संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|वेङ्कटाचलमाहात्म्यम्| अध्यायः १० वेङ्कटाचलमाहात्म्यम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ ॥ अथ श्रीनिवासस्य लक्ष्म्यादिकृतपरिणयालंकारः ॥ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० विषयानुक्रमणिका वेङ्कटाचलमाहात्म्यम् - अध्यायः १० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण ॥ अथ तोण्डमान्नृपस्य स्वपितुः सकाशाद्राज्यप्राप्तिः ॥ Translation - भाषांतर ॥ श्रीशुक उवाच ॥इदं पद्मसरोनाम राजन्पापप्रणाशनम् ॥कीर्तनात्स्मरणात्स्नानान्नृणां लक्ष्मीप्रदं भुवि ॥कृत्वा स्नानं त्वमप्यस्मिन्व्रज स्वपितुरंतिकम् ॥१॥॥ श्रीवराह उवाच ॥एतच्छुकवचः श्रुत्वा स्नात्वा पद्मसरोवरे ॥२॥तं नत्वा हयमारुह्य तोण्डमान्स्वपुरं ययौ ॥तं पिता युवराजानं कृत्वा त्रीन्वत्सरानथ ॥३॥रंजकत्वं च सामर्थ्यं शौर्यं वीर्यं सुशीलताम् ॥भक्तिं विप्रेषु पुत्रस्य वीक्ष्य राजा स्वमंत्रिभिः ॥४॥स्वपदे स्थापयामास स्वभिषिच्य विधानतः ॥अनुनीय सुतं पत्न्या सार्धं राजा वनं ययौ ॥५॥॥ अथ वसोर्वल्मीके श्रीवराहसन्दर्शनम् ॥तोण्डमानपि साम्राज्यं लब्ध्वा राज्यं चकार ह ॥निषादस्य वने देवो वाराहं रूपमास्थितः ॥६॥श्यामाकपक्वं भक्षित्वा रात्रौरात्रौ चचार ह ॥पदानि स वराहस्य चान्वियेष दिवादिवा ॥७॥अदृष्ट्वा तं वराहं स रात्रौ जाग्रद्धनुर्धरः ॥स्थितोऽपश्यच्चरन्तं तं चंद्रकोटिसमप्रभम् ॥८॥वराहं सुभगाकारं श्यामाकवनमध्यतः ॥तं दृष्ट्वा धनुरादाय सिंहनादं चकार ह ॥९॥वराहस्तद्ध्वनिं श्रुत्वा वनान्निष्क्रम्य सत्वरम् ॥ययौ तं चाप्यनुययौ वराहं स निषादपः ॥१०॥रात्रिशेषमनुद्रुत्य वने चंद्रसमप्रभम् ॥वल्मीकं प्रविशन्तं च ददर्श स निषादपः ॥११॥गच्छंतं पूर्णिमाचन्द्रमस्तं गिरिवरं यथा ॥विस्मितोऽखानयत्कोपाद्वल्मीकं स निषादपः ॥१२॥धरावराहो ददृशे मूर्च्छितोऽयं पपात ह ॥पितरं मूर्च्छितं दृष्ट्वा तत्पुत्रो भक्तिमांस्तदा ॥१३॥वराहदेवं तुष्टाव तेन प्रीतोऽभवद्धरिः ॥आविश्य पितरं तस्य प्रोवाच मधुसूदनः ॥१४॥॥ श्रीभगवानुवाच ॥अहं वराह देवेशो नित्यमस्मिन्वसाम्यहम् ॥राज्ञे त्वमुक्त्वा मामत्र प्रतिष्ठाप्यैव पूजय ॥१५॥वल्मीकं कृष्णगोक्षीरैः क्षालयित्वा तदुत्थिते ॥शिलातले च वाराहमुद्धृत्य धरणीस्थितम् ॥१६॥कारयित्वा प्रतिष्ठाप्य विप्रैर्वैखानसैश्च माम् ॥पूजयेद्विविधैर्भोगैस्तोण्डमान्राजसत्तमः ॥१७॥इत्युक्त्वा तं जहौ देवः स च स्वस्थो बभूव ह ॥सुखासीनं तु पितरं नमस्कृत्य निषादजः ॥१८॥न्यवेदयद्देववचः पित्रे सर्वं यथातथम् ॥