केमद्रुमे भवति पुत्रकलत्रहीनो देशान्तरे व्रजति दुःखसदाभितप्तः ।
ज्ञातिप्रमोदनिरतो मुखरः कुचैलो नीचः सदा भवति भीतियुतश्चिरायुः ॥१॥
कुले नित्यभोगधनभुग्धनसहनाढ्यसौख्यान्वितो दुरधरां प्रभवेत्सुभृत्यः ।
केमद्रुमे मलिनदुः खितनीचप्रेष्यो निस्वश्च तत्र नृपतेरपि वंशजातः ॥२॥