उक्तानि यस्माद्वहुधा फलानि व्योमौकसां दृष्टिसमुद्भवानि ।
तस्मात्प्रवच्म्यानयनं हि दृष्टेर्होराविदां दृक्फलनिर्णयोऽयम् ॥१॥
दृश्यो द्रष्टा चरहिततनुः षड्ग्रहभ्योऽधिकश्चे
द्विस्त्यः शोध्यो विहितकलिकः खाभ्रपक्काद्रिभक्तः ।
दृष्टिः सा स्याद्यदि रसग्रहेभ्योऽधिकः पञ्चहीनो
लिप्तीभूतो धृतिशत १८०० हतः स्याच्चतुर्भाधिकश्चेत् ॥२॥