तत्र - तनुभावफलम् ।
सूर्याच्च नवमे तातश्चन्द्रे माता चतुर्थगः । भौमस्य तृतीये भ्राता बुधे चतुर्थंमातुलः ॥३॥
गुरोः पञ्चमतः पुत्रो भृगुः सप्तमतः स्त्रियः । शनेरष्टमतो मृत्युर्यदा क्रूरो भवेन्नरः ॥४॥
अथद्वादशभवनविचारः ।
तत्रादौ अरिष्टमाह -
सूर्यो भौमस्तथा राहुः शनिर्मूर्तो यदान्वितः । सन्तापो रक्तपीडा च सौम्यैः सर्वनिरोगता ॥५॥
भौमक्षेत्रे यदा जीवो जीवक्षेत्रे च भूसुतः । द्वादशे वत्सरे मृत्युर्बालकस्य न संशयः ॥६॥
धनस्थाने यदा भौमः शनैश्चरसमन्वितः । सहजे च भवेद्राहुर्वर्षमेकं स जीवति ॥७॥
चतुर्थे च यदा राहुः षष्ठे चन्द्रोऽष्टमेऽपि वा । सद्यश्चैव भवेन्मृत्युः शङ्करो यदि रक्षति ॥८॥
अष्टमस्थो निशानाथः केन्द्रे पापेन संयुतः । चतुर्थे च यदा राहुर्वर्षमेकं स जीवति ॥९॥
लग्ने व्यये धने क्रूरो यदा मृत्यौ च जायते । विष्ठाया मार्गबन्धः स्याद्वादशाष्टमवत्सरे ॥१०॥
सप्तमे भवने भौमो अष्टमे भार्गवो यदा । नवमे भवने सूर्य अल्पायुस्तस्य कथ्यते ॥११॥
धने क्रूरः स्वभवने क्रूरः पातालगो यदा । दशमे भवने क्रूरः कष्टं जीवति जातकः ॥१२॥
स्मरे व्यये च सहजे मध्ये क्रूरे यदा ग्रहाः । तदा जातस्य बालस्य शरीरे कष्टमादिशेत् ॥१३॥
लग्नस्थाने यदा भौमो द्वादशे च यदा गुरुः । शुक्रः शत्रुगृहे यस्य मासमेकं स जीवति ॥१४॥
क्षीणचन्द्रे गते लग्ने क्रूरग्रहनिरीक्षिते । द्वितीये द्वादशे भौमो मासमेकं स जीवति ॥१५॥
मूर्तिसप्तमयोः क्रूराः पापाव्ययद्वितीयगाः । चतुर्थे च यदा राहुः सप्ताहान्म्रियते तदा ॥१६॥
षष्ठाष्टमेऽपि चन्द्रः सद्यो मरणाय पापसन्दृष्टः । अष्टाभिः शुभदृष्टो वर्षेर्मिश्रैस्तदर्द्धेन ॥१७॥
द्वादशस्थो यदा सौरिर्लग्नसंस्थश्च भूसुतः । चतुर्थः पौरिकेयश्च ह्यष्ट मासान् स जीवति ॥१८॥
शुभलग्ने यदा जीवो ह्यष्टमे च शनैश्चरः । रन्ध्रसंस्थे च पापे च सद्यो मृत्युप्रदो भवेत् ॥१९॥
चतुर्थे नवमे सूर्ये अष्टमे च बृहस्पतौ । द्वादशे च शशाङ्के च सद्यो मृत्युकरो भवेत् ॥२०॥
शशिसूर्यसिते केन्द्रे संयुक्तश्चन्द्रजार्किणा । हन्ति वर्षद्वयनैव जातकं शिष्टभावितः ॥२१॥
गुरुर्मन्दगृहे वक्री मन्दगे बुधभास्करे । ईप्सितं कुरुते मृत्युं मन्दे चैकादशे ध्रुवम् ॥२२॥
सूर्यमन्दगृहे शुक्रो गुरुणा च विलोकितः । नवभिर्मारयत्येनं वर्षैर्जातं न संशयः ॥२३॥
सूर्यण सहितश्चन्द्रो बुधगृहगतः सदा । न वीक्षितश्च सौम्येन नववर्षेण मृत्युदः ॥२४॥
बुधः सूर्येन्दुसंयुक्तो वीक्षितोऽपि शुभैर्ग्रहैः । वर्षेरेकादशैस्तेन मारयत्येव निश्चित्तम् ॥२५॥
लग्नादष्टसगो राहुः शनिः सूर्यावलोकितः । निरीक्षितः शुभैः कुर्यादष्टद्वादशभिः क्षयम् ॥२६॥
धने राहुर्बुधः शुक्रः सौरेः सूर्यो यदा स्थितः । तत्र जातो भवेन्मृत्युर्मृते पितरि जायते ॥२७॥
व्यये राहुः सौरिसौम्यौ जीवो लग्ने च पञ्चमे । अत्र योगे च यो जातो जातमात्रः स नश्यति ॥२८॥
जीवार्कराहुभौमाः स्युश्चत्वारः क्रूरवेश्मगाः । सप्तमे च गृहे शुक्रो देहकष्टकराः सदा ॥२९॥
गुह्यस्थाने यदा भौमो राहुः सौरिसमन्वितः । नृपपीडा भवेत्तस्य स्वासने नैव तिष्ठति ॥३०॥
चतुर्थे राहुसौरार्काः षष्ठे चन्द्रो बुधः कुजः । भार्गवश्चात्र यो जातः स गृहस्य क्षयंकरः ॥३१॥
एकः पापोऽष्टमस्थोऽपि शत्रुक्षेत्रे यदा भवेत् । पापेन वीक्षितो वर्षान्मारयत्येव बालकम् ॥३२॥
भौमभास्करमन्दाश्च शत्रुक्षेत्रेऽष्टमे यदा । यमेन रक्षितोप्येष वर्षमात्रं स जीवति ॥३३॥
वक्री शनिभौंमगेहे केन्द्रे षष्ठेऽष्टमेऽपि वा । कुजेन बलिना दृष्टा हन्ति वर्षद्वये शिशुम् ॥३४॥
शनिराहुकुजैर्युक्तः सप्तमे नवमे शशी । सप्तमे दिवसे हन्ति मासे वा सप्तमे शिशुम् ॥३५॥
लग्नस्थश्च यदा भानुः पञ्चमस्थो निशाकरः । अष्टमस्था यदा पापास्तदा जातो न जीवति ॥३६॥
लग्नपः पापसंयुक्तो लग्ने वा पापमध्यगे । लग्नात्सप्तमगः पापस्तदा चात्मवधो भवेत् ॥३७॥
क्रूरक्षेत्रे यदा जीवो लग्नेशोऽस्तं गतो भवेत् । अकर्मा च तदा जातः सप्तवर्षाणि जीवति ॥३८॥
अष्टमे च यदा सौरिर्जन्मस्थाने च चन्द्रमाः । मंदाग्न्युदररोगी च गात्रहीनश्च जायते ॥३९॥
शनिक्षेत्रे यदा भानुर्भानुक्षेत्रे यदा शनिः । द्वादशे वत्सरे मृत्युस्तस्य जातस्य जायते ॥४०॥
बुधभौमौ यदा लग्ने षष्ठस्थानेऽथवा स्थितौ । तस्करश्चौरकर्मा स्याद्धस्तपादौ च नश्यतः ॥४१॥
षष्ठेऽष्टमे वा मूर्तो च शत्रुक्षेत्रे यदा बुधः । चतुर्वर्षैवेन्मृर्बालकस्य न संशयः ॥४२॥
अष्टमस्थो यदा राहुः केन्द्रस्थाने च चन्द्रमाः । सद्य एव भवेन्मृत्युर्बालकस्य न संशयः ॥४३॥
चतुर्थस्थो यदा राहुः षष्ठाष्टमगृहे शशी । विंशत्या दिवसैर्मृत्युर्बालकस्य न संशयः ॥४४॥
सप्तमे नवमे राहुः शत्रुक्षेत्रे यदा भवेत् । षोडशे वत्सरे मृत्युर्बालकस्य न संशयः ॥४५॥
द्वादशस्थो यदा चन्द्रः पापः स्यादष्टमे गृहे । एकमासे भवेन्म्रुत्युस्तस्य बालस्य निश्चितम् ॥४६॥
जन्मस्थाने यदा राहुः षष्ठस्थाने च चन्द्रमाः । अपस्मारस्तदा रोगो बालकस्य हि जायते ॥४७॥
भार्गवेण युतश्चन्द्रः षष्ठामगतो भवेत् । मन्दाग्न्युदररोगी च हीनाङ्गोऽपि च बालकः ॥४८॥
षष्ठाष्टमे यदा चन्द्रो बुधयुक्तश्च तिष्ठति । विषदोषेण बालस्य तदा मरणमुच्यते ॥४९॥
भानुना संयुतश्चन्द्रः षष्ठाष्टमयुतो भवेत् । गजदोषेण मृत्युर्वा सिंहदोषेण वा भवेत् ॥५०॥
एकोऽपि यदि मूर्तौ स्याज्जन्मकाले दिवाकरः । स्थानहीनो भवेद्वालो वृत्तिर्दुष्टा सदा पुनः ॥५१॥
लग्नेऽष्टमे यदा राहुश्चन्द्रो वा यदि दृश्यते । दशाहैर्जायते तस्य बालस्य मरणं ध्रुवम् ॥५२॥
लग्नाच्च नवमे सूर्यः सूर्यपुत्रे तथाऽष्टमे । एकादशे भार्गवे च मासमेकं न जीवति ॥५३॥
नवमे दशमे चन्द्रः सप्तमे च यदा सितः । पापे पातालसंस्थे च वंशच्छेदकरो नरः ॥५४॥
शत्रुक्षेत्रेऽष्टमे षष्ठे द्वितीये द्वादशे रविः । स जीवति षड्वर्षाणि बालको नात्र संशयः ॥५५॥
शत्रुक्षेत्रेऽष्टमे मूर्तो बुधः षष्ठे प्रजायते । बालो जीवति वर्षाणि चत्वारि नात्र संशयः ॥५६॥
एकादशे तृतीये च नवमे पञ्चमे गुरौ । शत्रुक्षेत्रे वृद्धस्थाने भवेत्पञ्चाशदष्टायुः ॥५७॥
नवमे पञ्चमे वापि रिपुक्षेत्रे बृहस्पतिः । तदा षटत्रिंशद्वर्षाणि जीवते नात्र संशयः ॥५८॥
मित्रक्षेत्रैकादशमे दशमे वा यदा गुरुः । शत्रुक्षेत्रेऽथवा शुक्रो द्वितीये द्वादशे भवेत् । एकविंशतिवर्षायुर्जायते बालको ध्रुवम ॥५९॥
शत्रुक्षेत्रेऽष्टमे षष्ठे द्वितीये द्वादशे शनिः । अष्टौ दिनान्यष्टमासानष्टवर्षाणि जीवति ॥६०॥
चन्द्रक्षेत्रे यदा भौमो जायते मनुजः सदा । रक्तपित्तेन हीनाङ्गो नानाव्याधिसमन्वितः ॥६१॥
चन्द्रक्षेत्रे यदा चान्द्रिर्जायते यस्य जन्मनि । स जातः क्षयरोगी स्यात्कुष्ठादिभिरुपद्रुतः ॥६२॥
राहौ च केन्द्रगे मृत्युः पापानां दृष्टिसंयुते । संवत्सरे तु दशमे षोडशे तु विशेषतः ॥६३॥
चन्द्रः सप्तमभवने शनिभौमराहुसंयुतो भवति । यदा सप्तमदिवसे मृत्युः सप्तमभवने शनिभौमराहुसंयुतो भवति ।
सप्तमदिवसे मृत्युः सप्तममासे न सन्देहः ॥६४॥
भौमक्षेत्रे यदा जीवो षष्ठेऽष्टमे च चन्द्रमाः । षष्ठेऽष्टमे भवेन्मृत्यू रक्षको यदि शङ्करः ॥६५॥
जन्मसप्तमभे सौरिरष्टमे यदि चन्द्रमाः । ब्रह्मपुत्रो यदा जातः सोऽपि पुत्रो न जीवति ॥६६॥
षष्ठाष्टमे यदा चन्द्रो रविर्भवति सप्तमः । पितृमातृधनं हन्ति मासमेकं न जीवति ॥६७॥
द्वादशे जीवशुक्रौ च जन्मतो राहुरेव च । सप्तमे च यदा सौरिर्वर्षमेकं न जीवति ॥६८॥
भौमे दिवाकरे छिद्रे जातः शत्रुगृहे यदि । स नरो म्रियतेऽवश्यं यमो मासेन रक्षकः ॥६९॥
यदा लग्ने ग्रहः क्रूरो षष्ठाष्टमेऽपि चन्द्रमाः । तदा सद्यो भवेन्मृत्युर्जातकस्य न संशयः ॥७०॥
चतुर्थेऽपि यदा राहुः केन्द्रे भवति चन्द्रमाः । विंशद्वर्षे भवेन्मृत्युर्जातकस्य न संशयः ॥७१॥
सप्तमस्थो यदा राहुर्जन्मकाले यदा तदा । दशवर्षैर्भवेन्मृत्युरमृतं यदि पीयते ॥७२॥
लग्नेऽष्टमे सदा राहुश्चन्द्रो वा यदि पश्यति । जातकस्य तदा मृत्युर्यदि शक्रेण रक्षितः ॥७३॥
दशमेऽपि यदा भौम उच्चः शत्रुगृहे स्थितः । जातकस्य भवेन्मृत्युर्मातुश्चैव न संशयः ॥७४॥
लग्नास्थितो यदा भानुः पञ्चमस्थो निशापतिः । लग्नेऽष्टमे स्थिताः पापास्तदा जातो न जीवति ॥७५॥
लग्नात्सप्तमशीतांशुः पापाष्टमेषु लग्नगः । लग्नस्थितो यदा भानुर्मासेन म्रियते शिशुः ॥७६॥
धने गुरुः सैंहिकेयो भौमः शुक्रश्च सप्तमे । अष्टमे रविचन्द्रौ च म्लेच्छः स्याद्यवने स्थितः ॥७७॥
लग्नस्थाने यदा भौम अष्टमे च दिवाकरः सौरेश्चतुर्थभवने तदा कुष्ठी भवेन्नरः ॥७८॥
धर्मस्थाने यदा पापा लग्नात्पापश्चतुर्थगः । कर्मस्थानगतो राहुस्तदा म्लेच्छो भवेद्ध्रुवम् ॥७९॥
व्ययभवनगे चन्द्रे वामं चक्षुर्विनश्यति । यदा सूर्यो द्वितीयस्थस्तदा ह्यन्धं समादिशेत् ॥८०॥
सिंहलग्ने यदा जन्म शनिर्मूतौ यदा भवेत् । चक्षुर्हीनो भवेद्वालः शुक्रे जन्मान्धको भवेत् ॥८१॥
होरायां द्वादशे राशौ स्थितो यदि दिवाकरः । करोति दक्षिणे काणं वामनेत्रे च चन्द्रमाः ॥८२॥
स्वस्थाने लग्नतः क्रूरः क्रूरः पातालगः पुनः । दशमे भवने क्रूरो कष्टं जीवति जातकः ॥८३॥
अस्मिन्योगेन यो जातो मातुर्दुःखकरो भवेत् । यदि जीवेदसौ जातो मातृपक्षक्षयंकरः ॥८४॥
क्रूरे क्षेत्रे भवेत्सूर्यः कन्यायां क्रूरसंस्थितः । क्रूरक्षेत्रे भवेद्राहु कष्टं जीवति जातकः ॥८५॥
शुक्रे च वाक्पतौ बुद्धौ नीचे राहुसमन्विते । चन्द्रमाश्च न पश्येत सोऽपि बालो न जीवति ॥८६॥
षष्ठाष्टमे यदा चन्द्रो द्वादशे रविमङ्गलौ । सोऽपि जातो न जीवेत रक्षते यदि शंकरः ॥८७॥
षष्ठाष्टमे यदा केतुः केन्द्री भवति चन्द्रमाः । सद्यो बालकमृत्युः स्याद्रक्षिता यदि शङ्करः ॥८८॥
चन्द्रो बुधस्तथा सूर्यः शनिश्चान्ते यदा भवेत् । मध्यस्थाने यदा भौमो हीनदृष्टिस्तदा भवेत् ॥८९॥
अर्कः सौरिस्तथा भौमः स्वर्भानुः केतुसंयुतः । नीचसंयुक्तदृष्टिः स्यात् स जातो मातृघातकः ॥९०॥
रविराहू सौरिभौमौ जीवो लग्ने च पञ्चमे । योगेऽस्मिन्नपि यो जातो जातमात्रो विनश्यति ॥९१॥
क्रूरे क्षेत्रे गतो जीवो रवी राहुर्धरासुतः । सप्तमे भवने शुक्रो देही कष्टं प्रयाति च ॥९२॥
क्रूरे लग्ने भवेज्जातस्तत्स्वामी क्रूरेक्षेत्रगः । आत्मघातो भवेत्तस्य शरीरे कष्टमादिशेत् ॥९३॥
सप्तमे भवने भौमः पञ्चमे च दिवाकरः । अरण्ये च भवेज्जन्म वृक्षालये न संशयः ॥९४॥