ग्रहोच्चनीचोभ्यधिके च षट्काच्चक्राच्च्युतो संमहतो विभक्तम् ।
तर्कैस्तु राश्यादिकमप्यलब्धं सूर्यादिकानामिह रश्मिजश्च ॥१॥
रश्मिसंस्कारप्राह -
स्वोच्चस्थितस्य द्विगुणं निरुक्ताः स्वे द्वादशे मित्रगृहे स्वराशौ ।
नृपांशको १६ नाः कथितास्तु नीचे शत्रोः पुनश्चेद्द्विदशांशके च ।
वक्री पुनस्तद्द्विगुणं ददाति तत्त्यागकालेऽष्टमभागहीनः ॥२॥