नीडानि ऋषिपुंगव।
वायसाश्च स्वपन्त्येते ऋतौ गर्भभरालसाः ॥१८॥
यस्यां तिथ्यां प्रस्वपिति विश्वकर्मा प्रजापतिः।
द्वितीया सा शुभा पुण्या अशून्यशयनोदिता ॥१९॥
तस्यां तिथावर्च्य हरिं श्रीवत्साङ्कं चतुर्भुजम्।
पर्यङ्कस्थं समं लक्ष्म्या गन्धपुष्पादिभिर्मुने ॥२०॥
ततो देवाय शय्यायां फलानि प्रक्षिपेत् क्रमात्।
सुरभीणी निवेद्येत्थं विज्ञाप्यो मधुसूदनः ॥२१॥
यथा हि लक्ष्म्या न वियुज्यसे त्वं त्रिविक्रमानन्त जगन्निवास।
तथाऽस्त्वशून्यं शयनं सदैव अस्माकमेवेह तव प्रसादात् ॥२२॥
यथा त्वशून्यं तव देव तल्पं समं हि लक्ष्म्या वरदाच्युतेश।
सत्येन तेनामितवीर्य विष्णो गार्हस्थ्यनाशो मम नास्तु देव ॥२३॥
इत्युच्चार्य प्रणम्येशं प्रसाद्य च पुनः पुनः।
नक्तां भुञ्जीत देवर्षे तैलक्षारविवर्जितम् ॥२४॥
द्वितीयेऽह्नि द्विजाग्र्याय फलान् दद्याद् विचक्षणः।
लक्ष्मीधरः प्रीयतां मे इत्युच्चार्य निवेदयेत् ॥२५॥
अनेन तु विधानेन चातुर्मास्यव्रतं चरेत्।
यावद् वृश्चिकराशिस्थः प्रतिभाति दिवाकरः ॥२६॥
ततो विबुध्यन्ति सुराः क्रमशः क्रमशो मुने।
तुलास्थेऽर्के हरिः कामः शिवः पश्चाद्विबुध्यते ॥२७॥
तत्र दानं द्वितीयायां मूर्त्तिर्लक्ष्मीधरस्य तु।
सशय्यास्तरणोपेता यथा विभवमात्मनः ॥२८॥
एष व्रतस्तु प्रथमः प्रोक्तस्तव महामुने।
यस्मिंश्चीर्णे वियोगस्तु न भवेदिह कस्यचित् ॥२९॥
नभस्ये मासि च तथा या स्यात्कृष्णाष्टमी शुभा।
युक्ता मृगशिरेणैव सा तु कालाष्टमी स्मृता ॥३०॥
तस्यां सर्वेषु लिङ्गेषु तिथौ स्वपिति शंकरः।
वसते संनिधाने तु तत्र पूजाऽक्षया स्मृता ॥३१॥
तत्र स्नायीत वै विद्वान् गोमूत्रेण जलेन च।
स्नातः संपूजयेत् पुष्पैर्धत्तूरस्य त्रिलोचनम् ॥३२॥
धूपं केसरनिर्यासं नैवेद्यं मधुसर्पिषी।
प्रीयतां मे विरूपाक्षस्त्वित्युच्चार्य च दक्षिणाम्।
विप्राय दद्यान्नैवेद्यं सहिरण्यं द्विजोत्तम ॥३३॥
तद्वदाश्वयुजे मासि उपवासी जितेन्द्रियः।
नवम्यां गोमयस्नानं कुर्यात्पूजां तु पङ्कजैः।
धूपयेत् सर्जनिर्यासं नैवेद्यं मधुमोदकैः ॥३४॥
कृतोपवासस्त्वष्टम्यां नवम्यां स्नानमाचरेत्।
प्रीयतां मे हिरण्याक्षो दक्षिणा सतिला स्मृता ॥३५॥
कार्त्तिके पयसा स्नानं करवीरेण चार्चनम्।
धूपं श्रीवासनिर्यासं नैवेद्यं मधुपायसम् ॥३६॥
सनैवेद्यं च रजतं दातव्यं दानमग्रजे।
प्रीयतां भगवान् स्थाणुरिति वाच्यमनिष्ठुरम् ॥३७॥
कृत्वोपवासमष्टम्यां नवम्यां स्नानमाचरेत्।
मासि मार्गशिरे स्नानं दध्नार्चा भद्रया स्मृता ॥३८॥
धूपं श्रीवृक्षनिर्यासं नैवेद्यं मधुनोदनम्।
संनिवेद्या रक्तशालिर्दक्षिणा परिकीर्त्तिता।
नमोऽस्तु प्रीयतां शर्वस्त्विति वाच्यं च पण्डितैः ॥३९॥
पौषे स्नानं च हविषा पूजा स्यात्तगरैः शुभैः।
धूपो मधुकनिर्यासो नैवेद्यं मधु शष्कुली ॥४०॥
समुद्गा दक्षिणा प्रोक्ता प्रीणनाय जगद्गुरोः।
वाच्यं नमस्ते देवेश त्र्यम्बकेति प्रकीर्तयेत् ॥४१॥
माघे कुशोदकस्नानं मृगमदेन चार्चनम्।
धूपः कदम्बनिर्यासो नैवेद्यं सतिलोदनम् ॥४२॥
पयोभक्तं सनैवेद्यं सरुक्मं प्रतिपादयेत्।
प्रीयतां मे महादेव उमापतिरितीरयेत् ॥४३॥
एवमेव समुद्दिष्टं षड्भिर्मासैस्तु पारणम्।
पारणान्ते त्रिनेत्रस्य स्नपनं कारयेत्क्रमात् ॥४४॥
गोरोचनायाः सहिता गुडेन देवं समालभ्य च पूजयेत।
प्रीयस्व दीनोऽस्मि भवन्तमीश मच्छोकनाशं प्रकुरुष्व योग्यम् ॥४५॥
ततस्तु फाल्गुने मासि कृष्णाष्टम्यां यतव्रत।
उपवासं समुदीतं कर्तव्यं द्विजसत्तम ॥४६॥
द्वितीयेऽह्नि ततः स्नानं पञ्चगव्येन कारयेत्।
पूजयेत्कुन्दकुसुमैर्धूपयेत् चन्दनं त्वपि ॥४७॥
नैवेद्यं सघृतं दद्यात् ताम्रपात्रे गुडोदनम्।
दक्षिणां च द्विजातिभ्यो नैवेद्यसहितां मुने।
वासोयुगं प्रीणयेच्च रुद्रमुच्चार्य नामतः ॥४८॥
चैत्रे चोदुम्बरफलैः स्नानं मन्दारकार्चनम्।
गुग्गुलुं महिषाख्यं च घृताक्तं धूपयेद् बुधः ॥४९॥
समोदकं तथा सर्पिः प्रीणनं विनिवेदयेत्।
दक्षिणा च सनैवेद्यं सृगाजिनमुदाहृतम् ॥५०॥
नाट्येश्वर नमस्तेऽस्तु इदमुच्चार्य नारद।
प्रीणनं देवनाथाय कुर्याच्छ्रद्धासमन्वितः ॥५१॥
वैशाखे स्नानमुदितं सुगन्धकुसुमाम्भसा।
पूजनं शंकरस्योक्तं चूतमञ्जरिभिर्विभो ॥५२॥
धूपं सर्जाज्ययुक्तं च नैवेद्यं सफलं घृतम्।
नामजप्यमपीशस्य कालघ्नेति विपश्चिता ॥५३॥
जलकुम्भान् सनैवेद्यान् ब्राह्मणाय निवेदयेत्।
सोपवीतान् सहान्नाद्यांस्तच्चित्तैस्तत्परायणैः ॥५४॥
ज्येष्ठे स्नानं चामलकैः पूजाऽर्ककुसुमैस्तथा।
धूपयेत्तत्त्रिनेत्रं च आयत्यां पुष्टिकारकम् ॥५५
सक्तूंश्च सघृतान् देवे दध्नाक्तान् विनिवेदयेत्।
उपानद्यगलं छत्रं दानं दद्याच्च भक्तिमान् ॥५६॥
नमस्ते भगनेत्रघ्न पूष्णो दशननाशन।
इदमुच्चारयेद्भक्त्या प्रीणनाय जगत्पतेः ॥५७॥
आषाढे स्नानमुदितं श्रीफलैरर्चनं तथा।
धत्तूरकुसुमैः शुक्लैर्धूपयेत् सिल्हकं तथा ॥५८॥
नैवेद्याः सघृताः पूपाः दक्षिणा सघृता यवाः।
नमस्ते दक्षयज्ञघ्न इदमुच्चैरुदीरयेत् ॥५९॥
श्रावणे मृगभोज्येन स्नानं कृत्वाऽर्चयेद्धरम्।
श्रीवृक्षपत्रः सफलैर्धूपं दद्यात् तथाऽगुरुम् ॥६०॥
नैवेद्यं सघृतं दद्यात् दधि पूपान् समोदकान्।
दध्योदनं सकृसरं माषधानाः सशष्कुलीः ॥६१॥
दक्षिणां श्वेतवृषभं धेनुं च कपिलां शुभाम्।
कनकं रक्तवसनं प्रदद्याद् ब्राह्मणाय हि।
गङ्गाधरेति जप्तव्यं नाम शंभोश्च पण्डितैः ॥६२॥
अमीभिः षड्भिरपरैर्मासैः पारणमुत्तमम्।
एवं संवत्सरं पूर्णं संपूज्य वृषभध्वजम्।
अक्षयान् लभते कामान् महेश्वरवचो यथा ॥६३॥
इदमुक्तं व्रतं पुण्यं सर्वाक्षयकरं शुभम्।
स्वयं रुद्रेण देवर्षे तत्तथा न तदन्यथा ॥६४॥
इति श्रीवामनपुराणे षोडशोऽध्यायः ॥ १६ ॥
N/A
References : N/A
Last Updated : September 25, 2020
TOP