संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय ८३ वा

वामनपुराण - अध्याय ८३ वा

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


पुलस्त्य उवाच॥
तस्मिंस्तीर्थवरे स्नात्वा दृष्ट्वा देवं त्रिलोचनम्।
पूजयित्वा सुवर्णाक्षं नैमिषं प्रययौ ततः ॥१॥

तत्र तीर्थसहस्राणि त्रिंशत्पापहराणि च।
गोमत्याः काञ्चनाक्ष्याश्च गुरुदायाश्च मध्यतः ॥२॥

तेषु स्नात्वार्च्य देवेशं पीतवाससमच्युतम्।
ऋषीनपि च संपूज्य नैमिषारण्यवासिनः ॥३॥

देवदेवं तथेशानं संपूज्य विधिना ततः।
गयायां गोपतिं द्रष्टुं जगाम स महासुरः ॥४॥

तत्र ब्रह्मध्वजे स्नात्वा कृत्वा चास्य प्रदक्षिणाम्।
पिण्डनिर्वपणं पुण्यं पितृणां स चकार ह ॥५॥

उदपाने तथा स्नात्वा तत्राभ्यर्च्य पितॄन् वशी।
गदापाणिं समभ्यर्च्य गोपतिं चापि शंकरम् ॥६॥

इन्द्रतीर्थे तथा स्नात्वा संतर्प्य पितृदेवताः।
महानदीजले स्नात्वा सरयूमाजगाम सः ॥७॥

तस्यां स्नात्वा समभ्यर्च्य गोप्रतारे कुशेशयम्।
उपोष्य रजनीमेकां विरजां नगरीं ययौ ॥८॥

स्नात्वा विरजसे तीर्थे दत्त्वा पिण्डं पितॄंस्तथा।
दर्शनार्थं ययौ श्रीमान् अजितं पुरुषोत्तमम् ॥९॥

तं दृष्ट्वा पुण्डरीकाक्षमक्षरं परमं शुचिः।
षड्रात्रमुष्य तत्रैव महेन्द्रं दक्षिणं ययौ ॥१०॥

तत्र देववरं शंभुमर्द्धनारीश्वरं हरम्।
दृष्ट्वार्च्य संपूज्य पितॄन् महेन्द्रं चोत्तरं गतः ॥११॥

तत्र देववरं शंभुं गोपालं सोमपायिनम्.
दृष्ट्वा स्नात्वा सोमतीर्थे सह्याचलमुपागतः ॥१२॥

तत्र स्नात्वा महोदक्यां वैकुण्ठं चार्च्य भक्तितः।
सुरान् पितृन् समभ्यर्च्य पारियात्रं गिरिं गतः ॥१३॥

तत्र स्नात्वा लाङ्गलिन्यां पूजयित्वाऽपराजितम्।
कशेरुदेशं चाभ्येत्य विश्वरूपं ददर्श सः ॥१४॥

यत्र देववरः शंभुर्गणानां तु सुपूजितम्।
विश्वरूपमथात्मानं दर्शयामास योगवित् ॥१५॥

तत्र मङ्कुणिकातोये स्नात्वाभ्यर्च्य महेश्वरम्।
जगामाद्रिं स सौगन्धि प्रह्लादो मलयाचलम् ॥१६॥

महाह्रदे ततः स्नात्वा पूजयित्वा च शंकरम्।
ततो जगाम योगात्मा द्रष्टुं विन्ध्ये सदाशिवम् ॥१७॥

ततो विपाशासलिले स्नात्वाभ्यर्च्य सदाशिवम्।
त्रिरात्रं समुपोष्याथ अवन्तीं नगरीं ययौ ॥१८॥

तत्र शिप्राजले स्नात्वा विष्णुं संपूज्य भक्तितः।
श्मशानस्थं ददर्शाथ महाकालवपुर्धरम् ॥१९॥

तस्मिन् हि सर्वसत्त्वानां तेन रूपेण शंकरः।
तामसं रूपमास्थाय संहारं कुरुते वशी ॥२०॥

तत्रस्थेन सुरेशेन श्वेतकिर्नाम भूपतिः।
रक्षितस्त्वन्तकं दग्ध्वा सर्वबूतापहारिणम् ॥२१॥

तत्रातिहृष्टो वसति नित्यं शर्वः सहोमया।
वृतः प्रमथकोटीभिर्बहुभिस्त्रिदशार्चितः ॥२२॥

तं दृष्ट्वाथ महाकालं कालकालान्तकान्तकम्।
यमसंयमनं मृत्योर्मृत्युं चित्रविचित्रकम् ॥२३॥

श्मसाननिलयं शंभुं भूतनाथं जगत्पतिम्।
पूजयित्वा शूलधरं जगाम निषधान् प्रति ॥२४॥

तत्रामरेश्वरं देवं दृष्ट्वा संपूज्य भक्तितः।
महोदयं समभ्येत्य हयग्रीवं ददर्श सः ॥२५॥

