संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|वेङ्कटाचलमाहात्म्यम्| अध्यायः २६ वेङ्कटाचलमाहात्म्यम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ ॥ अथ श्रीनिवासस्य लक्ष्म्यादिकृतपरिणयालंकारः ॥ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० विषयानुक्रमणिका वेङ्कटाचलमाहात्म्यम् - अध्यायः २६ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अथ तुम्बुरु(घोण)तीर्थमाहात्म्यम् Translation - भाषांतर ॥ श्रीसूत उवाच ॥अत्राहं संप्रवक्ष्यामि शौनकाद्या महौजसः ॥घोणतीर्थस्य माहात्म्यं सर्वपातकनाशनम् ॥१॥तत्र स्नानं जनानां तु जन्मान्तरतपःफलम् ॥उत्तराफल्गुनीयुक्तशुक्लपक्षीयपर्वणि ॥२॥तुम्बोस्तीर्थं मीनसंस्थे रवौ तीर्थानि सर्वशः ॥अपराह्ने समायान्ति गंगादीनि जगत्त्रये ॥३॥॥ ऋषय ऊचुः ॥भगवन्सूत सर्वज्ञ सर्वशास्त्रार्थपारग ॥गंगायाः सरितः सर्वा घोणतीर्थेऽतिपावने ॥४॥किमर्थं स्नांति वै तत्र मीनसंस्थे प्रभाकरे ॥५॥॥श्रीसूत उवाच ॥पापिनो मनुजाः सर्वे ह्यस्मासु स्नान्ति यत्नतः ॥विसृज्य पापजालानि कृतार्था यांति वै जनाः ॥६॥अस्माकं पापजालं तत्कथं नश्यति सर्वतः ॥एवमालोच्य तीर्थानि गंगादीनि प्रयत्नतः ॥७॥संस्मृत्य ब्रह्मपुत्रस्य नारदस्य महात्मनः ॥वाक्यं मनोहरं दिव्यं सर्वपापनिषूदनम् ॥८॥गत्वा श्रीवेंकटं शैलं ब्रह्महत्यादिशोषकम् ॥तत्र स्नात्वा तीर्थवर्ये स्वामिपुष्करिणीजले ॥९॥अनन्तरं ततो विप्रा घोणतीर्थेऽतिपावने ॥उत्तराफल्गुनीयुक्तशुक्त्यपक्षीयपर्वणि ॥१०॥स्नांति तीर्थानि सर्वाणि मीनसंस्थे प्रभाकरे ॥तस्य तीर्थस्य माहात्म्यं को वेत्ति भुवनत्रये ॥११॥॥ अथ घोणतीर्थस्नानविमुखानां महादोषवर्णनम् ॥तस्मात्पुण्यतमं तीर्थं घोणतीर्थं द्विजोत्तमाः ॥१२॥आरामोच्छेदकं क्रूरं कन्यातुरगविक्रयम्॥घोणस्नानपरित्यक्तं तमाहुर्ब्रह्मघातुकम् ॥१३॥देवद्रव्यापहन्तारं तथा दत्तापहारकम् ॥घोणस्नानपरित्यक्तं तमाहुर्ब्रह्मघातुकम् ॥१४॥तटाकसेतुभेत्तारं परस्त्रीसंगलोलुपम् ॥घोणस्नानपरित्यक्तं तमाहुः स्तेयिनं बुधाः ॥१५॥ददामीति द्विजायोक्त्वा पश्चाद्यो नास्तिकोऽधमः ॥घोणस्नानपरित्यक्तं सुरापं तं विदुर्बुधाः ॥१६॥गुरुविप्रजनद्वेष्यमात्मस्तुतिपरायणम् ॥घोणस्नानपरित्यक्तं तमाहुः स्तेयिनं बुधाः ॥१७॥असंस्कृतान्नभोक्तारं पितृशेषान्नभोजिनम्॥घोणस्नानपरित्यक्तं तमाहुः स्तेयिनं द्विजाः ॥१८॥