स श्रुत्वा विस्मितो भूत्वा कृत्स्नं पुत्रवचः शुभम् ॥१९॥अथ तोण्डमन्नृपाय वसुनिवेदितवाराहोदंतः ॥राज्ञे वक्तुं ययौ शीघ्रं निषादः स्वानुगैः सह ॥वसुर्निषादाधिपती राजद्वारमुपागमत् ॥२०॥निषादाधिपमाज्ञाय द्वारपालैर्नृपोत्तमः ॥आहूय तं निषादेशं सभायां मंत्रिभिः सह ॥२१॥सत्कृत्य तं वसुं राजा सपुत्रं सपरिच्छदम् ॥पप्रच्छ प्रीतिमान्राजा वसुं तं वनगोचरम्॥किमागमनकृत्यं ते वद त्वं वनगोचर ॥२२॥॥वसुरुवाच ॥राजन्मम वने दृष्टमाश्चर्यं शृणु भूपते ॥२३॥कश्चिच्छ्वेतवराहस्तु श्यामाकमचरन्निशि ॥तं वराहं धनुष्पाणिरन्वधावमहं नृप ॥२४॥अनुद्रुतो वायुवेगो गत्वा वल्मीकमाविशत् ॥स्वामिपुष्करिणीतीरे पश्यते मम भूपते ॥२५॥वल्मीकमखनं क्रोधान्मूर्च्छितो न्यपतं भुवि ॥मत्पुत्रोऽयं समागत्य मां दृष्ट्वा मूर्च्छितं भुवि ॥२६॥शुचिर्भूत्वा देवदेवं तुष्टाव मधुसूदनम् ॥ततो मयि समाविश्य वराहोऽध्यवदत्सुतम् ॥२७॥राज्ञे निवेदय क्षिप्रं मच्चरित्रं निषादप ॥कृष्णगोक्षीरसेकेन वल्मीकं क्षालयेन्नृपः ॥२८॥दृश्यते च शिला काचिद्वल्मीकस्था सुशोभना ॥वामांकस्थभुवं मां च वराहवदनं स्थितम् ॥२९॥कारयित्वा शिल्पिनाथ प्रतिष्ठाप्य मुनीश्वरैः ॥वैखानसैर्मुनिवरैरर्चयेत्तोण्डमानपि ॥३०॥अथ गत्वा श्रीनिवासं वल्मीकावृतपद्द्वयम् ॥कपिलाकृष्णगोक्षीरसेचनैः क्षालयेच्छनैः ॥३१॥आपादपीठपर्यंतं क्षालयित्वा दिनेदिने ॥कुर्यात्प्राकारमुभयोरुत्तरे दक्षिणे तथा ॥३२॥इत्युक्त्वा चैव माऽमुंचद्देवः स्वस्थोऽभवं नृप ॥इदं ते वक्तुमायातो देवदेवचिकीर्षितम् ॥३३॥॥ अथ नृपस्य निषादवाक्यस्वप्नाभ्यां बिलमार्गेण शेषाचलगमनम् ॥॥ श्रीवराह उवाच ॥तोण्डमानपि तच्छ्रुत्वा सुप्रीतो विस्मितोऽभवत् ॥ततः कार्यं विनिश्चित्य मन्त्रिभिः पुष्करादिभिः ॥३४॥वेकटाद्रिं जिगमिषुर्गोपानाहूय सर्वशः ॥कृष्णाश्च कपिला गावो याः काश्चित्संति मामिकाः ॥३५॥ताः सवत्सा आनयध्वं वेंकटाद्रिसमीपतः ॥इत्याज्ञाप्य नृपो गोपाञ्छ्वो यात्रेति च मन्त्रिणः ॥३६॥विसृज्य प्रकृतीः सर्वा विवेशांतःपुरं वशी ॥उक्त्वा कथां तां पत्नीभ्यः सुष्वाप निशि पार्थिवः ॥३७॥तं स्वप्ने श्रीनिवासोऽपि बिलमार्गं ह्यदर्शयत् ॥स्वपुरादाबिलं मार्गे पल्लवानसृजद्धरिः ॥३८॥एवं स्वप्नं नृपो दृष्ट्वा प्रातरुत्थाय सत्वरः ॥आहूय मन्त्रिणः सर्वान्प्रकृतीर्ब्राह्मणानपि ॥३९॥स्वप्नं तथाविधं चोक्त्वाऽपश्यद्द्वारेऽथ पल्लवान् ॥युक्ते मुहूर्ते प्रययौ हयमारुह्य तोण्डमान् ॥४०॥पश्यन्पल्लवभंगांश्च शनैः प्रीतो ययौ बिलम् ॥दृष्ट्वा विस्मयमापन्नो निर्ममे तत्र पत्तनम् ॥४१॥॥ अथ भगवदुक्त्या तोण्डमन्नृपकृतक्षीराभिषेकवप्रनिर्माणादिकम् ॥बिलमंतःपुरे कृत्वा प्राकारं चाप्यकारयत् ॥वसंस्तत्र नृपेन्द्रोऽसौ निर्जित्य पृथिवीमिमाम् ॥४२॥यथोक्तं देवदेवेन क्षीरप्रक्षालनादिकम् ॥कृत्वा प्राकारनिर्माणं कर्तुमुद्योगमाययौ ॥४३॥तदानीं देवदेवेन स्वयमाज्ञापितो नृपः ॥तिंतिणीं चंपकं चोभौ पालयैतौ नगोत्तमौ ॥४४॥मम चास्थानिकी चिंचा लक्ष्म्याः स्थानं च चंपकः ॥नमस्कार्यौ नृपैस्तौ हि ऋषिदेवनरैः सदा ॥४५॥संस्थाप्यैतौ नृपश्रेष्ठ च्छेदयान्यान्नगोत्तमान् ॥प्राकारमात्रं कुरु मे द्वारगोपुरसंयुतम् ॥४६॥विमानं तु भवद्वंश्यो नाम्ना नारायणो नृपः ॥कारयिष्यति मद्भक्तः स्वर्णेनालंकरिष्यति ॥४७॥॥ श्रीवराह उवाच ॥एवमुक्त्वा तोण्डमानं विरराम श्रियः पतिः ॥४८॥एवं देववचः श्रुत्वा कृत्वा प्राकारमेव च ॥पूजयामास मुनिभिर्वैखानसकुलोद्भवैः ॥४९॥नित्यं बिलेन चागत्य देवं नत्वा नृपोत्तमः ॥राज्यं चकार धर्मेण भुंजानो भोगमुत्तमम् ॥५०॥॥ अथ गंगास्नानागतवीरशर्माख्यविप्रचरित्रम् ॥एतस्मिन्नेव काले तु दाक्षिणात्यो द्विजोत्तमः ॥५१॥गंगास्नानाय गच्छन्वै सदारः प्रययौ पुरात् ॥मार्गेऽथ गर्भिणी जाता ब्राह्मणी ब्राह्मणः स च ॥५२॥तां तु गर्भवतीं दृष्ट्वा स्वात्मानुगमनेऽक्षमाम् ॥राजानं द्रष्टुकामोऽसौ राजद्वारमुपागमत् ॥५३॥द्वाःस्थेनाज्ञापितो राजा तमाहूय द्विजोत्तमम् ॥पूजयित्वा तु विधिवत्पप्रच्छ कुशलं द्विजम् ॥५४॥॥ राजोवाच ॥किमागमनकृत्यं ते किं करिष्याम्यहं द्विज ॥॥ ब्राह्मण उवाच ॥वासिष्ठो वीरशर्माहं सामवेदी नृपोत्तम ॥५५॥सदारो निर्गतो राक्तगंगास्नानाय सादरः ॥मार्गे च गर्भिणी चेयं कौशिकी पुण्यशालिनी ॥५६॥नाम्ना लक्ष्मीरिति ख्याता शीला च पतिव्रता ॥संस्थाप्यैनां तव गृहे व्रतं निर्वर्तयाम्यहम् ॥५७॥तस्माद्राजन्प्रयच्छास्यै यथेष्टं भक्तवेतने ॥तावच्च रक्ष्यतां लक्ष्मीर्यावदागमनं मम ॥५८॥॥ श्रीवराह उवाच ॥राजा तस्य वचः श्रुत्वा तंडुलानि धनान्यपि ॥दत्त्वा षण्मासपर्यन्तं गृहमंतःपुरे ददौ ॥५९॥तां न्यस्य ब्राह्मणः प्रीतो गंगास्नानाय निर्ययौ ॥गत्वा भागीरथीं गंगां प्रयागे क्षेत्र उत्तमे ॥६०॥स्नात्वा काशीं ततो गत्वा तत्रोषित्वा दिनत्रयम् ॥गयां प्राप्य पितृश्राद्धमकरोद्ब्राह्मणोत्तमः ॥६१॥गत्वायोध्यामपि पुरीं प्रययौ बदरीवनम् ॥सालग्रामं ततो गत्वा स्वदेशं प्रति निर्ययौ ॥६२॥संवत्सरद्वयेऽतीते चैत्रे मासि शुभे दिने ॥निवृत्तोऽसौ द्विजश्रेष्ठः शनैरागत्य माधवे ॥६३॥एकादश्यां शुक्लपक्षे पुना राजानमाययौ ॥राजा तु विस्मृत्य तदा ब्राह्मणीं नास्मरन्नृपः ॥६४॥ब्राह्मणी मानिनी गेहे मृता शुष्का बभूव ह ॥वीरशर्मा ततो विप्रो गंगातोयकरंडकम् ॥६५॥विमुच्य बन्धनं त्वेकं गंगांभःकरकं शुभम् ॥प्रादाय राज्ञे पप्रच्छ पत्नी कुशलिनीति मे ॥६६॥स्मृत्वाथ राजा विप्रं तं स्थीयतामिति चाब्रवीत् ॥अन्तःपुरं ततो गत्वा तामपश्यन्मृतां गृहे ॥६७॥अनुक्त्वा ब्रह्मणे तस्मै प्रविश्य बिलमुत्तमम् ॥श्रीनृसिंहं नमस्कृत्य पुनः प्राप्य बिलोत्तमम् ॥६८॥श्रीनिवासं ययौ द्रष्टुं श्रीभूमिसहितं परम् ॥तं दृष्ट्वा सहसायांतं जुगूहाते धरारमे ॥६९॥प्रणमन्तमवोचत्तं किमकाले नृपागतः॥नृपोऽवदत्प्रणम्येशं भीतोऽथ ब्राह्मणीं मृताम् ॥७०॥॥ अथ अस्थिसरोवरमाहात्म्यम् ॥तच्छ्रुत्वा देवदेवोऽपि मा भै राजन्द्विजोत्तमात् ॥आन्दोलिकां तामारोप्य स्त्रीभिः स्वाभिः समन्विताम्॥ ७१॥मदालयात्पूर्वभागे द्वादश्यां स्नापय प्रभो ॥अस्थिनाम्नि सरस्यस्मिन्नपमृत्युनिवारणे ॥७२॥प्राप्तजीवा समं स्त्रीभिर्ब्राह्मणेन च योक्ष्यते ॥शीघ्रं याहि नृपश्रेष्ठ यथोक्तं वचनं कुरु ॥७३॥इति देववचः श्रुत्वा प्रययौ स्वपुरं नृपः ॥आन्दोलिकासु रम्यासु स्त्रिय आरोप्य तामपि ॥७४॥ब्राह्मणं च पुरस्कृत्य द्रष्टुं देवं ययौ नृपः ॥अस्थिकूटसरः प्राप्य स्नापयामास ताः स्त्रियः ॥७५.॥त्वगस्थिरूपा सा चापि ताभिः क्षिप्ता सरोवरे ॥प्राप्तजीवा यथापूर्वं सुव्यंजितशरीरजा ॥७६॥उत्थिता सरसः स्नात्वा राज्ञीभिः सहमंगला ॥प्राप्ता च ब्राह्मणं प्रीता भर्तारं पुनरागतम् ॥७७॥राजा हरिं पूजयित्वा ब्राह्मणाय धनं ददौ ॥सहस्रनिष्कपर्यंतं वस्त्राणि विविधानि च ॥७८॥स्वदेशगमनायैव सादरं विससर्ज ह ॥विप्रः श्रुत्वा स्त्रियो वृत्तं प्रभावं वेंकटेशितुः ॥७९॥आशीः प्रयुज्य राज्ञेऽथ स्वदेशं प्रययौ द्विजः ॥विप्रे गते श्रीनिवासो राजानं पुनरब्रवीत् ॥८०॥दिनेदिने च मध्याह्ने नैवेद्यानेतरं नृप ॥आगत्य मामर्चयित्वा यथेष्टं स्वर्णपंकजैः ॥८१॥गत्वा पुरीं स्वधर्मेण राज्यं कुरु नराधिप ॥यद्यदिष्टं तव नृप भविष्यति न संशयः ॥८२॥नागंतव्यमकाले तु त्वया नृप कदाचन ॥एवं कालार्चनं कृत्वा गत्वा त्वं स्वपुरं वस ॥८३॥॥ राजोवाच ॥तथा करिष्ये देवेश मध्याह्ने चार्चयाम्यहम् ॥इति देवाज्ञया नित्यमर्चयन्स्वर्णपंकजैः ॥८४॥तदूर्ध्वं तुलसीपुष्पं जात्त्वपश्यत्स मृण्मयम् ॥८५॥॥ अथ कुर्वग्रामस्थकुलालवंशजभीमाख्यभक्तोदन्तः ॥विस्मितो देवदेवेशमपृच्छन्नृपसत्तमः ॥॥ राजोवाच ॥केनार्च्यसे मृन्मयैश्च कमलैस्तुलसीसमैः ॥८६॥राज्ञा पृष्टो देवदेवः स्मृत्वा राजानमब्रवीत् ॥कश्चित्कुलालो मद्भक्तः कुर्वग्रामे वसत्यसौ ॥८७॥स्वगृहेऽर्चयते राजंस्तदंगीक्रियते मया ॥