अश्वतीर्थे ततः स्नात्वा दृष्ट्वा च तुरगाननम्।
श्रीधरं चैव संपूज्य पञ्चालविषयं ययौ ॥२६॥

तत्रेश्वरगुणैर्युक्तं पुत्रमर्थपतेरथ।
पाञ्चालिकं वशी दृष्ट्वा प्रयागं परतो ययौ ॥२७॥

स्नात्वा सन्निहिते तीर्थे यामुने लोकविश्रुते।
दृष्ट्वा वटेश्वरं रुद्रं माधवं योगशायिनम् ॥२८॥

द्वावेव भक्तितः पूज्यौ पूजयित्वा महासुरः।
माघमासमथोपोष्य ततो वाराणसीं गतः ॥२९॥

ततोऽस्यां वरणायां च तीर्थेषु च पृथक् पृथक्।
सर्वपापहराद्येषु स्नात्वाऽर्च्य पितृदेवताः ॥३०॥

प्रदक्षिणीकृत्य पुरीं पूज्याविमुक्तकेशवौ।
लोलं दिवाकरं दृष्ट्वा ततो मधुवनं ययौ ॥३१॥

तत्र स्वयंभुवं देवं ददर्शासुरसत्तमः।
तमभ्यर्च्य महातेजाः पुष्करारण्यमागमत् ॥३२॥

तेषु त्रिष्वपि तीर्थेषु स्नात्वाऽर्च्य पितृदेवताः।
पुष्कराक्षमयोगन्धि ब्रह्माणं चाप्यपूजयत् ॥३३॥

ततो भूयः सरस्वत्यास्तीर्थे त्रैलोक्यविश्रुते।
कोटितीर्थे रुद्रकोटिं ददर्श वृषभध्वजम् ॥३४॥

नैमिषेया द्विजवरा मागधेयाः ससैन्धवाः।
धर्मारण्याः पौष्करेया दण्डकारण्यकास्तथा ॥३५॥

चाम्पेया भारुकच्छेया देविकातीरगाश्च ये।
ते तत्र शंकरं द्रष्टुं समायाता द्विजातयः ॥३६॥

कोटिसंख्यास्तपः सिद्धा हरदर्शनलालसाः।
अहं पूर्वमहं पूर्वमित्येवं वादिनो मुने ॥३७॥

तान् संक्षुब्धान् हरो दृष्ट्वा महर्षीन् दग्धकिल्बिषान्।
तेषामेवानुकम्पार्थं कोटिमूर्त्तिरभूद् भवः ॥३८॥

ततस्ते मुनयः प्रीताः सर्व एव महेश्वरम्।
संपूजयन्तस्तस्थुर्वै तीर्थं कृत्वा पृथक् पृथक्।

इत्येवं रुद्रकोटीति नाम्ना शंभुरजायत।
तं ददर्श महातेजाः प्रह्लादो भक्तिमान् वशी ॥३९॥

कोटितीर्थे ततः स्नात्वा तर्पयित्वा वसून् पितॄन्।
रुद्रकोटिं समभ्यर्च्य जगाम कुरुजाङ्गलम् ॥४०॥

तत्र देववरं स्थाणुं शंकरं पार्वतीप्रियम्।
सरस्वतीजले मग्नं ददर्श सुरपूजितम् ॥४१॥

सारस्वतेऽम्भसि स्नात्वा स्थाणुं संपूज्य भक्तितः।
स्नात्वा दसाश्वमेधे च संपूज्य च सुरान् पितृन् ॥४२॥

सहस्रलिङ्गं संपूज्य स्नात्वा कन्याह्रदे शुचिः।
अभिवाद्य गुरुं शुक्रं सोमतीर्थं जगाम ह ॥४३॥

तत्र स्नात्वाऽर्च्य च पितृन् सोमं संपूज्य भक्तितः।
क्षीरिकावासमभ्येत्य स्नानं चक्रे महायशाः ॥४४॥

प्रदक्षिणीकृत्य तरुं वरुणं चार्च्य बुद्धिमान्।
भूयः कुरुध्वजं दृष्ट्वा पद्माख्यां नगरी गतः ॥४५॥

तत्रार्च्य मित्रावरुणौ भास्करौ लोकपूजितौ।
कुमारधारामभ्येत्य ददर्श स्वामिनं वशी ॥४६॥

स्नात्वा कपिलधारायां संतर्प्यार्च्य पितृन् सुरान्।
दृष्ट्वा स्कन्दं समभ्यर्च्य नर्मदायां जगाम ह ॥४७॥

तस्यां स्नात्वा समभ्यर्च्य वासुदेवं श्रियः पतिम्।
जगाम भूधरं द्रष्टुं वाराहं चक्रधारिणम् ॥४८॥

स्नात्वा कोकामुके तीर्थे संपूज्य धरणीधरम्।
त्रिसौवर्णं महादेवमर्बुदेशं जगाम ह ॥४९॥

तत्र नारीह्रदे स्नात्वा पूजयित्वा च शंकरम्।
कालिञ्जरं समभ्येत्य नीलकण्ठं ददर्श सः ॥५०॥

