संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय ३९ वा

वामनपुराण - अध्याय ३९ वा

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


लोमहर्षण उवाच
ततस्त्वौशनसं तीर्थं गच्छेत्तु श्रद्धयान्विताः
उशना यत्र संसिद्धो ग्रहत्वं च समाप्तवान् ॥१॥
तस्मिन् स्नात्वा विमुक्तस्तु पातकैर्जन्मसंभवैः
ततो याति परं ब्रह्म यस्मान्नावर्तते पुनः ॥२॥
रहोदरो नाम मुनिर्यत्र मुक्तो बभूव ह
महता शिरसा ग्रस्तस्तीर्थमाहात्म्यदर्शनात् ॥३॥
ऋषय ऊचुः
कथं रहोदरो ग्रस्तः कथं मोक्षमवाप्तवान्
तीर्थस्य तस्य माहात्म्यमिच्छामः श्रोतुमादरात् ॥४॥
लोमहर्षण उवाच
पुरा वै दण्डकारण्ये राघवेण महात्मना
वसता द्विजशार्दूला राक्षसास्तत्र हिंसिताः ॥५॥
तत्रैकस्य शिरश्छिन्नं राक्षसस्य दुरात्मनः
क्षुरेण शितधारेण तत् पपात महावने ॥६॥
रहोदरस्य तल्लग्नं जङ्घायां वै यदृच्छया
वने विचरतस्तत्र अस्थि भित्त्वा विवेश ह ॥७॥
स तेन लग्नेन तदा द्विजातिर्न शशाक ह
अभिगन्तुं महाप्राज्ञस्तीर्थान्यायतनानि च ॥८॥
स पूतिना विस्रवता वेदनार्त्तो महामुनिः
जगाम सर्वतीर्थानि पृथिव्यां यानि कानि च ॥९॥
ततः स कथयामास ऋषीणां भावितात्मनाम्
तेऽब्रुवन् ऋषयो विप्रं प्रयाह्यौशनसं प्रतिः ॥१०॥
तेषां तद्वचनं श्रुत्वा जगाम स रहोदरः
ततस्त्वैशनसे तीर्थे तस्योपस्पृशतस्तदा ॥११॥
तच्छिरश्चरणं मुक्त्वा पपातान्तर्जले द्विजाः
ततः स विरजो भूत्वा पूतात्मा वीतकल्मषः ॥१२॥
आजगामाश्रमं प्रीतः कथयामास चाखिलम्
ते श्रुत्वा ऋषयः सर्वे तीर्थमाहात्म्यमुत्तमम्
कपालमोचनमिति नाम चक्रुः समागताः ॥१३॥
तत्रापि सुमहत्तीर्थं विश्वामित्रस्य विश्रुतम्
ब्राह्मण्यं लब्धवान् यत्र विश्वामित्रो महामुनिः ॥१४॥
तस्मिंस्तीर्थवरे स्नात्वा ब्राह्मण्यं लभते ध्रुवम्
ब्राह्मणस्तु विशुद्धात्मा परं पदमवाप्नुयात् ॥१५॥
ततः पृथूदकं गच्छेन्नियतो नियताशनः
तत्र सिद्धस्तु ब्रह्मर्षी रुषङ्गुर्नाम नामतः ॥१६॥
जातिस्मरो रुषङ्गुस्तु गङ्गाद्वारे सदा स्थितः
अन्तकालं ततो दृष्ट्वा पुत्रान् वचनमब्रवीत्
इह श्रेयो न पश्यामि नयध्वं मां पृथूदकम् ॥१७॥
विज्ञाय तस्य तद्भावं रुषङ्गोस्ते तपोधनाः
तं वै तीर्थे उपानिन्युः सरस्वत्यास्तपोधनम् ॥१८॥
स तैः पुत्रैः समानीतः सरस्वत्यां समाप्लुतः
स्मृत्वा तीर्थगुणान् सर्वान् प्राहेदमृषिसत्तमः ॥१९॥
सरस्वत्युत्तरे तीर्थे यस्त्यजेदात्मनस्तनुम्
पृथूदके जप्यपरो नूनं चामरतां व्रजेत् ॥२०॥
तत्रैव ब्रह्मयोन्यस्ति ब्रह्मणा यत्र निर्मिता
पृथूदकं समाश्रित्य सरस्वत्यास्तटे स्थितः ॥२१॥
चातुर्वर्ण्यस्य सृष्ट्यर्थमात्मज्ञानपरोऽभवत्
तस्याभिध्यायतः सृष्टिं ब्रह्मणोऽव्यक्तजन्मनः २२॥
मुखतो ब्राह्मणा जाता बाहुभ्यां क्षत्रियास्तथा
ऊरुभ्यां वैश्यजातीयाः पद्भ्यां शूद्रा स्ततोऽभवन् ॥२३॥
चातुर्वर्ण्यं ततो दृष्ट्वा आश्रमस्थं ततस्ततः
एवं प्रतिष्ठितं तीर्थं ब्रह्मयोनीति संज्ञितम् ॥२४॥
तत्र स्नात्वा मुक्तिकामः पुनर्योनिं न पश्यति
तत्रैव तीर्थं विख्यातमवकीर्णेति नामतः ॥२५॥
यस्मिन् तीर्थे बको दाल्भ्यो धृतराष्ट्रममर्षणम्
जुहाव वाहनैः सार्धं तत्राबुध्यत् ततो नृपः ॥२६॥
ऋषय ऊचुः
कथं प्रतिष्ठितं तीर्थमवकीर्णेति नामतः
धृतराष्ट्रेण राज्ञा च स किमर्थं प्रसादितः ॥२७॥
लोमहर्षण उवाच
ऋषयो नैमिषेया ये दक्षिणार्थं ययुः पुरा
तत्रैव च बको दाल्भ्यो धृतराष्ट्रमयाचत ॥२८॥
तेनापि तत्र निन्दार्थमुक्तं पश्वनृतं तु यत्
ततः क्रोधेन महता मांसमुत्कृत्य तत्र ह ॥२९॥
पृथूदके महातीर्थे अवकीर्णेति नामतः
जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेस्ततः ॥३०॥
हूयमाने तदा राष्ट्रे प्रवृत्ते यज्ञकर्मणि
अक्षियत ततो राष्ट्रं नृपतेर्दुष्कृतेन वै ॥३१॥
ततः स चिन्तयामास ब्राह्मणस्य विचेष्टितम्
पुरोहितेन संयुक्तो रत्नान्यादाय सर्वशः ॥३२॥
प्रसादनार्थं विप्रस्य ह्यवकीर्णं ययौ तदा
प्रसादितः स राज्ञा च तुष्टः प्रोवाच तं नृपम् ॥३३॥
ब्राह्मणा नावमन्तव्याः पुरुषेण विजानता
अवज्ञातो ब्राह्मणस्तु हन्यात् त्रिपुरुषं कुलम् ॥३४॥
एवमुक्त्वा स नृपतिं राज्येन यशसा पुनः
उत्थापयामास ततस्तस्य राज्ञो हिते स्थितः ॥३५॥
तस्मिंस्तीर्थे तु यः स्नाति श्रद्दधानो जितेन्द्रि यः
स प्राप्नोति नरो नित्यं मनसा चिन्तितं फलम् ॥३६॥
तत्र तीर्थं सुविख्यातं यायातं नाम नामतः
यस्येह यजमानस्य मधु सुस्राव वै नदी ॥३७॥
तस्मिन् स्नातो नरो भक्त्या मुच्यते सर्वकिल्बिषैः
फलं प्राप्नोति यज्ञस्य अश्वमेधस्य मानवः ॥३८॥
मधुस्रवं च तत्रैव तीर्थं पुण्यतमं द्विजाः
तस्मिन् स्नात्वा नरो भक्त्या मधुना तर्पयेत् पितॄन् ॥३९॥
तत्रापि सुमहत्तीर्थं वसिष्ठोद्वाहसंज्ञितम्
तत्र स्नातो भक्तियुक्तो वासिष्ठं लोकमाप्नुयात् ॥४०॥
इति श्रीवामनपुराणे सरोमाहात्म्ये नवत्रिंशात्तमोऽध्यायः ॥३९॥

N/A

References : N/A
Last Updated : September 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP