भौमादीनां फलं यत्स्याज्जाताः कस्य तुलं बुधः । प्राज्ञाय प्रवदेत् सम्यक्सुनफादिकृतं फलम् ॥१॥
विक्रमवित्तप्रायो निष्ठुरवचनश्च भूपतिश्चन्द्रः । हिंस्त्रो नित्यविरोधी सुनफायां सोमसंयोगे ॥२॥
श्रुति शास्त्रगेयकुशलो धर्मरतः काव्यकृन्मनस्वी च । सर्वहितो रुधिरतनुः सुनफायां सोमजो भवति ॥३॥
नानाविद्याचार्यः ख्यातिं नृपतिं वृषप्रियं चापि । सकुटुम्बधनसमृद्धं सुनफायां सुरगुरुः कुरुते ॥४॥
स्त्रीक्षेत्रगृहपश्चतुष्पदाढ्यः सुविक्रमोभवति । नृपसत्कृतः सुवेषो दक्षः शुक्रेण सुनफायाम् ॥५॥
निपुणमतिर्ग्रामपुरैर्नित्यं संपूजितो धनसमृद्धः । सुनफायां रवितनये क्रियासुगुप्तो भवेन्मलिनः ॥६॥