नीलतीर्थजले स्नात्वा पूजयित्वा ततः शिवम्।
जगाम सागरानूपे प्रभासे द्रष्टुमीश्वरम् ॥५१॥

स्नात्वा च संगमे नद्याः सरस्वत्यार्णवस्य च।
सोमेश्वरं लोकपतिं ददर्श स कपर्दिनम् ॥५२॥

यो दक्षशापनिर्दग्धः क्षयी ताराधिपः शशी।
आप्यायितः शंकरेण विष्णुना सकपर्दिना ॥५३॥

तावर्च्य देवप्रवरौ प्रजगाम महालयम्।
तत्र रुद्रं समभ्यर्च्य प्रजगामोत्तरान् कुरून् ॥५४॥

पद्मनाभं स तत्रर्च्य सप्तगोदावरं ययौ।
तत्र स्नात्वाऽर्च्य विश्वेशं भीमं त्रैलोक्यवन्दितम् ॥५५॥

गत्वा दारुवने श्रीमान् लिङ्गं स ददर्श ह।
तमर्च्य ब्राह्मणीं गत्वा स्नात्वाऽर्च्य त्रिदशेश्वरम् ॥५६॥

प्लक्षावतरणं गत्वा श्रीनिवासमपूजयत्।
ततश्च कुण्डिनं गत्वा संपूज्य प्राणतृप्तिदम् ॥५७॥

शूर्पारके चतुर्बाहुं पूजयित्वा विधानतः।
मागधारण्यमासाद्य ददर्श वसुधाधिपम् ॥५८॥

तमर्चयित्वा विश्वेशं स जगाम प्रजामुखम्।
महातीर्थे ततः स्नात्वा वासुदेवं प्रणम्य च ॥५९॥

शोणं शंप्राप्य संपूज्य रुक्मवर्माणमीश्वरम्।
महाकोश्यां महादेवं हंसाख्यं भक्तिमानथ ॥६०॥

पूजयित्वा जगामाथ सैन्धवारण्यमुत्तमम्।
तत्रेश्वरं सुनेत्राख्यं शङ्खशूलधरं गुरुम्॥
पूजयित्वा महाबाहुः प्रजागाम त्रिविष्टपम् ॥६१॥

तत्र देवं महेशानं जटाधरमिति श्रुतम्।
तं दृष्ट्वाऽर्च्य हरिं चासौ तीर्थं कनखलं ययौ ॥६२॥

तत्रार्च्य भद्रकालीशं वीरभद्रं च दानवः।
धनाधिपं च मेघङ्कं ययावथ गिरिव्रजम् ॥६३॥

तत्र देवं पशुपतिं लोकनाथं महेश्वरम्।
संपूजयित्वा विधिवत्कामरूपं जगाम ह ॥६४॥

शशिप्रभं देववरं त्रिनेत्रं संपूजयित्वा सह वै मृडान्या।
जगाम तीर्थप्रवरं महाख्यं तस्मिन् महादेवमपूजयत् ॥६५॥

ततस्त्रिकूटं गिरिमत्रिपुत्रं जगाम द्रष्टुं स हि चक्रपाणिनम्।
तमीड्य भक्त्या तु गजेन्द्रमोक्षणं जजाप जप्यं परमं पवित्रम् ॥६६॥

तत्रोष्य दैत्येश्वरसूनुरादरान्मासत्रयं मूलफलाम्बुभक्षी।
निवेद्य विप्रप्रवरेषु काञ्चनं जगाम घोरं स हि दण्डभकं वनम् ॥६७॥

तत्र दिव्यं महाशाखं वनस्पतिवपुर्धरम्।
ददर्श पुण्डरीकाक्षं महाश्वापदवारणम् ॥६८॥

तस्याधस्थात् त्रिरात्रं स महाभागवतोऽसुरः।
स्थितः स्थण्डिलशायी तु पठन् सारस्वतं स्तवम् ॥६९॥

तस्मात् तीर्थवरं विद्वान् सर्वपापप्रमोचनम्।
जगाम दानवो द्रष्टुं सर्वपापहरं हरिम् ॥७०॥

तस्याग्रतो जजापासौ स्तवौ पापप्रणाशनौ।
यौ पुरा भगवान् प्राह क्रोडरूपी जनार्दनः ॥७१॥

तस्मादथागाद् दैत्येन्द्रः शालग्रामं महाफलम्।
यत्र संनिहितो विष्णुश्चरेषु स्थावरेषु च  ॥७२॥

तत्र सर्वगतं विष्णुं मत्वा चक्रे रतिं बली।
पूजयन् भगवत्पादौ महाभागवतो मुने ॥७३॥

इयं तवोक्ता मुनिसंघजुष्टा प्रह्लादतीर्थानुगतिः सुपुण्या।
यत्कीर्त्तनाच्छ्रवणात् स्पर्शनाच्च विमुक्तपापा मनुजा भवन्ति ॥७४॥

इति श्रीवामनपुराणे त्र्यशीतितमोऽध्यायः  ॥८३॥

N/A

References : N/A
Last Updated : September 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP