वेङ्कटाचलमाहात्म्यम् - अध्यायः २८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ ऋषय ऊचुः ॥
सूत सर्वार्थतत्त्वज्ञ वेदवेदान्तपारग ॥
श्रीवेंकटाचले तीर्थं कटाहाख्यं सुपावनम् ॥१॥
श्रूयते तस्य माहात्म्यं घुष्यते च जगत्त्रये ॥
अस्माकमेतद्ब्रूहि त्वं कृपया व्यासशासित ॥२॥
पुरा वै नारदः श्रीमान्ब्रह्मपुत्रो महानृषिः ॥
दृष्ट्वा वै नैमिषारण्यं संप्राप्तो द्विजसत्तमः ॥३॥
तदानीं ब्रह्मपुत्रं तमर्घ्यपाद्यादिभिः शुभैः ॥
पूजयित्वा यथान्यायं पवित्रे च कुशासने ॥४॥
सन्निवेश्य महाभक्त्या विनयानतकन्धराः ॥
प्रणम्य प्रार्थयामासुरिमे सर्वे महर्षयः ॥५॥
त्वां विना नारद श्रीमन्नस्माकं भुवनत्रये ॥
धर्मोपदेशकः कश्चिन्नास्ति नास्ति महर्षिषु ॥६॥
वेंकटाद्रौ महापुण्ये सर्वदेवनिषेविते॥
वैकुण्डादागते दिव्ये सिद्धगन्धर्वसेविते ॥७॥
कटाहतीर्थमाहात्म्यं वर्णयाद्य वनौकसाम् ॥८॥
॥ श्रीनारद उवाच ॥
शृणुध्वमृषयः सर्वे शौनकाद्या महौजसः ॥
कटाहतीर्थमाहात्म्यं को वेत्ति भुवनत्रये ॥९॥
महादेवो विजानाति तस्य तीर्थस्य वैभवम् ॥
यानि कानि च पुण्यानि ब्रह्माण्डान्तर्गतानि वै ॥१०॥
तानि गंगादितीर्थानि स्वपापपरिशुद्धये ॥
कटाहतीर्थसेवां च कुर्वन्ति द्विजसत्तमाः ॥११॥
ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राश्चेतरजातयः ॥
स्पृशन्ति तज्जलमिति न पिबेद्यो विमूढधीः ॥१२॥
स हि चण्डालतां प्राप्य कुम्भीपाके पतिष्यति ॥
ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतीश्वरः ॥१३॥
सेवया तस्य तीर्थस्य प्राप्नोति परमं पदम् ॥
श्रुतिस्मृतिपुराणेषु तत्तीर्थस्य प्रशंसनम् ॥१४॥
बहुधा वर्ण्यते पंचमहापातकनाशनम् ॥
अत्यद्भुततरं विप्राः सर्वलोकैकपावनम् ॥१५॥
ब्रह्महत्यायुतं चापि सुरापानायुतं तथा ॥
अयुतं गुरुदाराणां गमनं पापकारणम् ॥१६॥
स्तेयायुतं सुवर्णानां तत्संसर्गाश्च कोटयः ॥
शीघ्रं विलयमायांति तस्य तीर्थस्य सेवया ॥१७॥
यानि निष्कृतिहीनानि पापानि विविधानि च ॥
तानि सर्वाणि नश्यंति तीर्थस्यास्य निषेवणात् ॥१८॥
इदं तीर्थं महापुण्यं भगवत्पादनिस्सृतम् ॥
कुष्ठादिरोगयुक्तो यः प्रत्यहं च पिबेदिदम् ॥१९॥
॥ अथ कटाहतीर्थमहिमश्रद्धाशून्यानां महानरकप्राप्तिः ॥
सोऽपि रोगविहीनः सन्विष्णुलोकं च गच्छति ॥
भगवाञ्छंकरो देवो रहस्यानुभवे पुरा ॥२०॥
पार्वत्यै कथयामास तस्य तीर्थस्य वैभवम् ॥
उक्तेष्वेतेषु सन्देहो न कर्तव्यः कदाचन ॥२१॥
अर्थवादोऽयमिति च न वक्तव्यं कदाचन ॥
येऽर्थवादमिदं ब्रूयुस्तेषां वै नास्तिकात्मनाम् ॥२२॥
जिह्वाग्रे परशुं तप्तं प्रक्षिपन्ति च किंकराः ॥
तस्मात्कटाहतीर्थं तु सेवनीयं प्रयत्नतः ॥२३॥
सर्वदुःखप्रशमनमपवर्गफलप्रदम् ॥
यत्र पीत्वा नरो भक्त्या सर्वान्कामानवाप्नुयात्॥२४॥
एवमुक्त्वा महाभागः काशीं त्रैलोक्यपावनीम् ॥
संप्राप्तो नारदः श्रीमान्सूत पौराणिकोत्तम ॥२५॥
संक्षेपतश्च भगवान्नैमिषे ह्युक्तवान्खलु ॥
इदानीं श्रोतुमिच्छामः कटाहस्य च वैभवम् ॥२६॥
सुविस्तरेण चास्माकं वद सूत कृपावशात् ॥२७॥
॥ अथ कटाहतीर्थपानक्रमः ॥
॥ श्रीसूत उवाच ॥
भोभोस्तपोधनाः सर्वे नैमिषारण्यवासिनः ॥
कटाहतीर्थमाहात्म्यं शृणुध्वं द्विजसत्तमाः ॥२८॥
कटाहतीर्थं भो विप्राः सर्व लोकेषु विश्रुतम् ॥
सर्वसम्पत्करं शुद्धं सर्वपापप्रणाशनम् ॥२९॥
दुःस्वप्ननाशनं ह्येतन्महापातकनाशनम् ॥
महाविघ्नप्रशमनं महाशान्तिकरं नृणाम् ॥३०॥
स्मृतिमात्रेण यत्पुंसां सर्वपापनिषूदनम् ॥
मन्त्रेणाष्टाक्षरेणैव पिबेत्तीर्थं मनोहरम् ॥३१॥
अथवा केशवाद्यैश्च नामभिर्वा पिबेज्जलम् ॥
यद्वा नामत्रयेणाऽपि पिबेत्तीर्थं शुभप्रदम् ॥३२॥
आहोस्विद्वेंकटेशस्य मन्त्रेणाष्टाक्षरेण वै ॥
पिबेत्कटाहतीर्थं तद्भुक्तिमुक्तिप्रदायकम् ॥३३॥
विना मंत्रेण यो विप्रः संपिबेत्तीर्थमुत्तमम् ॥
पापं मे नाशय क्षिप्रं जन्मान्तरकृतं महत् ॥३४॥
इत्युक्त्वा स पिबेन्नित्यं मोक्षमार्गैकसाधनम् ॥
स्वामिपुष्करिणीस्नानं वराहश्रीशदर्शनम् ॥३५॥
कटाहतीर्थपानं च त्रयं त्रैलोक्यदुर्लभम् ॥
बहुना किमिहोक्तेन ब्रह्महत्यादिनाशनम् ॥३६॥
॥ अथ केशवाख्यद्विजवृत्तान्तः ॥
पुरा कश्चिद्द्विजो मोहात्केशवाख्यो बहुश्रुतम् ॥
हत्वा खड्गेन दुर्बुद्ध्या ब्रह्महत्यामवाप्तवान् ॥३७॥
सोऽपि तस्मिन्महातीर्थे पीत्वा जलमनुत्तमम् ॥
केशवाख्यो महापापी विमुक्तो ब्रह्महत्यया ॥३८॥
॥ ऋषय ऊचुः ॥
कस्य पुत्रः केशवाख्यः कथं प्राप्तो भयंकरीम् ॥
ब्रह्महत्यामतिक्रूरामस्माकं वक्तुमर्हसि ॥३९॥
॥ श्रीसूत उवाच ॥
तुङ्गभद्रातटे रम्ये गन्धर्वैरुपसेविते ॥
अग्रहारो महानासीद्वेदाढ्य इति नामतः ॥४०॥
तस्मिन्वेदपुरे रम्ये ब्राह्मणा वेदपारगाः ॥
शब्दशास्त्रपराः सर्वे ज्योतिःशास्त्रप्रवर्तकाः ॥४१॥
मीमांसातर्कशास्त्रज्ञाः सर्वे वेदान्तवादिनः ॥
धर्मशास्त्रेषु निरता अन्नदानपराः सदा ॥४२॥
पुत्रवन्तश्च ते सर्वे ह्यग्रहारे महाजनाः ॥
वेदाढयेऽप्यग्रहारे वै पद्मनाभ इति श्रुतः ॥४३॥
॥ अथ गणिकालंपटस्य केशवद्विजस्य ब्रह्महत्याप्राप्तिक्रमः ॥
तस्य पुत्रः केशवाख्यः सर्वकर्मबहिष्कृतः ॥
मातरं पितरं त्यक्त्वा भार्यामपि पतिव्रताम् ॥४४॥
सर्वदा गणिकासक्तो वेश्यागारं विवेश ह ॥
दिनद्वये च तां वेश्यामनुभूय द्विजस्ततः ॥४५॥
निष्कद्वयं प्रदातव्यं हस्ते दत्त्वा गतः सुखम् ॥
वेश्यया चाधनस्त्यक्तस्तत्संयोगैकतत्परः ॥४६॥
इतस्ततश्चोरयित्वा बहुद्रव्याणि सन्ततम् ॥
दत्त्वा तया चिरं रेमे तद्गृहे बुभुजे च सः ॥४७॥
एकेन चषकेणासौ तया सह सुरां पपौ ॥
स कदाचित्किरातैस्तु द्रव्यं हर्तुं ययौ द्विजः ॥४८॥
विप्रस्य कस्यचिद्गेहे सोऽपि कैरातवेषधृक् ॥
केशवो विप्रबन्धुर्वै साहसी खङ्गहस्तवान् ॥४९॥
तद्गृहस्वामिनं विप्रं हत्वा खड्गेन साहसात् ॥
समादाय बहु द्रव्यं वेश्यागारं विवेश ह ॥५०॥
तं यान्तमनुयाति स्म ब्रह्महत्या भयंकरी ॥
नीलवस्त्रधरा भीमा भृशं रक्तशिरोरुहा ॥५१॥
गर्जन्ती साट्टहासं सा कम्पयन्ती च रोदसी ॥
अनुद्रुतस्तया विप्रो बभ्राम जगतीतले ॥५२॥
एवं भ्रमन्धरां सर्वां विप्रबन्धुर्दुरात्मवान् ॥
स्वग्रामं प्रययौ भीत्या शौनकाद्या महौजसः ॥५३॥
अनुद्रुतस्तया भीतः प्रययौ स्वनिकेतनम्॥
ब्रह्महत्याप्यनुद्रुत्य तेन साकं गृहं ययौ ॥५४॥
जनकं रक्ष रक्षेति केशवः शरणं ययौ ॥
मा भैषीरिति स प्रोच्य पिता रक्षितुमुद्यतः ॥५५॥
॥ अथ स्वसुतरक्षणोद्युक्ते पद्मनाभे ब्रह्महत्योक्तिः ॥
क्रूरैनं ब्रह्महत्या सा जनकं प्रत्यभाषत ॥५६॥
॥ ब्रह्महत्योवाच ॥
मैनं त्वं प्रतिगृह्णीष्व पद्मनाभ द्विजोत्तम ॥
अयं सुरापी स्तेयी च ब्रह्महा चातिपातकी ॥५७॥
मातृद्रोही पितृद्रोही भार्यात्यागी च दुष्टधीः ॥
गणिकासक्तचित्तश्च ह्येनं मुञ्च दुरात्मकम् ॥५८॥
गृह्णासि चेत्सुतं विप्र महापातकिनं वृथा ॥
त्वद्भार्यामस्य भार्यां च त्वां च पुत्रमिमं द्विज ॥५९॥
भक्षयिष्यामि वंशं च तस्मान्मुञ्च दुरात्मकम् ॥
इमं त्यजसि चेत्पुत्रं युष्मान्मुञ्चामि सांप्रतम् ॥६०॥
नैकस्यार्थे कुलं हन्तुमर्हसि त्वं महामते ॥
इत्युक्तः स तया तत्र पद्मनाभोऽब्रवीच्च ताम् ॥६१॥
॥ पद्मनाभ उवाच ॥
बाधते मां सुतस्नेहः कथं पुत्रं परित्यजे ॥
ब्रह्महत्या तदाकर्ण्य पद्मनाभं तमब्रवीत् ॥६२॥
॥ ब्रह्महत्योवाच ॥
पुत्रोऽयं पतितोऽभूत्ते वर्णाश्रमबहिष्कृतः ॥
पुत्रेस्मिन्मा कुरु स्नेहं निंदितं तस्य दर्शनम् ॥६३॥
इत्युक्त्वा ब्रह्महत्या सा पद्मनाभस्य पश्यतः ॥
हस्तेन प्रजहारास्य सुतं केशवनामकम् ॥६४॥
रुरोद ताततातेति जनकं प्रब्रुवन्मुहुः ॥
रुरुदुर्जनको माता भार्या तस्य दुरात्मनः ॥६५॥
॥ अथ पद्मनाभं प्रति भरद्वाजकथितो ब्रह्महत्याविमुक्त्युपायः ॥
तस्मिन्काले महाभागो भरद्वाजो महामुनिः ॥
दिष्ट्या समाययौ योगी शौनकाद्या महौजसः ॥६६॥
पद्मनाभोऽथ तं दृष्ट्वा भरद्वाजं महामुनिम् ॥
स्तुत्वा प्रणम्य शरणं ययाचे पुत्रकारणात् ॥६७॥
भरद्वाज महाभाग साक्षाद्विष्ण्वंशको भवान् ॥
त्वद्दर्शनमपुण्यानां भविता न कदाचन ॥६८॥
ब्रह्महा च सुरापी च स्तेयी चाभूत्सुतो मम ॥
पुत्रं प्रहर्तुमा याता ब्रह्महत्या भयंकरी ॥६९॥
भूयाद्यथा मे पुत्रोयं महापातकमोचितः ॥
घोरेयं ब्रह्महत्या च यथा शीघ्रं लयं व्रजेत् ॥७०॥
तमुपायं वदस्वाद्य मम पुत्रे दयां कुरु ॥
एक एव हि पुत्रो मे नान्योऽस्ति तनयो मुने ॥७१॥
सुते मृते तु वंशो मे समुच्छिद्येत मूलतः ॥
ततः पितृभ्यः पिण्डानां दाताऽपि न भवेद्ध्रुवम् ॥७२॥
ततः कृपां कुरुष्व त्वमस्मासु भगवन्मुने ॥
इत्युक्तः स भरद्वाजः साक्षान्नारायणांशकः ॥७३॥
ध्यात्वा तु सुचिरं कालं पद्मनाभं वचोऽब्रवीत् ॥७४॥
॥ भरद्वाज उवाच ॥
पद्मनाभ कृतं पापमतिक्रूरं सुतेन ते ॥
नास्य पापस्य शान्तिः स्यात्प्रायश्चित्तायुतैरपि ॥७५॥
तथाऽपि ते सुतस्याहमस्य पापस्य शान्तये ॥
प्रायश्चित्तं वदिष्यामि पद्मनाभ शृणु द्विज ॥७६॥
गङ्गाया दक्षिणे भागे द्विशतीयोजने द्विज ॥
पूर्वाम्भोधेः पश्चिमे तु पञ्चभिर्योजनैर्मिते ॥७७॥
सुवर्णमुखरीतीरे चोत्तरे क्रोशमात्रके ॥
वेंकटाद्रिति ख्यातः सर्वलोकनमस्कृतः ॥७८॥
मेरुपुत्रो महापुण्यः सर्वदेवाभिवन्दितः ॥
वैकुण्ठलोकादानीतो विष्णोः क्रीडाचलो महान् ॥७९॥
गरुत्मता वेगवता स्वर्णमुख्यास्तटे शुभे ॥
वर्तते देवसंघैश्च ऋषिसंघैश्च पूजितः ॥८०॥
तस्मिन्वेंकटशैलेन्द्रे साक्षान्नारायणः स्वयम् ॥
लक्ष्मीदेव्या च भूदेव्या नीलादेव्या समागतः ॥८१॥
वर्तते वेंकटेशः स साक्षान्मोक्षप्रदायकः ॥
तस्य वेंकटनाथस्य ह्यालयस्य तथोत्तरे ॥८२॥
कटाहतीर्थं विप्रेन्द्र वर्तते मङ्गलप्रदम् ॥
ब्रह्महत्यादिपापघ्नं वाञ्छितार्थप्रदायकम् ॥८३॥
सुतेन साकं विप्रेंद्र पिब तीर्थं मनोहरम् ॥
भरद्वाजस्य वाक्यं तच्छ्रुत्वा वै वेदसंमितम् ॥८४॥
शिरसा तं प्रणम्याथ ययौ वेंकटपर्वतम् ॥८५॥
॥ अथ भरद्वाजोक्त्या कटाहतीर्थपानेन केशवस्य ब्रह्महत्याविमुक्तिः ॥
तं गत्वा वेंकटं शैलं स्वामिपुष्करिणीजले ॥
सुतेन साकं विप्रेंद्रः सस्नौ नियमपूर्वकम् ॥८६॥
वराहस्वामिनं नत्वा श्रीनिवासालयं गतः ॥
प्रदक्षिणं ततः कृत्वा विमानं संप्रणम्य च ॥८७॥
पद्मनाभोऽथ पुत्रेण केशवेन दुरात्मना ॥
पपौ कटाहतीर्थं तद्ब्रह्महत्याविनाशकम् ॥८८॥
तदानीं ब्रह्महत्या सा शीघ्रमेव लयं गता ॥
अनन्तरं ततो गत्वा वेंकटेशं कृपानिधिम् ॥८९॥
पुत्रेण सह विप्रेन्द्रः पद्मनाभो ददर्श सः ॥
तदा प्रादुरभूद्देवो वेङ्कटेशो दयानिधिः ॥९०॥
कटाहतीर्थपानेन तोषितो वाक्यमब्रवीत् ॥९१॥
॥ अथ ब्रह्महत्याविमुक्तसुतेन सहितं पद्मनाभं प्रति भगवदुक्तिः ॥
॥ श्रीभगवानुवाच ॥
पद्मनाभ महाबुद्धे वेदवेदान्तपारग ॥
भरद्वाजस्य वाक्येन प्राप्य वेंकटपर्वतम् ॥९२॥
कटाहतीर्थं त्वं पीत्वा कृतार्थोऽसि न संशयः ॥
तव पुत्रः केशवाख्यो विमुक्तो ब्रह्महत्यया ॥९३॥
तस्मात्कटाहतीर्थं तु सेवनीयं प्रयत्नतः ॥
तस्मिंस्तीर्थे महाभाग पीत्वा जलमनुत्तमम् ॥९४॥
पापिनोऽपि कृतार्थाः स्युः सत्यं सत्यं न संशयः ॥
मामकं लोकमागत्य सुखी भव महामते ॥९५॥
इत्युक्त्वा वेंकटेशोऽसावन्तर्धानं गतस्ततः ॥९६॥
॥ श्रीसूत उवाच ॥
तस्मात्तपोधनाः सर्वे शौनकाद्या महौजसः ॥
कटाहतीर्थमाहात्म्यमितिहाससमन्वितम् ॥९७॥
यथाश्रुतं मया सम्यक्तथोक्तं भवतां द्विजाः ॥९८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये सूतशौनक संवादे कटाहतीर्थप्रशंसनंनामाष्टाविंशोऽध्यायः ॥२८॥
N/A
References : N/A
Last Updated : August 25, 2024
TOP