पितृशेषान्नदातारं मातापितृविरोधिनम्॥घोणस्नानपरित्यक्तं तमाहुः स्तेयिनं बुधाः ॥१९॥परस्त्रीसंगनिरतं भ्रातृभार्यारतिप्रियम् ॥घोणस्नानपरित्यक्तं तमाहुर्गुरुतल्पगम् ॥२०॥चण्डालभाषिणं विप्रं सदैवादर्भपाणिकम् ॥घोणस्नानपरित्यक्तं तत्संसर्गं तु पञ्चमम् ॥२१॥रजस्वलाश्वचण्डालध्वनि श्रुत्वान्नभोजिनम् ॥घोणस्नानपरित्यक्तं तत्संसर्गं तु पञ्चमम् ॥२२॥पुराणोद्वाहमौंज्यादिधर्माणां विघ्नकारकम् ॥घोणस्नानपरित्यक्तं तमाहुः पशुघातुकम् ॥२३॥शरणागतहन्तारं सर्वतीर्थपराङ्मुखम्॥घोणस्नानपरित्यक्तं तमाहुर्भ्रूणहं बुधाः ॥२४॥पितृयज्ञ परित्यक्तं त्यक्तभार्यं कुलाधमम् ॥घोणस्नानपरित्यक्तं तमाहुर्गोविघातुकम् ॥२५॥महापापसमानानि क्षुद्रपापानि यानि च ॥घोणस्नानपरित्यक्तमाश्रयन्ति द्विजोत्तमाः ॥२६॥॥ अथ घोणस्नानस्यसर्वपापापनोदकत्ववर्णनम् ॥महापापरतं विप्राः श्वपचं वा कुलाधमम् ॥क्रूरं कुलान्तकं कष्टमदत्तं कर्मवर्जितम् ॥२७॥पशुघ्नं च परद्रोहमाश्रितं पिशुनं तथा ॥असत्यभाषिणं दम्भपरदाररतं तथा ॥२८॥मित्रद्रोहं कृतघ्नं च भ्रूणह चातिपातकम् ॥परदाररतं पापं पराणामर्थसूचकम् ॥२९॥अनृतं कृषिकर्माणं स्वामिद्रोहं च वञ्चकम् ॥सलोभं पितृहन्तारं सर्वदेवपराङ्मुखम् ॥३०॥आत्मप्रशंसां कुर्वाणं धर्मविघ्नकरं शठम् ॥अपात्रव्ययकर्तारं सानुकूल्यविभेदकम् ॥३१॥सुपल्लवफलोपेतवृक्षविच्छेदकारकम्॥विश्वासघातुकं चैव वीरहत्यापरायणम् ॥३२॥अनग्निकमपुत्रं च विषकर्मप्रयोगिणम् ॥गुरुद्वेषकरं पापं दम्पत्योर्विरसावहम् ॥३३॥ग्रामाधिपत्यं कुर्वाणं तथा देवालयस्य च ॥भृतकख्यापकं विप्रं कूरकर्मपरायणम् ॥३४॥प्रकृतीकृत पापौघं गुह्याघौघपरायणम् ॥अज्ञानादघकर्तारं ज्ञानाद्दुष्कर्मकारकम् ॥३५॥एतान्सर्वांश्च विप्रेंद्रा घोणतीर्थं मनोहरम्॥पुनाति स्नानपानाद्यैरहो तीर्थस्य वैभवम् ॥३६॥॥ अथ तुम्बुर्वाख्यगंधर्वचरितम् ॥॥ श्रीसूत उवाच ॥अत्रेतिहासं वक्ष्यामि पुराणं पापनाशनम् ॥सर्वपापप्रशमनमपवर्गफलप्रदम् ॥३७॥पुरा गार्ग्यो महातेजाः सर्वविद्याविशारदः ॥सर्वज्ञो नीतिमान्विप्रः प्राह चेत्थं जितेन्द्रियः ॥३८॥देवलं च महात्मानं नमस्कृत्य प्रसन्नधीः ॥कथयस्व महाभाग मयि कारुणिको भव ॥घोणतीर्थस्य माहात्म्यं सर्वपापहरं शुभम् ॥३९॥॥ देवल उवाच ॥तुम्बुरुर्नाम गन्धर्वो भार्यां शप्त्वा पतिव्रताम् ॥अत्र स्नात्वा समभ्यर्च्य वेंकटेशं दयानिधिम् ॥४०॥प्राप्तवान्विष्णुलोकं वै पुनरावृत्तिवर्जितम् ॥४१॥॥ गार्ग्य उवाच ॥किमर्थं देवल ऋषे भार्यां रूपवतीं स्त्रियम् ॥तुम्बुरुर्नाम गन्धर्वः सर्वविद्याविशारदः ॥४२॥शप्तवान्केन दोषेण भार्यां सर्वगुणान्विताम् ॥तद्वदस्व महाभाग श्रोतुं कौतूहलं हि मे ॥४३॥॥ अथ स्वभार्यायै तुम्बुरूपदिष्टमाघस्नानविधिप्रकारः ॥तुम्बुरुर्नाम गन्धर्वो भार्यां प्रीत्या ह्युवाच ह ॥माघत्रये मया साकं स्नानं कुरु मलापहम् ॥४४॥माघमास्युदिते सूर्ये सर्वकल्मषनाशने ॥तीरेऽस्मिन्विष्णुपूजार्थं गोमयालेपनं कुरु ॥४५॥रंगवल्ल्यादिभिः शुभ्रपद्मस्वस्तिक धातुभिः ॥शुश्रूषां कुरु मे विष्णोर्मासेऽस्मिन्मंगलप्रदे ॥४६॥माघेऽस्मिन्माधवस्यास्य कुरु त्वं दीपवर्तिकाम् ॥सधूपं पावकं भक्त्या समर्पय हरेः पुरः ॥४७॥कुरु पाकं शुचिर्भूत्वा माधवाय महात्मने ॥प्रदक्षिणानमस्कारैर्भक्त्या माघे मया सह ॥४८॥कुरुष्व देवदेवस्य सपर्यां विष्णवेऽन्वहम् ॥पुराणश्रवणं विष्णोः कुरु नित्यमतंद्रिता ॥४९॥नित्यं स्नात्वा प्रयत्नेन पिब पादोदकं हरेः ॥कृष्ण विष्णो मुकुन्देति नारायण जनार्दन ॥५०॥अच्युतानन्त विश्वात्मन्निति कीर्तय सन्ततम् ॥क्रोधमात्सर्यलोभादींस्त्यक्त्वा त्वं व्रतमाचर ॥५१॥तेन ते जायते मुक्तिर्विष्णुलोकश्च शाश्वतः ॥॥ अथ भार्यां प्रति तुम्बुरुदत्तशापतद्विमुक्तिप्रकारौ ॥इत्थं सा भर्तृगदितं श्रुत्वा गंधर्ववल्लभा ॥भर्तारमब्रवीत्कोपादसह्यं दुर्गतिप्रदम् ॥५२॥माघे चोद्भूतशीते तु प्रातर्मन्दोदिते रवौ ॥कथं निमज्जयेदस्मिन्माघे शीतार्तिकेऽनघ ॥५३॥यत्त्वयोक्तानि कर्माणि न शक्यानि मयाऽसकृत्॥न करोमि पते स्नानं प्रातःकाले त्वया सह ॥५४॥मृतौ शीतातिपातेन न च मे रक्षको भवान् ॥इत्येवमुदितं श्रुत्वा पतिर्गन्धर्ववल्लभः ॥५५॥सशान्तोऽपि शशापाथ भार्यां चाप्रियवादिनीम् ॥पुत्रं च धर्मविमुखं भार्यां चाप्रियभाषिणीम् ॥५६॥अब्रह्मण्यं च राजानं सद्यः शापेन दण्डयेत् ॥इति न्यायं विचिंत्यासौ शशापेत्थं सतीं तदा ॥५७॥वेंकटाद्रौ महापुण्ये सर्वपातकनाशने ॥घोणतीर्थसमीपे च पिप्पलद्रुमकोटरे ॥५८॥तत्राम्बुरहिते मूढे मण्डूका भव केवलम् ॥इत्येवं भर्तृवाक्यं तच्छ्रुत्वा गंधर्ववल्लभा ॥५९॥पतित्वा पादयोस्तस्य तुम्बरुं प्रार्थयत्सती ॥विशापमवदत्पश्चाद्भर्ता वै तुम्बुरुस्तदा ॥६०॥अगस्त्यो वै महाभागस्तपस्वी विजितेन्द्रियः ॥घोणतीर्थवरे स्नात्वा पौर्णमास्यां महातिथौ ॥६१॥शिष्येभ्यो वै यदा तस्मिन्नश्वत्थद्रुमसंनिधौ ॥घोणतीर्थस्य माहात्म्यं वक्ति वै ब्राह्मणोत्तमः ॥६२॥तदा पिप्पलवृक्षस्य कोटरे त्वं समाहिता ॥श्रुत्वा वै घोणतीर्थस्य माहात्म्यं मोक्षदायकम् ॥६३॥विधूय सर्वपापानि मया साकं रमिष्यसि ॥इत्युक्ता विररामाथ धर्मपत्नी पतिव्रता ॥६४॥भर्तृशापान्महाघोरां मंडूकतनुमाश्रिता ॥शेषाद्रिशिखरे तस्मिन्घोणतीर्थस्य दक्षिणे ॥६५॥शनैःशनैर्गता नारी पिप्पलद्रुमकोटरम् ॥अब्दायुतं गतं तस्या अश्वत्थद्रुमकोटरे ॥६६॥ततः कालांतरेऽगस्त्यो वेंकटाद्रिं मनोहरम् ॥गत्वा श्रीस्वामितीर्थे च स्नात्वा नियमपूर्वकम् ॥६७॥वराहस्वामिनं देवं नत्वा तीर्थस्य दक्षिणे ॥वेंकटेशालयं गत्वा श्रीनिवासं कृपानिधिम्॥ ६८॥वेदवेद्यं विशालाक्षं देवदेवं सनातनम् ॥नत्वाऽगस्त्यो महाभागो घोणतीर्थं ततो ययौ ॥६९॥तत्र स्नात्वा तीर्थवर्ये स्वशिष्यै योगिनां वरः ॥पिप्पलद्रुमच्छायायां शिष्येभ्यो भक्तिपूर्वकम् ॥७०॥घोणतीर्थस्य माहात्म्यं ब्रह्महत्याविनाशकम् ॥सर्वमंगलदं पुण्यं सर्वसम्पत्प्रदायकम्॥ ७१॥उक्तवान्योगिनां श्रेष्ठो ह्यगस्त्यो भगवानृषिः ॥७२॥॥ अथ घोणतीर्थे अगस्त्यदर्शनेन तुम्बुरुपत्न्या वर्षाभूत्व निवृत्तिः ॥तदा श्रुत्वा तु वर्षाभूः पादयोस्तस्य योगिनः ॥पतित्वा ज्ञानदीपेन विदित्वा वैभवं मुनेः ॥७३॥पूर्वरूपं समासाद्य नारी रूपं मनोहरम् ॥अगस्त्य योगिनां श्रेष्ठ रक्षरक्ष दयानिधे ॥७४॥मां रक्ष दयया ब्रह्मन्पतिवाक्यविरोधिनीम् ॥इत्युक्त्वा तं विक्षालाक्षी विरराम ततः परम् ॥७५॥॥ अगस्त्य उवाच ॥का त्वं सुश्रोणि भद्रं ते भेकजन्मप्रदायकम् ॥पापं पूर्वभवे चासीत्तद्वदस्व च मा चिरम् ॥७६॥॥नार्युवाच ॥तुम्बुरुर्नाम गन्धर्वः सर्वविद्याविशारदः ॥तस्य भार्यास्म्यहं विप्र ह्यगस्त्य मुनिसेवित ॥७७॥भर्ता मे सर्वधर्मज्ञस्तुम्बुरुर्मुनिसत्तमः ॥सर्वधर्मान्मनोज्ञा त्वं कुरु नित्यं मया सह ॥७८॥पतिवाक्यं तदा श्रुत्वा परलोकोपकारकम् ॥असह्यं वाक्यमत्युग्रं दुर्गतिप्रदमेव हि ॥७९॥मया चोक्तं हि दुर्बुद्ध्या हे तात मुनिसत्तम ॥८०॥॥ अथागस्त्यकथितपतिव्रताधर्माः ॥॥ अगस्त्य उवाच ॥कुशाग्रबुद्धिस्ते भर्ता शशाप त्वां रुषान्वितः ॥एवं शापो युक्त एव पतिवाक्यविरोधिनीम् ॥८१॥पतिवाक्यमनादृत्य स्वेच्छया वर्तते तु या ॥सा नारी निरये घोरे पतत्याचन्द्रतारकम् ॥८२॥न स्वातन्त्र्यं तु नारीणां नोल्लंघ्यं पतिभाषणम् ॥पातिव्रत्येन पुण्येन पतिशुश्रूषणेन च ॥८३॥स्त्रियो विष्णुपदं यान्ति न चान्यैरपि सुव्रतैः ॥पतिर्माता पतिर्विष्णुः पतिर्ब्रह्मा पतिः शिवः ॥८४॥पतिर्गुरुः पतिस्तीर्थमिति स्त्रीणां विदुर्बुधाः ॥पतिवाक्यमपाकृत्य या नारी सुकृतैः परैः ॥८५॥सदैव युज्यते सापि नैव शुद्धा भवेत्सकृत् ॥पतिहीना तु या नारी गुरुभिर्धर्मवित्तमैः ॥८६॥सा कृतज्ञा विदध्यात्तु व्रतं धर्मफलप्रदम् ॥पतिना प्रेरिता सैव पतिबुद्धिपरायणा ॥८७॥पतिपादाब्जतीर्थेन या स्नाता सा हरिप्रिया ॥सा स्नाता सर्वतीर्थेषु गङ्गादिषु न संशयः ॥८८॥तस्मात्त्वत्कृतदोषस्तु त्वामायातीति तत्फलम् ॥भुञ्जन्त्यास्तेऽत्र शृण्वन्त्या घोणतीर्थस्य वैभवम् ॥८९॥मुक्तिरासीच्छुभांगं तन्नारीरूपं पुनर्यथा ॥तस्माद्घोणस्य तीर्थस्य तुम्बुतीर्थमितीह वै ॥९०॥लोके प्रसिद्धिरभवदहो तीर्थस्य वैभवम् ॥९१॥अथ घोणतीर्थस्नातॄणां नानाविधफलप्राप्तिः ॥॥ श्रीसूत उवाच ॥घोणतीर्थे महापुण्ये सर्वपापविनाशिनि ॥स्नान्ति ये पौर्णमास्यां वै शौनकाद्या महौजसः ॥९२॥तेषां क्रतुफलं पुण्यं तीर्थायुतफलं भवेत् ॥कपिलागोसहस्रं तु यो ददाति दिनेदिने ॥९३॥तत्फलं समवाप्नोति स्नानात्तुम्बुरुतीर्थके ॥रत्नकोटिसहस्राणि यो ददाति दिनेदिने ॥९४॥मत्तेभानां सहस्राणि तथैवाश्वायुतान्यपि ॥तत्फलं समवाप्नोति घोणतीर्थावगाहनात् ॥९५॥कन्याकोटिप्रदानेन यत्फलं चर्षिभिः स्मृतम् ॥तत्फलं समवाप्नोति घोणतीर्थाच्च पावनात् ॥९६॥हेमांबरसहस्रं यः कुरुक्षेत्रे प्रयच्छति ॥तत्फलं समवाप्नोति घोणतीर्थस्य वैभवात् ॥९७॥गुर्वर्थे ब्राह्मणार्थे च स्वाम्यर्थे यस्त्यजेत्तनुम् ॥तत्फलं समवाप्नोति घोणतीर्थस्य वैभवात् ॥९८॥आपन्नार्तिहराणां च तीर्थसेवापरात्मनाम् ॥सत्यव्रतानां यत्पुण्यं घोणतीर्थाच्च तद्भवेत् ॥९९॥यत्फलं श्राद्धकर्तॄणां पितृणामिन्दुसंक्षये ॥तत्फलं समवाप्नोति घोणतीर्थाद्धि पावनात् ॥१००॥गङ्गायां नर्मदायां च सरयूचन्द्रभागयोः ॥सर्वेषु पुण्यतीर्थेषु यः स्नानं कुरुते नरः ॥तत्फलं समवाप्नोति घोणतीर्थाद्धि पावनात् ॥१०१॥तस्मात्पुण्यतमं तीर्थं घोणतीर्थं विदुर्बुधाः ॥१०२॥य इमं शृणुतेऽध्यायं सर्वपापनिबर्हणम् ॥वाजपेयफलं तस्य विष्णुलोकश्च शाश्वतः ॥१०३॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां द्वितीये वैष्णवखंडे श्रीवेङ्कटाचलमाहात्म्ये तुम्बुरुतीर्थमाहात्म्यवर्णनंनाम षड्विंशोऽध्यायः ॥२६॥ N/A References : N/A Last Updated : August 25, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP