पूर्वमायुः परीक्षेत पश्चाल्लक्षणमादिशेत् । आयुर्हीननराणां च लक्षणैः किं प्रयोजनम् ॥१॥
खेटाः सर्वे महादुष्टा अष्टमस्थानमाश्रिताः ॥२॥
शशाङ्कस्तु विशेषेण जन्मकाले च मृत्युदः । कृष्णपक्षे दिवाजातः शुक्लपक्षे यदा निशि ।
तदा षष्ठाष्टमश्चन्द्रो मातृवत् परिपालकः ॥३॥
पञ्चमस्थो निशानाथस्त्रिकोणे च बृहस्पतिः । दशमे च महीसूनुः शतवर्ष स जीवति ॥४॥
शनैश्चरस्तुलाकुम्भमकरे यदि वा भवेत् । लग्ने षष्ठे तृतीये वा तदारिष्टं न जायते ॥५॥
राहुर्वृषे त्रिभिर्दृष्टे केतुदृष्टे चतुष्टये । वृषे च गुरुशुक्राभ्यां दीर्घकालं स जीवति ॥६॥
केन्द्रे शुभो यदैकोऽपि बली विश्वप्रकाशकः । सर्वे दोषाः क्षयं यान्ति दीर्घायुश्च भवेन्नरः ॥७॥
एकोऽपि केन्द्रे बुधजीवशुक्राः क्रूराः सहस्त्राणि विरुद्धयुक्ताः ।
तथापि सर्वाण्यपि यान्ति नाशं यथा मृगाः केसरिदर्शनेन ॥८॥
पाताले वाम्बरे लग्ने सुते धर्मे तथाऽऽयगे । बृहस्पतिस्तथा शुक्रो नाशयेहुरितं बहु ॥९॥
एकोऽपि केन्द्रे यदि ह्युच्चसंस्थः सर्वे ग्रहा भावगुणेन तुल्यम् ।
सर्वेप्यरिष्टं च विनाशयन्ति तमो यथा भास्करदर्शनेन ॥१०॥
शुक्रो दशसहस्त्राणि बुधो दशशतानि च । लक्षमेकं तु दोषाणां गुरुर्लग्ने व्यपोहति ॥११॥
केन्द्रत्रिकोणगो जीवः शुक्रो वा चन्द्रनन्दनः । तस्य पुंसश्च दीर्घायुः स भवेद्राजवल्लभः ॥१२॥
गुरुर्धनुषि मीने वा तथा कर्कटकेऽपि वा । लग्नात्रिकोणे केन्द्रे वा तदारिष्टं न जायते ॥१३॥
अजवृषकर्कटलग्ने रक्षति राहुः समग्रपीडाभ्यः । पृथ्वीपतिः प्रसन्नः कृतापराधं यथा पुरुषम् ॥१४॥
राहुस्त्रिषष्ठलाभे लग्नात् सौम्यैर्निरीक्षितः सद्यः । नाशयति सर्वदुरितं मारुत इव तूलसंघातम् ॥१५॥
विलग्नपो यत्र बलेन युक्तो लाभे तृतीये यदि कण्टके वा ।
सर्वाण्यरिष्टानि प्रयान्ति दूरं दीर्घायुरारोग्यतनुं करोति ॥१६॥
एकोऽपि यदि केन्द्रस्थो भार्गवोऽथ गिरांपतिः । नवमे वा सुनस्थाने सर्वारिष्टं निवारयेत् ॥१७॥
बुधभार्गवजीवानामेकतमः केन्द्रमाश्रितो बलवान् । क्रूरः सहायो यद्यपि सद्योऽरिष्टप्रशमनाय ॥१८॥
स्वस्थानगोऽधिकबलः सुरराजमन्त्री कन्द्रोपगः प्रशमयेत्स्फुरदंशुजालः ।
एको बहूनि दुरितानि सुदुस्तराणि भक्त्या प्रयुक्त इव शूलधरे प्रणामः ॥१९॥
लग्नाधिपोतिबलवान् किल सौम्यदृष्टः केन्द्रस्थितैः शुभखगैरथ वीक्ष्यमाणः ।
मृत्युं विहाय विदधाति सुदीर्घमायुः संपूर्यते निजगृहं परया च लक्ष्म्या ॥२०॥
लग्नादष्टमसंस्थो गुरुबुधशुक्रद्रेष्काणगश्चन्द्रः । मृत्युं प्राप्तमपि नरं परिरक्षत्ययुतबालम् ॥२१॥
चन्द्रः संपूर्णतनुः सौम्यर्क्षगतोऽथवा शुभस्यान्ते । प्रकरोत्यरिष्टभङ्गं विशेषतः शुकसंदृष्टः ॥२२॥
रिपुगः शुभद्रेष्काणे स्थितः शशी सौम्याः खचराः सबलाः । कुर्वन्त्यरिष्टभङ्गं विशेषं यथा वसुधां चलुकः ॥२३॥
सौम्यद्वयान्तर्गतः सपूर्णस्निग्धमण्डलश्चन्द्रः । भिनत्त्यशेषारिष्टान्भुजगारिर्भुजगलोकमिव ॥२४॥
प्रस्फुरितकिरणजाले स्निग्धामलमण्डले बलोपेतः । सुरमंत्रिणि केन्द्रगते सर्वारिष्टं क्षयं याति ॥२५॥
सौम्यानां भवनगताः सौम्यांशकसम्भवद्रेष्काणस्थाः । गुरुचन्द्रकाव्यशशिजाः सर्वारिष्टस्य हन्तारः ॥२६॥
चन्द्रोपाश्रितराशितपःकेन्द्रे शुभग्रहो वापि । प्रकरोत्यरिष्टभङ्गं पापानि यथा शिवस्मरणम् ॥२७॥
पापा यदि शुभवर्गे सौम्यैर्दृष्टाः शुभांशवर्गस्थैः । निघ्नन्ति सदारिष्टं पतेर्विरक्ता यथा युवतिः ॥२८॥
शीर्षोदयेषु राशिषु सर्वे गगनाधिवासिनोऽधिगताः । प्रतिहन्ति सर्वदुरितं यथा घृतं वाग्निसंयोगात् ॥२९॥
तत्कालयुद्धविजयी शुभग्रहः शुभनिरीक्षितश्चापि । नाशयति कष्टनिवहं वात्या इव पादपं सकलम् ॥३०॥
गगनविभूषणसौम्यैर्दृष्टो नाशयति सर्वदुरितानि । संपूर्णमूर्तिरुडुपो दुर्नयनः खं यथा नाशम् ॥३१॥
उदये सप्तमुनीनां तथागस्त्यः पुनरपि विलीयते । तदारिष्टं नवशीतिमिवापापैरवीर्येश्च शुभैः सवीर्येः ॥३२॥
शुभराशौ तनुभावपे निरीक्षिते व्योमचरैः । शुभाख्यैः संक्षीयतेऽरिष्टं मुखागतं हि ॥३३॥
मूर्तेस्तु राहुस्त्रिपडायवर्ती रिष्टं हरत्येव शुभैः प्रदिष्टः । शीर्षोदयस्थैर्विक्रुतिं न याति समस्तखेटैः खलु रिष्टभङ्गः ॥३४॥
तत्र व्यये लाभरिपुत्रिसंस्थाः केतुस्तु हेतुर्निधनोपशान्त्यै । परस्परं भार्गवजीवसौम्यास्त्रिकोणगास्तेऽपि हरन्त्यारिष्टम् ॥३५॥
सन्ध्याभवा वैधृतिपातभद्रगण्डांतयुक्ता यदि जन्मकाले । भवंत्यरिष्टस्य विनाशनार्थ निरन्तरा दृश्यदले च सर्वे ॥३६॥
चतुष्टये श्रेष्ठबलाधिशाली शुभो नभोगोऽष्टमगो न कश्चित् । विंशन्मितायुः प्रकरोति नूनं दशान्वितं तच्छुभखेटदृष्टः ॥३७॥
निजत्रिभागे स्वगृहे गुरुश्चेदायुर्गतिः स्यात्खलु विंशविंशत् । बृहस्पतिस्तुङ्गगतो विलग्ने भृगोः सुतः केन्द्रगतः शतायुः ॥३८॥
लग्ने स्वतुङ्गे बलशालिनीन्दौ सौम्याः स्वभस्थाः खलु षष्टिरायुः । मूलत्रिकोणेषु शुभेषु तुङ्गे लग्ने गुरावायुरशीतिरेव ॥३९॥
लग्नाष्टमारीन्दुयुता न चेत्स्युः क्रूराः स्वभस्था यदि खेचरौ द्वौ । बलान्वितावम्बरगौ भवेतां जातः शतायुः कथितो मुनीन्द्रैः ॥४०॥
शून्ये रन्ध्रे केन्द्रगैः सौम्यखेटैर्लग्ने जीव नैधनेन्दूदयश्चेत् । नो संदृष्टाः पापखैटैस्तदा स्यादायुर्मानं सप्ततिर्वत्सराणाम् ॥४१॥
भानोरग्निभयं शशाङ्कमुदके भौमे मृतिश्चायुधैः सौम्ये कष्टज्वरं महान्तविषमे रामा च हस्ते गुरौ ।
शुक्रे वान्त्यक्षुधातृषा रविसुते मृत्युर्भवेत्सर्वदा सर्वे ते मरणं करोति सततं स्थाने स्थिते चाष्टमे ॥४२॥
दशमे पञ्चमे जीवो बुधश्चन्द्रश्च भार्गवः । शतं जीवी भवेज्जातो धनाढ्यो वेदपारगः ॥४३॥
नवमे पञ्चमे जीवो बुधो भवति सप्तमः । लग्ने भार्गवचन्द्रौ च शतं जीवी भवेन्नरः ॥४४॥
लघुजातकरीत्या गतिविचारः ।
सूर्यादिभिर्धनगैर्हुतवहसलिलायुधक्षुरामयजः । क्षुत्तृट्कृतश्च मृत्युः परदेशे नैधने चरभे ॥४५॥
यो वा बलवान्निधनं पश्यति तद्धातुकोपजो मृत्युः । लग्ने त्रिंशांशपतिर्द्वाविंशतिहायने मृत्युः ॥४६॥
विबुधपितृतिरश्चो नरकान् गुरुरिन्दुसितौ च । असृग्रवीज्ञयमौ रिपुरन्ध्रं त्रिंशषा नयन्ति विस्तारं निधनस्थाः ॥४७॥
षष्ठाष्टमकण्टकगो गुरुरुच्चे भाविमीनलग्ने वा । शेषैरबलैर्जन्मनि मरणे व मोक्षगतिमाहुः ॥४८॥
गुरुरुडुपतिशुक्रौ सूर्यभौमौ यमज्ञौ विबुधपितृतिरश्चो नारकीयांश्च कुर्युः ।
दिनकरशशिवीर्याधिष्ठितत्र्यंशनाथात्प्रवरसमनिकृष्टास्तुङ्गह्लासादिनके ॥४९॥
स्थिरश्चरोद्वेगसमाहयश्च राशिर्यदा जन्मनि चाष्टमस्थः । स्वकीयदेशे विषयान्तरे वा आयुः प्रकुर्यान्मरणक्रमेण ॥५०॥
आर्यर्ग्रहं खेटविवर्जितं चेद्विलोकयेत् तद्वलवान् ग्रहेन्द्रः । तद्धेतुजातं प्रवदन्ति मृत्युं बहुप्रकारं बहवो बलिष्ठाः ॥५१॥
पित्तं कफः पित्तमथ त्रिदोषं श्लेष्मानिलो वाप्यनिलः क्रमेण । सूर्यादिकेभ्यो मरणस्य हेतुः प्रकल्पितः प्राक्तनजातकज्ञैः ॥५२॥