श्रीगणेशाय नमः ॥ आदौ ब्रह्म त्वमेकमेव जगतां वेदात्ममूर्तिर्विभो । पश्चात्क्षोणितले विनाशिदितिजे कृत्वावतारं प्रभो ॥ हत्वा दैत्यमनेकधर्मचिता भूत्वात्मजोऽत्रेर्गृहे । वंदेऽहं नरकेसरी सरस्वती श्रीपादयुग्मांबुजं ॥१॥
भूदेवाखिलमानुषं विदुर्जना बाधायमानः कलिं । वेदायुष्यमनेकवर्णमनुजाभेदादिभूतोन्नतिं ॥ छेत्ताऽधर्मतमांधकारहरणज्ञानप्रदीपोज्ज्वलं । वंदेऽहं नरकेसरी सरस्वती श्रीपादयुग्मांबुजं ॥२॥
ध्यातस्त्वं हरिमनेकयाति गुरवो जाताग्रजन्मा विभो । हेतुः सर्व विभोजनाय हरणं ज्योतिःस्वरूपं जगत् ॥ चातुर्थाश्रमस्थापितं क्षितितले पातुः सदा सेव्ययं । वंदेऽहं नरकेसरी सरस्वती श्रीपादयुग्मांबुजं ॥३॥
चरितं चित्रमनंतकीर्तमतुलं परिभूतभूमंडले । मूकं वाक्यदिवांधकस्य नयनं वंध्यां च पुत्रं ददत् ॥
सौभाग्यं विधवा च दायकश्रियं द्त्त्वा च भक्तं जनं । वंदेऽहं नरकेसरी सरस्वती श्रीपादयुग्मांबुजं ॥४॥
दुरिताघोरदरिद्रदावतिमिरहरणं जगज्ज्योतिषं । सूरधेनुमुरपाद पारतजना करुणादि भक्तार्तिहा ॥ नरसिंहसरस्वतीश्वर विभो शरणागतं रक्षणं । वंदेऽहं नरकेसरी सरस्वती श्रीपादयुग्मांबुजं ॥५॥
गुरुमूर्तिचरणारविंदयुगुलस्मरणे कृते । नित्यं सौचरितं क्षेत्रमनेकतीर्थसफलं सरिदादि भागीरथी ॥
तुरगादि मेधसहस्त्रगो विदुर्जनः सम्यक् ददंस्तत्फलं । वंदेऽहं नरकेसरी सरस्वती श्रीपादयुग्मांबुजं ॥६॥
नो शक्यं तव नाम मंगलस्तवं वेदागमागोचरं । पादद्वंद्वहृदयज्वरातरजलं निधाय त्वीष प्राकृतं ॥
भूयो भूयः स्मरन्नमामि मनसा श्रीसद्गुरूं पाहि मां । वंदेऽहं नरकेसरी सरस्वती श्रीपादयुग्मांबुजं ॥७॥
भक्तानां तरणाय सर्वजगतां दीक्षां ददन्योगिनां ॥ सुक्षेत्रं सुरगाणगस्थित प्रभो दत्वा चतुष्कामदा ॥
स्तुत्वा भक्तिसरस्वती गुरुपदं जित्वाद्य घोषादिकं । वंदेऽहं नरकेसरी सरस्वती श्रीपादयुग्मांबुजं ॥८॥
एवं श्रीगुरुनाथमष्टकमिदं स्तोत्रं पठेन्नित्यशः । तेजोवर्चबलोन्नतिश्रियकरमानंदवर्धं वपुः ॥ पुत्रापत्यमनेकसंपदलभं दीर्घायुरारोग्यतां । वंदेऽहं नरकेसरी सरस्वती श्रीपादयुग्मांबुजं ॥९॥
शांतं पद्मासनस्थं शशिधरमुकुटं पंचवक्त्रं त्रिनेत्रं । शूलं वज्रं च खङ्गं परशुमभयदं दक्षिणाङ्गे वहंतं ॥
नागं पाशं च घंटां वरडमरुयुतं चांकुशं वामभागे । नानालंकारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥१०॥