प्रातःस्मरामि करुणावरुणालयं तं
श्रीदत्तमार्तवरदं वरदंडहस्तम् ।
संतं निजार्तिशमनं दमनं विनीतं
स्वान्तर्गताखिलमलं विमलं प्रशान्तम् ॥१॥
प्रातर्नमामि भजदिष्टवरप्रदन्तं
दत्तं प्रसादसदनं वरहीरदन्तं ।
कान्तं मुदा त्रिनयनं भवमोक्ष हेतुं
सेतुं वृषस्य परमं परमादिहेतुं ॥२॥
प्रातर् नमामि प्रयतोऽनूसूयः
मित्रं यमित्रं यमितोऽनुसूयः ।
भूयांस आप्तार्थमिहार्थ बन्धुं
कारुण्यसिंधुं प्रणतोऽस्मि भक्त्या ॥३॥
लोकत्रयगुरोर्यस्तु श्लोकत्रयमिदं पठेत् ।
श्रीदत्तात्रेयदेवस्य तस्य संसारभीः कुतः ॥४॥