समुदितमृषिवर्थैर्मानवानां प्रयत्नादिह हि दशमभावे सर्वकर्म प्रकामम् ।
गगनगपरिदृष्टया राशिखेटस्वभावैः सकलमपि विचिन्त्यं सत्त्वयोगात्सुधीभिः ॥१॥
तनोः सकाशाद्दशमे शशाङ्के वृत्तिर्भवेत्तस्य नरस्य नित्यम् ।
नानाकलाकौशलवाग्विलासैः सर्वोद्यमैः साहसकर्मभिश्च ॥२॥
तनोः शशांकाद्दशमे बलीयान् स्याज्जीवनं तस्य खगाख्यवृत्त्या ।
बलान्विताद्वर्गपतेस्तु यद्वा वृत्तिर्भवेत्तस्य खगस्य पाके ॥३॥
दिवामणिः कर्मणि चन्द्रतन्वोर्द्रव्याण्यनेकोद्यमवृत्तियोगात् ।
सत्त्वाधिकत्वं च सदा सुरम्यं पुष्टत्वमङ्गे मनसः प्रसादः ॥४॥
लग्नेन्दुतः कर्मणि चेन्महीजः स्यात्साहसाच्चौर्यनिषादवृत्तिः ।
नूनं नराणां विषयातिशक्तिर्दूरे निवासः सहसा कदाचित् ॥५॥
लग्नेन्दुभ्यां कर्मगो रौहिणेयः कुर्याद्द्रव्यं नायकत्वं बहूनाम् ।
शिल्पेऽभ्यासः साहसं सर्वकार्ये विद्वद्वृत्त्या जीवनं मानवानाम् ॥६॥
विलग्नतः शीतमयूखरश्मितो माने मघोनः सचिवो यदि स्यात् ।
नानाधनाभ्यागमनानि पुंसां विचित्रवृत्त्या नृपगौरवं च ॥७॥
होरायाश्च निशाकराद्भृगुसुतो मेषूरणे संस्थितो नानाशास्त्रकलाकलापविलसदृत्त्यादिशेज्जीवनम् ।
दाने साधुनि वै यथा विनयतां कामं धनाभ्यागमं नानामानवनायकादिविरलं विस्तीर्णशीलं यशः ॥८॥
होरायाश्च सुधाकराद्रविसुतः शैलूषमध्यस्थितो वृत्तिं हीनतरां नरस्य कुरुते कार्श्य शरीरे सदा ।
खेदं वादभयं च धान्यधनयोर्हानिं स्वमुच्चैर्मनश्चित्तोद्वेगसमुद्भवेन चपलं शीलं च नो निर्मलम् ॥९॥
जीवो द्विजात्माकरदेवधर्मैः शुक्रो महिष्यादिकरौप्यरत्नैः ।
शनैश्चरो नीचतरप्रकारैः कुर्यान्नराणां खलु कर्मवृत्तिम् ॥१०॥
कर्मस्वामी ग्रहो यस्य नवांशे परिवर्तते ।
तत्तुल्यकर्मणा वृत्तिं निर्दिशन्तु मनीषिणः ॥११॥
मित्रारिगेहोपगतैर्नभोगैस्ततस्ततोऽर्थः परिकल्पनीयः ।
तुङ्गे पतङ्गे स्वगृहे त्रिकोणे स्यादर्थसिद्धिर्निजबाहुवीर्यात् ॥१२॥
बुधभार्गवजीवार्कियुक्तो राहुश्चतुष्टये ।
कुरुते कमलारोग्यपुत्रमानादिकं फलम् ॥१३॥
कर्मस्थाने निजक्षेत्रे भौमशुक्रबुधैर्युतः ।
यदि राहुर्भवेत्तस्य क्षणे वृद्धिः क्षणे क्षयः ॥१४॥
पाताले चाम्बरे पापो द्वादशे च यदा स्थितः ।
पितरं मातरं हन्ति देशाददेशान्तरं व्रजेत् ॥१५॥
चापे सूर्यशनी कुम्भे मेषे भवति चन्द्रमाः ।
मकरे च यदा शुक्रो भुङ्गे नाशं पितुर्धनम् ॥१६॥
सप्तमे भवने भानुर्मध्यस्थो भूमिनन्दनः ।
राहुश्चान्ते च तस्यैव पिता कष्टेन जीवति ॥१७॥
कन्यायां मिथुने राहुः केन्द्रे षष्ठे भवेत् ।
त्रिकोणे च तदा जातो दाता भोक्ता निरामयः ॥१८॥
सूर्यः पापेन संयुक्तः सूर्यश्च पापमध्यगः ।
सूर्यात्सप्तमगः पापस्तदा पितृवधो भवेत् ॥१९॥
दशमस्थो यदा भौमः शत्रुक्षेत्रस्थितो यदि ।
म्रियते तस्य बालस्य पिता शीघ्रं न संशयः ॥२०॥
लग्ने जीवो धने मन्दो रविर्भौमस्तदा बुधः ।
विवाहसमये तस्य बालस्य म्रियते पिता ॥२१॥
भ्रातृस्थाने यदा जीवो लाभस्थाने यदा शशी ।
स लोके गृहमध्यस्थो जायते कुलदीपकः ॥२२॥
सिंहे लग्ने यदा भौमः पञ्चमे च निशाकरः ।
व्ययस्थाने यदा राहुः स जातः कुलदीपकः ॥२३॥
एकः पापो यदा लग्ने पापश्चैको रसातले ।
जायते च द्विनाली स्यात्स जातः कुलदीपकः ॥२४॥
लग्ने वा सप्तमे भौमः पञ्चमे च दिवाकरः ।
व्ययस्थाने यदा राहुर्विख्यातः स न संशयः ॥२५॥
केन्द्रे शुभे यदैकोऽपि बली विश्वप्रकाशकः ।
सर्वदोषाः क्षयं यान्ति दीर्घायुश्च भवेन्नरः ॥२६॥