संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय ८१ वा

वामनपुराण - अध्याय ८१ वा

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


पुलस्त्य उवाच॥
इरावतीमनुप्राप्य पुण्यां तामृषिकन्यकाम्।
स्नात्वा संपूजयामास चैत्राष्टम्यां जनार्दनम् ॥१॥

नक्षत्रपुरुषं तीर्त्वा व्रतं पुण्यप्रदं शुचिः।
जगाम स कुरुक्षेत्रं प्रह्लादो दानवेश्वरः ॥२॥

ऐरावतेन मन्त्रेण चक्रतीर्थं सुदर्शनम्।
उपामन्त्र्य ततः सस्नौ वेदोक्तविधिना मुने ॥३॥

उपोष्य क्षणदां भक्त्या पूजियत्वा कुरुध्वजम्।
कृतशौचौ जगामाथ द्रष्टुं पुरुषकेसरिम् ॥४॥

स्नात्वा तु देविकायां च नृसिंहं प्रतिपूज्य च।
तत्रोष्य रजनीमेकां गोकर्णं दानवो ययौ ॥५॥

तस्मिन् स्नात्वा तथा प्राचीं पूज्येशं विश्वकर्मिणम्।
प्राचीने चापरे दैत्यो द्रष्टुं कामेश्वरं ययौ ॥६॥

तत्र स्नात्वा च दृष्ट्वा च पूजयित्वा च शंकरम्।
द्रष्टुं ययौ च प्रह्लादः पुण्डरीकं महाम्भसि ॥७॥

तत्र स्नात्वा च दृष्ट्वा च संतर्प्य पितृदेवताः।
पुण्डरीकं च संपूज्य उवास दिवसत्रयम् ॥८॥

विशाखयूपे तदनु दृष्ट्वा देवं तथाजितम्।
स्नात्वा तथा कृष्णतीर्थे त्रिरात्रं न्यवसच्छुचिः ॥९॥

ततो हंसपदे हंसं दृष्ट्वा संपूज्य चेश्वरम्।
जगामासौ पयोष्णायामखण्डं द्रष्टुमीश्वरम् ॥१०॥

स्नात्वा पयोष्ण्याः सलिले पूज्याखण्डं जगत्पतिम्।
द्रष्टुं जगाम मतिमान् वितस्तायां कुमारिलम् ॥११॥

तत्र स्नात्वाऽर्च्य देवेशं वालखिल्यैर्मरीचिषैः।
आराध्यामानं यद्यत्र कृतं पापप्रणाशनम् ॥१२॥

यत्र सा सुरभिर्देवी स्वसुतां कपिलां शुभाम्।
देवप्रियार्थमसृजद्धितार्थं जगतस्तथा ॥१३॥

तत्र देवह्रदे स्नात्वा शंभुं संपूज्य भक्तितः।
विधिवद्दधि च प्राश्य मणिमन्तं ततो ययौ ॥१४॥

तत्र तीर्थवरे स्नात्वा प्राजापत्ये महामतिः॥
ददर्श शंभुं ब्रह्माणं देवेशं च प्रजापतिम् ॥१५॥

विधानतस्तु तान् देवान् पूजयित्वा तपोधन।
षड्‌रात्रं तत्र च स्थित्वा जगाम मधुनन्दिनीम् ॥१६॥

मधुमत्सलिले स्नात्वा देवं चक्रधरं हरम्।
शूलबाहुं च गोविन्दं ददर्श दनुपुंगवः ॥१७॥

नारद उवाच॥
किमर्थं भगवान् शम्भुर्दधाराथ सुदर्शनम्।
शूलं तथा वासुदेवो ममैतद् ब्रूहि पृच्छतः ॥१८॥

पुलस्त्य उवाच॥
श्रूयतां कथयिष्यामि कथामेतां पुरातनीम्।
कथयामास यां विष्णुर्भविष्यमनवे पुरा ॥१९॥

जलोद्भवो नाम महासुरेन्द्रो घोरं स तप्त्वा तप उग्रवीर्यः।
आराधयामास विरञ्चिमारात् स तस्य तुष्टो वरदो बभूव ॥२०॥

देवासुराणामजयो महाहवे निजैश्च शस्त्रैरमरैरवध्यः।
ब्रह्मर्षिशापैश्च निरीप्सितार्थो जले च वह्नौ स्वगुणोपहर्त्ता ॥२१॥

एवं प्रभावो दनुपुंगवोऽसौ देवान् महर्षीन् नृपतीन् समग्रान्।
आबाधमानो विचचार भूम्यां सर्वाः क्रिया नाशयदुग्रमूर्तिः ॥२२॥

ततोऽमरा भूमिभवाः सभूपाः जग्मुः शरण्यं हरिमीशितारम्।
तैश्चापि सार्द्धं भगवाञ्जगाम हिमालयं यत्र हरस्त्रिनेत्रः ॥२३॥

संमन्त्र्य देवर्षिहितं च कार्यं मतिं च कृत्वा निधनाय शत्रोः।
निजायुधानां च विपर्ययं तौ देवाधिपौ चक्रतुरुग्रकर्मिणौ ॥२४॥

ततश्चासौ दानवो विष्णुशर्वौ समायातौ तज्जिघांसू सुरेशौ।
मत्वाऽजेयौ शत्रुभिर्घोररुपौ भयास्तोये निम्नगायां विवेश ॥२५॥

ज्ञात्वा प्रनष्टं त्रिदिवेन्द्रशत्रुं नदीं विशालां मधुमत्सुपुण्याम्।
द्वयोः सशस्त्रौ तटयोर्हरीशौ प्रच्छन्नमूर्ती सहसा बभूवतुः ॥२६॥

जलोद्भवश्चापि जलं विमुच्य ज्ञात्वा गतौ शंकरवासुदेवौ।
दिशस्समीक्ष्य भयकातराक्षो दुर्गं हिमाद्रिं च तदारुरोह ॥२७॥

महीध्रश्रृङ्गोपरि विष्णुशम्भू चञ्चूर्यमाणं स्वरिपुं च दृष्ट्वा।
वेगादुभौ दुद्रुवतुः सशस्त्रौ विष्णुस्त्रिशूली गिरिशश्च चक्री ॥२८॥

ताभ्यां स दृष्टस्त्रिदशोत्तमाभ्यां चक्रेण शूलेन च बिन्नदेहः।
पपात शैलात् तपनीयवर्णो यथान्तरिक्षाद् विमला च तारा ॥२९॥

एवं त्रिशूलं च दधार विष्णुश्चक्रं त्रिनेत्रोऽप्यरिसूदनार्थम्।
यत्राघहन्त्री ह्यभवद् वितस्ता हराङ्घ्रिपाताच्छिशिराचलात्तु ॥३०॥

तत्प्राप्य तीर्थं त्रिदशाधिपाभ्यां पूजां च कृत्वा हरिशंकराभ्याम्।
उपोष्य भक्त्या हिमवन्तमागाद् द्रष्टुं गिरीशं शिवविष्णुगुप्तम् ॥३१॥

तं समभ्यर्च्च विधिवद् दत्त्वा दानं द्विजातिषु।
विस्तृते हिमवत्पादे भृगुतुङ्गं जगाम सः ॥३२॥

यत्रेश्वरो देववरस्य विष्णोः प्रादाद्रथाङ्गप्रवरायुधं वै।
येन प्रचिच्छेद त्रिधैव शंकरं जिज्ञासमानोऽस्त्रबलं महात्मा ॥३३॥

इति श्रीवामनपुराणे अशीतितमोशऽध्यायः  ॥८१॥

N/A

References : N/A
Last Updated : September 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP