रक्तास्योन्नतनासिकासुचरणो हंसे प्रसन्नेन्द्रियो गौरः पीनकपालरक्तकरजो हंसस्वनः श्लेष्मतः ।
शङ्घाब्जाङ्कुशमत्स्यदामयुगकैः खट्वाङ्गमालाघटैश्चञ्चत्पादकरस्थतो मधुनिभे नेत्रे सुवृत्तं शिरः ॥१॥
जलाशयप्रीतिरतीव कामी न याति तृप्तिं वनितासु नूनम् ।
उच्चोऽङ्खलैरवयवैः षडशीतितुल्यैरायुर्भवेत्षष्टयवधिः समानम् ॥२॥
बाह्लीकदेशादरशूरसेनगन्धर्वगङ्गायमुनान्तरालान् ।
भुक्त्वा वनान्ते निधनं प्रयाति हंसोऽयमुक्तो मुनिभिः प्रमाणैः ॥३॥