इति देववचः श्रुत्वा तं द्रष्टुं प्रययौ नृपः ॥८८॥गत्वा कुर्वपुरं तस्य कुलालस्य गृहं ययौ ॥राजानमागतं दृष्ट्वा प्रणम्यैवाग्रतः स्थितः ॥८९॥स्थितं तं भीमनामानं पप्रच्छ नृपसत्तमः ॥॥ तोण्डमानुवाच ॥भीम पूजयसे देवं कथं वद कुलोत्तम ॥९०॥॥ श्रीवराह उवाच ॥पृष्टः प्राह कुलालोऽपि जातु जाने न चार्चनम् ॥केनोक्तं नृपतिश्रेष्ठ कुलालोऽर्चयतीति हि ॥९१॥॥ तोण्डमानुवाच ॥देवेन श्रीनिवासेन ममोक्तं हि त्वदर्चनम् ॥स तु श्रुत्वा नृपवचः स्मृत्वा देववरं पुरा ॥९२॥॥ भीम उवाच ॥यदा प्रकाशिता पूजा यदा राजा समागतः ॥तोण्डमांस्तेन संवादस्तदा मोक्षं गमिष्यसि ॥९३॥इति पूर्वं वरं देवो दत्तवान्वेकटेश्वरः ॥९४॥॥ अथ कुर्वग्रामस्थभीमाख्यभक्तस्य पत्न्या सह वैकुण्ठप्राप्तिः ॥इत्युक्त्वाथ कुलालोऽपि पत्न्या सार्धं तथैव च ॥विमानमागतं दृष्ट्वा देवं दृष्ट्वा जनार्दनम्॥९५॥प्रणमन्प्रजहौ प्राणान्सदारो भक्तसत्तमः ॥पश्यतो राजराजस्य विमानमधिरुह्य च ॥९६॥दिव्यरूपधरो देव्या सार्धं विष्णुपदं ययौ ॥दृष्ट्वा राजाद्भुतं तत्र स्वपुरं प्राप्य हर्षितः ॥९७॥स्वपुत्रं श्रीनिवासाख्यमभिषिच्य विधानतः ॥परिपालय धर्मेण मानवांश्च वसुन्धराम् ॥९८॥इत्याज्ञाप्य सुतं धीमांस्तताप परमं तपः ॥तप्यतस्तस्य देवोऽपि प्रत्यक्षमभवद्धरिः ॥९९॥॥ अथ श्रीनिवासकृपया तोण्डमन्नृपस्य सारूप्यप्राप्तिः ॥आरुह्य गरुडं देवो रमाभूमिसमन्वितः ॥१००॥॥ श्रीभगवानुवाच ॥किं करोमि नृपश्रेष्ठ तपसा तोषितस्तव ॥इत्युक्तो देवदेवेन तोण्डमानपि राजराट् ॥१०१॥प्रीतिमान्प्राञ्जलिर्भूत्वा सगद्गदमुवाच ह ॥त्वल्लोके वस्तुमिच्छामि जरामरणवर्जिते ॥१०२॥इदमेव वरं देहि माधवैतन्ममेप्सितम् ॥१०३॥॥ श्रीवराह उवाच ॥इत्युक्त्वा निपपातोर्व्यां साष्टांगं देवसन्निधौ ॥तदा कलेवरं मुक्त्वा विमानं त्वारुरोह च ॥१०४॥गन्धर्वैः स्तूयमानोऽसौ सारूप्यं प्राप्य शार्ङ्गिणः ॥यच्छोकमोहहतं जरामरणवर्जितम् ॥१०५॥पुनरावृत्तिरहितं तद्विष्णोः पदमाययौ ॥१०६॥॥ अथैतन्माहात्म्यश्रवणपठनफलश्रुतिः ॥एतद्भविष्यं देवेशि मयोक्तं वरवर्णिनि ॥यः श्रावयेद्यः शृणुयाद्विष्णुलोकं स गच्छति ॥१०७॥॥ श्रीसूत उवाच ॥इत्युक्तं देवदेवेन सभविष्यं सहोत्तरम् ॥शृणुयाद्यः पठेद्भक्त्या कथां पुण्यां पुरातनीम् ॥१०८॥स तु भुक्त्वाखिलान्कामानन्ते विष्णुपदं व्रजेत् ॥१०९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये धरणीवराहसंवादे भविष्यद्वर्णने तोण्डमांश्चक्रवर्तिवृत्तवर्णनंनाम दशमोऽध्यायः ॥१०॥ N/A References : N/A Last Updated : August 11, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP