संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - विविध योगः

मानसागरी - अध्याय ४ - विविध योगः

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


हंसयोगः ।

मेषे घटे चापतुलामृगालौ मध्यग्रहे हंस इति प्रसिद्धः ।

सर्वेश्च पूर्णो नृपतेश्च पूज्यो हंसोद्भवो राजसमो मनुष्यः ॥१॥

वापीयोगः ।

धने व्यये तथा लग्ने शेषस्थानेषु संस्थिताः ।

वापीयोगो भवेदेवमुदितः पूर्वसूरिभिः ॥१॥

दीर्घायुः स्यादात्मवंशप्रधानः सौख्योपेतोत्यंतधीरो नरो हि ।

चञ्चद्वाक्यस्तन्मनाः पुण्यवापी वापीयोगे यः प्रसूतः प्रतापी ॥२॥

यूपयोगः ।

लग्नाच्चतुर्थात्स्मरतः खमध्याच्चतुर्ग्रहस्थैर्गगनेम्बरेन्द्रैः ।

क्रमेण यूपश्च शरश्च शक्तिर्दण्डः प्रदिष्टः खलु जातकज्ञैः ॥३॥

यूपयोगफलम् ।

धीरोदारो यज्ञकर्मानुसारो नानाविद्यासद्विचारो नरोच्चः ।

यस्योत्पत्तौ वर्तते यूपयोगो योगो लक्ष्म्या जायते तस्य नित्यम् ॥४॥

शरयोगफलम् ।

हिंस्त्रोऽत्यन्तं चित्र ( तुल्य ) दुःखैः प्रतप्तः प्राप्तानन्दः काननान्ते शरज्ञः ।

मर्त्यो योगे यः शरे जातजन्मा स्त्रीरंभाख्या तस्य न क्कापि सौख्यम् ॥५॥

शक्तियोगफलम् ।

नीचैरुच्चैः प्रीतिकृत्सालसश्च सौख्यैरर्थैर्वर्जितो दुर्बलश्च ।

वादे युद्धे तस्य बुद्धिर्विशालाशालासौख्यस्याल्पता शक्तियोगे ॥६॥

दण्डयोगफलम् ।

दीनो हीनोन्मत्तसञ्जातसौख्यो द्वेष्योद्वेगी गोत्रजैर्जातवेदः ।

कान्तापुत्रैरर्थपुत्रैर्विहीनो हीनो बुद्धया दण्डयोगे तु जन्मा ॥७॥

नौका - कूट - छत्र - चाप - अर्द्धचन्द्रयोगाः ।

लग्नाच्चतुर्थात्स्मरतः खमध्यात्सप्तर्क्षगैर्नौरथ कूटसंज्ञः ।

छत्रं धनुश्चापगृहप्रवृत्ता नौपूर्वकैर्योग इहार्द्धचन्द्रः ॥८॥

नौकायोगफलम् ।

ख्यातो लुब्धो भोगसौख्यैर्विहीनः स्यान्नौयोगे लब्धजन्मा मनुष्यः ।

क्लेशी शश्वच्चञ्चलः स्वान्तवृत्तिस्तोयोद्भूते धनधान्येन तस्यः ॥९॥

कूटयोगफलम् ।

दुर्गारण्यावासशीलश्च मल्लो भिल्लप्रीतिर्निर्धनो निन्द्यकर्मा ।

धर्माधर्मज्ञानहीनश्च दुष्टः कूटप्राप्तोत्पत्तिरेवं मनुष्यः ॥१०॥

छत्रयोगफलम् ।

प्राज्ञो राज्ञां कार्यकर्ता दयालुः पूर्वे पश्चात्सर्वसौख्यैरुपेतः ।

यस्योत्पत्तौ छत्रयोगोपलब्धिर्लब्धिः स्याच्चेच्छत्रसच्चामराद्यैः ॥११॥

चापयोगफलम् ।

आद्ये भागे चान्तिमे जीवितस्य सौख्योपेतः काननाद्रिप्रचारः ।

योगे जातः कार्मुके सोऽतिदुष्टो गर्वोन्मत्तोत्पत्तिकृत्कार्मुकास्त्रः ॥१२॥

अर्धचन्द्रयोगफलम् ।

भूमीपालप्राप्तचञ्चत्प्रतिष्ठः श्रेष्ठः सेनाभूषणार्थाम्बराद्यैः ।

चेदुत्पत्तौ यस्य योगोऽर्द्धचन्द्रश्चन्द्रः स स्यादुत्सवार्थ जनानाम् ॥१३॥

चक्रसमुद्रयोगौ ।

तनोर्धनाद्येकगृहान्तरेण स्युः स्थानषट्के गगनेचरेन्द्राः ।

चक्राभिधानश्च समुद्रनामा योगावितीहाकृतिजाश्च विंशत् ॥१४॥

चक्रयोगफलम् ।

श्रीमद्रूपोऽत्यन्तजातप्रतापो भूपो भूपोपायनैरर्जितः स्यात् ।

योगे जातः पूरुषो यस्तु चक्रे चक्रे पृथ्व्याः शालिनी तस्य कीर्तिः ॥१५॥

समुद्रयोगफलम् ।

दाता धीरश्चारुशीलो दयालुः पृथ्वीपालप्राप्तसाम्यः प्रकामम् ।

योगे जातो यः समुद्रे स धन्यो धन्यो वंशस्तेन नूनं नरेण ॥१६॥

गोलादियोगाः ।

ये योगाः कथिताः पुरा बहुतरास्तेषामभावे भवेद-

द्वौ लग्नैकगतिर्युगं द्विग्रहगैः शूलस्त्रिगेहोपगैः ।

केदारश्च चतुर्षु सर्वखचरैः पाशस्तु पंचस्थितैः

षट्संस्थैककदाम सप्तगृहगैर्वीणेति संख्या इमे ॥१७॥

गोलयोगफलम् ।

विद्यासदौदार्यसामर्थ्यहीना नानायासा नित्यजातप्रयासाः ।

एषं योगः संभवेद्नोलनामा नामासत्यप्रीतयोऽनीतयस्ते ॥१८॥

युगयोगफलम् ।

पाखण्डेनाखण्डितप्रीतिभाजो निर्लज्जाः स्युर्धर्मकर्माप्रयुक्ताः ।

पुत्रैरर्थेः सर्वथा ते वियुक्ता युक्तायुक्तज्ञानशून्या युगाख्ये ॥१९॥

शूलयोगफलम् ।

युद्धे वादे तत्पराः क्रूरचेष्टाः क्रूराः स्वान्ते निष्ठुरा निर्द्धनाश्च ।

योगो येषां सूतिकाले हि शूलः शूलप्रायास्ते जनानां भवन्ति ॥२०॥

केदारयोगफलम् ।

चापोपेताश्चार्थवन्तो विनीताः कृष्यौत्सुक्याश्चोपकारादराश्च ।

योगे केदारे नरास्तेन धीराचाराश्चापेऽपीतरेषां विशेपात् ॥२१॥

पाशयोगफलम् ।

दीनाकारास्तत्पराश्चापकारे बन्धेनार्त्ता भूरिजल्पाः सदम्भाः ।

नानानर्थाः पाशयोगप्रजाता जातारण्यप्रीतयः स्युर्मनुष्याः ॥२२॥

दामिनीयोगफलम् ।

जातानन्दो नन्दनाद्यैः सुधीरो विद्वान्भूपः कोपसंजाततोषः ।

चञ्चच्छीलौदार्यबुद्धिः प्रशस्तः शस्तः सूतौ दामिनी यस्य योगः ॥२३॥

वीणायोगफलम् ।

अर्थोपेताः शास्त्रपारंगताश्च संगीतज्ञाः पोषकाः स्युर्बहूनाम् ।

नानासौख्यैरन्वितास्तु प्रवीणा वीणायोगे प्राणिनां जन्म येषाम् ॥२४॥

प्रौक्तैरेतैर्नाभसाद्यैश्च योगैः स्यात्सर्वेषां प्राणिनां जन्म कामम् ।

तस्मादेतेऽत्यन्तयन्त्रादपूर्वाः पूर्वाचार्यैर्जातके सम्प्रदिष्टाः ॥२५॥

चन्द्रयोगफलम् ।

उत्पातके कृशतनुर्निशि वाथ दृश्ये दृश्ये दिवासिरिगर्भयशोदकश्च ।

एवंस्थितः समफलः पृथिवीपतित्वं जातो नयाय कुरुते परिपूर्णमूर्तिः ॥२६॥

दरिद्रयोगः ।

वामवामे ग्रहाः सर्वे सूर्यादीनां मुनिस्तथा ।

दरिद्रयोगं जानीयान्नात्र कार्या विचारणा ॥२७॥

करसंपुटयोगः ।

ऋतुरेतश्च सम्पर्काज्जायते विषमा गतिः ।

करसम्पुटमादाय वन्घ्या भवति निश्चितम् ॥२८॥

कारकयोगः ।

मूलत्रिकोणस्वगृहोच्चसंस्था नभश्चराः केन्द्रगता मिथः स्युः ।

ते कारकाख्याः कथिता मुनीन्द्रैर्विज्ञाय प्राज्ञां भुवने विशेषाः ॥२९॥

प्रालेयरश्मिर्यदि मूर्तिवर्ती स्वमन्दिरस्थो निजतुङ्गजातः ।

कुजार्कजार्कामरराजपूज्याः परस्परं कारकसंज्ञिताश्च ॥३०॥

शुभग्रहे लग्नतेम्बराम्बु १०।४ स्थितो ग्रहः कारकसंज्ञकः स्यात् ।

तुङ्गत्रिकोणस्वगृहांशयातास्तेपोहमाने तपनो विशेषात् ॥३१॥

नीचान्वये यद्यपि जातजन्मा मन्त्री भवेत्कारकखेचराद्यैः ।

राजान्वये तस्य यदि प्रसूतिर्भूमीपतित्वं स कथं न याति ॥३२॥

वेशिस्थितो यस्य शुभोनवेगो लग्नं विलग्नं च लवे स्वकीये ।

केन्द्राणि सर्वाणि च संग्रहाणि तस्यालये श्रीः कुरुते विलासम् ॥३३॥

केंद्रस्थितागुरुविलग्नकजन्मनाथामध्येचयस्यनितरांवितरंतिभाग्यम्

शीर्षोदयोभ्युदयभेषु गताभवेयुरारम्भ ( न्त ) मध्यमविरामफलप्रदास्ते । ॥३४॥

शकटयोगः ।

संस्था विलग्नेऽप्यथ सप्तमे च पतङ्गमुख्यास्तु ग्रहा नितान्तम् ।

वदन्ति योगं शकटाख्यसंज्ञं जातो नरः स्याच्छकटोपजीवी ॥३५॥

नन्द्रायोगः ।

युग्मेयुग्मे भवेत्रीणि ह्येकैकं च त्रिषु स्थितम् ।

नन्दायोगः स विज्ञेयाश्चिरायुश्च सुखप्रदः ॥३६॥

दातारयोगः ।

लग्ने च जीवो युगगे भृगुश्च द्यूने च सौम्यो दशमे महीजः ।

केन्द्रे त्वमी चारुफलप्रदाः स्युः सर्वार्थदातार इति प्रसिद्धाः ॥३७॥

राजहंसयोगः ।

घटे मेषे नरे ३ चापे तुलायां सिंहगे ग्रहे । राजहंसो भवेद्योगो राज्यास्पदसुखप्रदः ॥३८॥

चिह्निपुच्छयोगः ।

सिंहासने च हंसे च दण्डे योगे मरुद्धजे ॥३९॥

चतुःसागरयोगे च चिह्निपुच्छो महाफलम् ॥४०॥

तुलामकरमेषालग्ने वाह्यथवा क्वचित् । सिंहासने च डमरौ चिह्निपुच्छः स शस्यते ॥४१॥

मृगे कर्के च पुच्छः स्याद्राजहंसः सुखप्रदः । कुंभे च मन्मथे चैव चिह्निपुच्छोऽभिधीयते ॥४२॥

मृगे कर्के ध्वजे पुच्छः कन्यालौ वृषभे झषः । चिह्निपुच्छो भवेद्योगश्चतुःसागरगोचरे ॥४३॥

योगोदितफलं पुच्छः करोति द्विगुणं फलम् । तेन योगाधियोगोऽयं लग्नेऽपि कस्यचिन्मते ॥४४॥

घटशून्ये नृपसचिवो गोमहिषीहयजैर्युक्तः । नीतिज्ञो बहुपुत्रो लग्नेऽपि च सम्मतं केषाम् ॥४५॥

ललाटिकयोगः ।

चन्द्राष्टमे चक्रे संज्ञार्कार्किशुक्रा गृहे विधौ । केमद्रुमे च संपूर्णे योगो लालाटिको मतः ॥४६॥

आजन्मतो भवति कारग्रहैः प्रसिद्धः शिल्पादिकर्मकुशलो मुशलाकृतिश्च ।

भूर्यात्मजो विलभते विधिधाम लब्धिं जन्मान्तरेऽपि न जहाति ललाटयोगे ॥४७॥

महापातकयोगः ।

राहुणा सहितश्चन्द्रः सपापो गुरुवीक्षितः ।

महापातकयोगोऽयं यदि शुक्रसमो भवेत् ॥४८॥

बलीवर्दहन्तायोगः ।

भौमेन दृश्यते लग्नं लग्नं पश्यति भास्करः ।

गुरुशुक्रौ न दृश्येते बलीवर्देन हन्यते ॥४९॥

हठाद्धन्तयोगः ।

आय ++ ( पान नं २१८) चन्द्रे चन्द्रस्थानगते रवौ ।

हठेन नामे विज्ञेयः पञ्चरात्रौ विशेषतः ॥५०॥

वृक्षहन्तायोगः ।

मदनयोर्यदा योगो लग्ने च राहुदर्शने ।

वृक्षस्थं मरणं तस्य यदि शुक्रसमो भवेत् ॥५१॥

नासाच्छेदयोगः ।

षष्ठस्थानगते शुक्रे तनुस्थानगते कुजे ।

नासाच्छेदकरो योगो वदामि मुनिरुत्तमः ॥५२॥

कर्णाविच्छेदयोगः ।

मन्दे च दृश्यते चन्द्रो लग्ने च रविभार्गवौ ।

शुभग्रहा न पश्यन्ति कर्णच्छेदो न संशयः ॥५३॥

पादखञ्जयोगः ।

कविना सहितो मन्दो गुरुणा सहितः कविः ।

शुभग्रहा न पश्यन्ति पादखञ्जो भवेन्नरः ॥५४॥

सर्पहन्ता योगः ।

लग्नाच्च सप्तमस्थाने शन्यर्के राहुसंस्थिते ।

सर्पेण पीडा तस्योक्ता शय्यायां स्वपतोऽपि च ॥५५॥

व्याघ्रहन्ता योगः ।

गुरुस्थानगते सौम्ये शनिस्थानगते कुजे ।

पंचविंशतिवर्षे च वने व्याघ्रेण हन्यते ॥५६॥

असिघातयोगः ।

शुक्रस्थानगते चन्द्रे चन्द्रस्थानगते शनौ ।

अष्टाविंशतिवर्षे च ह्यसिघातेन मृत्युदः ॥५७॥

शरक्षेपहस्ता योगः ।

धर्मस्थानगते भौमे शन्यर्कराहुसंयुते ।

शुभग्रहा न पश्यन्ति शरक्षेपेण हन्यते ॥५८॥

ब्रह्मघातियोगः ।

रविणा सहितो भौमः शनिर्वा जीवसंयुतः ।

अष्टार्विशतिवर्षे च ब्रह्मघाती न संशयः ॥५९॥

पञ्चापत्यविनाशयोगः ।

रविस्थानगते चन्द्रे गुरुस्थानसमायुतः ।

सागरे च स्थिते लग्ने पञ्चापत्यविनाशकृत् ॥६०॥

दोलायोगः ।

मीने मेषे च चापे च स्थिते स्थानत्रये ग्रहे ।

दोलासंज्ञकयोगः स्याद्राज्यदोऽयमुदात्दृतः ॥६१॥

सन्मानदानगुणपात्रपरीक्षितो वा कलानिधिः कौशलगीतनृत्यः ।

मंत्रीश्वरो राजसमो विवेकी केन्द्रस्थिते पापविवर्जिते गुरौ ॥६२॥

पदकविच्छेदयोगः ।

लग्नस्थानगतो भौमः शन्यर्कराहुवीक्षितः ।

योगः पदकविच्छेदो यदि शुक्रसमो भवेत् ॥६३॥

इच्छातो मृत्युयोगः ।

केन्द्रस्थानगते भौमे सैंहिकेये च सप्तमे ।

तदा नित्यं विजानीयादस्मान्मृत्युस्तदा भवेत् ॥६४॥

मासमृत्युयोगः ।

लग्नात्सप्तमशीतांशुः पापाष्टशुभलग्नगः ।

लग्नस्थितो यदा भानुर्मासान्ते म्रियते शिशुः ॥६५॥

N/A

References : N/A
Last Updated : March 29, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP